भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.38

1.38.1

गते महेश्वरे देवे तमुद्दिश्य जनार्दनः
प्रणम्य भगवान्प्राह पद्मयोनिमजोद्भवः ॥

1.38.2

परमेशो जगन्नाथः शङ्करस्त्वेष सर्वगः
आवयोरखिलस्येशः शरणं च महेश्वरः ॥

1.38.3

अहं वामाङ्गजो ब्रह्मन् शङ्करस्य महात्मनः
भवान् भवस्य देवस्य दक्षिणाङ्गभवः स्वयम् ॥

1.38.4

मामाहुर् ऋषयः प्रेक्ष्य प्रधानं प्रकृतिं तथा
अव्यक्तमजमित्येवं भवन्तं पुरुषस्त्विति ॥

1.38.5

एवमाहुर्महादेवम् आवयोरपि कारणम्
ईशं सर्वस्य जगतः प्रभुमव्ययमीश्वरम् ॥

1.38.6

सो ऽपि तस्यामरेशस्य वचनाद्वारिजोद्भवः
वरेण्यं वरदं रुद्रम् अस्तुवत्प्रणनाम च ॥

1.38.7

अथाम्भसा प्लुतां भूमीं समाधाय जनार्दनः
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः ॥

1.38.8

नदीनदसमुद्रांश् च पूर्ववच्चाकरोत्प्रभुः
कृत्वा चोर्वीं प्रयत्नेन निम्नोन्नतविवर्जिताम् ॥

1.38.9

धरायां सो ऽचिनोत्सर्वान् भूधरान् भूधराकृतिः
भूराद्यांश्चतुरो लोकान् कल्पयामास पूर्ववत् ॥

1.38.10

स्रष्टुं च भगवांश्चक्रे मतिं मतिमतां वरः
मुख्यं च तैर्यग्योन्यं च दैविकं मानुषं तथा ॥

1.38.11

विभुश्चानुग्रहं तत्र कौमारकम् अदीनधीः
पुरस्तादसृजद्देवः सनन्दं सनकं तथा ॥

1.38.12

सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम्
मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ॥

1.38.13

दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया
संकल्पं चैव धर्मं च ह्य् अधर्मं भगवान्प्रभुः ॥

1.38.14

द्वादशैव प्रजास्त्वेता ब्रह्मणो ऽव्यक्तजन्मनः
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः ॥

1.38.15

तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ
कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ ॥

1.38.16

एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन
युगधर्मानशेषांश् च कल्पयामास विश्वसृक् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc