लिङ्गपुराण · अध्याय 1.37
भवान्कथमनुप्राप्तो महादेवमुमापतिम्
श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो ॥
प्रजाकामः शिलादो ऽभूत् पिता मम महामुने
सो ऽप्यन्धः सुचिरं कलं तपस्तेपे सुदुश्चरम् ॥
तपतस्तस्य तपसा संतुष्टो वज्रधृक् प्रभुः
शिलादमाह तुष्टो ऽस्मि वरयस्व वरानिति ॥
ततः प्रणम्य देवेशं सहस्राक्षं सहामरैः
प्रोवाच मुनिशार्दूल कृताञ्जलिपुटो हरिम् ॥
भगवन्देवतारिघ्न सहस्राक्ष वरप्रद
अयोनिजं मृत्युहीनं पुत्रमिच्छामि सुव्रत ॥
पुत्रं दास्यामि विप्रर्षे योनिजं मृत्युसंयुतम्
अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै ॥
न दास्यति सुतं ते ऽत्र मृत्युहीनमयोनिजम्
पितामहो ऽपि भगवान् किमुतान्ये महामुने ॥
सो ऽपि देवः स्वयं ब्रह्मा मृत्युहीनो न चेश्वरः
योनिजश् च महातेजाश् चाण्डजः पद्मसंभवः ॥
महेश्वराङ्गजश्चैव भवान्यास्तनयः प्रभुः
तस्याप्यायुः समाख्यातं परार्धद्वयसंमितम् ॥
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै
समतीतानि कल्पानां तावच्छेषापरत्रये ॥
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः
परित्यजाशां विप्रेन्द्र गृहाणात्मसमं सुतम् ॥
तस्य तद्वचनं श्रुत्वा पिता मे लोकविश्रुतः
शिलाद इति पुण्यात्मा पुनः प्राह शचीपतिम् ॥
भगवन्नण्डयोनित्वं पद्मयोनित्वमेव च
महेश्वराङ्गयोनित्वं श्रुतं वै ब्रह्मणो मया ॥
पुरा महेन्द्रदायादाद् गदतश्चास्य पूर्वजात्
नारदाद्वै महाबाहो कथमत्राशु नो वद ॥
दाक्षायणी सा दक्षो ऽपि देवः पद्मोद्भवात्मजः
पौत्रीकनकगर्भस्य कथं तस्याः सुतो विभुः ॥
स्थाने संशयितुं विप्र तव वक्ष्यामि कारणम्
कल्पे तत्पुरुषे वृत्तं ब्रह्मणः परमेष्ठिनः ॥
ससर्ज सकलं ध्यात्वा ब्रह्माणं परमेश्वरः
जनार्दनो जगन्नाथः कल्पे वै मेघवाहने ॥
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धरम्
नारायणो महादेवं बहुमानेन सादरम् ॥
दृष्ट्वा भावं महादेवो हरेः स्वात्मनि शङ्करः
प्रददौ तस्य सकलं स्रष्टुं वै ब्रह्मणा सह ॥
तदा तं कल्पमाहुर्वै मेघवाहनसंज्ञया
हिरण्यगर्भस्तं दृष्ट्वा तस्य देहोद्भवस्तदा ॥
जनार्दनसुतः प्राह तपसा प्राप्य शङ्करम्
तव वामाङ्गजो विष्णुर् दक्षिणाङ्गभवो ह्यहम् ॥
मया सह जगत्सर्वं तथाप्यसृजदच्युतः
जगन्मयो ऽवहद्यस्मान् मेघो भूत्वा दिवानिशम् ॥
भवन्तमवहद्विष्णुर् देवदेवं जगद्गुरुम्
नारायणादपि विभो भक्तो ऽहं तव शङ्कर ॥
प्रसीद देहि मे सर्वं सर्वात्मत्वं तव प्रभो
तदाथ लब्ध्वा भगवान् भवात्सर्वात्मतां क्षणात् ॥
त्वरमाणो ऽथ संगम्य ददर्श पुरुषोत्तमम्
एकार्णवालये शुभ्रे त्व् अन्धकारे सुदारुणे ॥
हेमरत्नचिते दिव्ये मनसा च विनिर्मिते
दुष्प्राप्ये दुर्जनैः पुण्यैः सनकाद्यैरगोचरे ॥
जगदावासहृदयं ददर्श पुरुषं त्वजः
अनन्तभोगशय्यायां शायिनं पङ्कजेक्षणम् ॥
शङ्खचक्रगदापद्मं धारयन्तं चतुर्भुजम्
सर्वाभरणसंयुक्तं शशिमण्डलसन्निभम् ॥
श्रीवत्सलक्षणं देवं प्रसन्नास्यं जनार्दनम्
रमामृदुकराम्भोज स्पर्शरक्तपदाम्बुजम् ॥
परमात्मानमीशानं तमसा कालरूपिणम्
रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम् ॥
सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम्
सर्वात्मानं महात्मानं परमात्मानमीश्वरम् ॥
क्षीरार्णवे ऽमृतमये शायिनं योगनिद्रया
तं दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनम् ॥
ग्रसामि त्वां प्रसादेन यथापूर्वं भवानहम्
स्मयमानस्तु भगवान् प्रतिबुध्य पितामहम् ॥
उदैक्षत महाबाहुः स्मितमीषच्चकार सः
विवेश चाण्डजं तं तु ग्रस्तस्तेन महात्मना ॥
ततस्तं चासृजद्ब्रह्मा भ्रुवोर्मध्येन चाच्युतम्
सृष्टस्तेन हरिः प्रेक्ष्य स्थितस्तस्याथ संनिधौ ॥
एतस्मिन्नन्तरे रुद्रः सर्वदेवभवोद्भवः
विकृतं रूपमास्थाय पुरा दत्तवरस्तयोः ॥
आगच्छद्यत्र वै विष्णुर् विश्वात्मा परमेश्वरः
प्रसादमतुलं कर्तुं ब्रह्मणश् च हरेः प्रभुः ॥
ततः समेत्य तौ देवौ सर्वदेवभवोद्भवम्
अपश्यतां भवं देवं कालाग्निसदृशं प्रभुम् ॥
तौ तं तुष्टुवतुश्चैव शर्वमुग्रं कपर्दिनम्
प्रणेमतुश् च वरदं बहुमानेन दूरतः ॥
भवो ऽपि भगवान् देवम् अनुगृह्य पितामहम्
जनार्दनं जगन्नाथस् तत्रैवान्तरधीयत ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0