भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.36

1.36.1

पूजया तस्य संतुष्टो भगवान्पुरुषोत्तमः
श्रीभूमिसहितः श्रीमाञ् शङ्खचक्रगदाधरः ॥

1.36.2

किरीटी पद्महस्तश् च सर्वाभरणभूषितः
पीतांबरश् च भगवान् देवैर्दैत्यैश् च संवृतः ॥

1.36.3

प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः
दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम् ॥

1.36.4

तुष्टाव वाग्भिर् इष्टाभिः प्रणम्य गरुडध्वजम्
त्वमादिस्त्वमनादिश् च प्रकृतिस्त्वं जनार्दनः ॥

1.36.5

पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान्
यो ऽयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः ॥

1.36.6

तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन
परमात्मा परं धाम श्रीपते भूपते प्रभो ॥

1.36.7

त्वत्क्रोधसंभवो रुद्रस् तमसा च समावृतः
त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः ॥

1.36.8

त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः
कालमूर्ते हरे विष्णो नारायण जगन्मय ॥

1.36.9

महांस् तथा च भूतादिस् तन्मात्राणीन्द्रियाणि च
त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर ॥

1.36.10

महादेव जगन्नाथ पितामह जगद्गुरो
प्रसीद देवदेवेश प्रसीद परमेश्वर ॥

1.36.11

प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः
वैकुण्ठ शौरे सर्वज्ञ वासुदेव महाभुज ॥

1.36.12

संकर्षण महाभाग प्रद्युम्न पुरुषोत्तम
अनिरुद्ध महाविष्णो सदा विष्णो नमो ऽस्तु ते ॥

1.36.13

विष्णो तवासनं दिव्यम् अव्यक्तं मध्यतो विभुः
सहस्रफणसंयुक्तस् तमोमूर्तिर्धराधरः ॥

1.36.14

अधश् च धर्मो देवेश ज्ञानं वैराग्यमेव च
ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत ॥

1.36.15

सप्तपातालपादस्त्वं धराजघनमेव च
वासांसि सागराः सप्त दिशश्चैव महाभुजाः ॥

1.36.16

द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः
नेत्रे सोमश् च सूर्यश् च केशा वै पुष्करादयः ॥

1.36.17

नक्षत्रतारका द्यौश् च ग्रैवेयकविभूषणम्
कथं स्तोष्यामि देवेशं पूज्यश् च पुरुषोत्तमः ॥

1.36.18

श्रद्धया च कृतं दिव्यं यच् छ्रुतं यच्च कीर्तितम्
यदिष्टं तत्क्षमस्वेश नारायण नमो ऽस्तु ते ॥

1.36.19

इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम्
यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम् ॥

1.36.20

श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति ॥

1.36.21

सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम्
विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना ॥

1.36.22

भगवन्ब्राह्मणः कश्चिद् दधीच इति विश्रुतः
धर्मवेत्ता विनीतात्मा सखा मम पुराभवत् ॥

1.36.23

अवध्यः सर्वदा सर्वैः शङ्करार्चनतत्परः
सावज्ञं वामपादेन स मां मूर्ध्नि सदस्यथ ॥

1.36.24

ताडयामास देवेश विष्णो विश्वजगत्पते
उवाच च मदाविष्टो न बिभेमीति सर्वतः ॥

1.36.25

जेतुमिच्छामि तं विप्रं दधीचं जगदीश्वर
यथा हितं तथा कर्तुं त्वमर्हसि जनार्दन ॥

1.36.26

ज्ञात्वा सो ऽपि दधीचस्य ह्य् अवध्यत्वं महात्मनः
सस्मार च महेशस्य प्रभावमतुलं हरिः ॥

1.36.27

एवं स्मृत्वा हरिः प्राह ब्रह्मणः क्षुतसंभवम्
विप्राणां नास्ति राजेन्द्र भयमेत्य महेश्वरम् ॥

1.36.28

विशेषाद्रुद्रभक्तानाम् अभयं सर्वदा नृप
नीचानामपि सर्वत्र दधीचस्यास्य किं पुनः ॥

1.36.29

तस्मात्तव महाभाग विजयो नास्ति भूपते
दुःखं करोमि विप्रस्य शापार्थं ससुरस्य मे ॥

1.36.30

भविता तस्य शापेन दक्षयज्ञे सुरैः समम्
विनाशो मम राजेन्द्र पुनरुत्थानमेव च ॥

1.36.31

तस्मात्समेत्य विप्रेन्द्रं सर्वयत्नेन भूपते
करोमि यत्नं राजेन्द्र दधीचविजयाय ते ॥

1.36.32

श्रुत्वा वाक्यं क्षुपः प्राह तथास्त्विति जनार्दनम्
भगवानपि विप्रस्य दधीचस्याश्रमं ययौ ॥

1.36.33

आस्थाय रूपं विप्रस्य भगवान् भक्तवत्सलः
दधीचमाह ब्रह्मर्षिम् अभिवन्द्य जगद्गुरुः ॥

1.36.34

भोभो दधीच ब्रह्मर्षे भवार्चनरताव्यय
वरमेकं वृणे त्वत्तस् तं भवान्दातुमर्हति ॥

1.36.35

याचितो देवदेवेन दधीचः प्राह विष्णुना
ज्ञातं तवेप्सितं सर्वं न बिभेमि तवाप्यहम् ॥

1.36.36

भवान् विप्रस्य रूपेण आगतो ऽसि जनार्दन
भूतं भविष्यं देवेश वर्तमानं जनार्दन ॥

1.36.37

ज्ञातं प्रसादाद्रुद्रस्य द्विजत्वं त्यज सुव्रत
आराधितो ऽसि देवेश क्षुपेण मधुसूदन ॥

1.36.38

जाने तवैनां भगवन् भक्तवत्सलतां हरे
स्थाने तवैषा भगवन् भक्तवात्सल्यता हरे ॥

1.36.39

अस्ति चेद्भगवन् भीतिर् भवार्चनरतस्य मे
वक्तुमर्हसि यत्नेन वरदांबुजलोचन ॥

1.36.40

वदामि न मृषा तस्मान् न बिभेमि जनार्दन
न बिभेमि जगत्यस्मिन् देवदैत्यद्विजादपि ॥

1.36.41

श्रुत्वा वाक्यं दधीचस्य तदास्थाय जनार्दनः
स्वरूपं सस्मितं प्राह संत्यज्य द्विजतां क्षणात् ॥

1.36.42

भयं दधीच सर्वत्र नास्त्येव तव सुव्रत
भवार्चनरतो यस्माद् भवान् सर्वज्ञ एव च ॥

1.36.43

बिभेमीति सकृद्वक्तुं त्वमर्हसि नमस्तव
नियोगान्मम विप्रेन्द्र क्षुपं प्रति सदस्यथ ॥

1.36.44

एवं श्रुत्वापि तद्वाक्यं सान्त्वं विष्णोर्महामुनिः
न बिभेमीति तं प्राह दधीचो देवसत्तमम् ॥

1.36.45

प्रभावाद्देवदेवस्य शंभोः साक्षात्पिनाकिनः
शर्वस्य शङ्करस्यास्य सर्वज्ञस्य महामुनिः ॥

1.36.46

ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः
चक्रमुद्यम्य भगवान् दिधक्षुर्मुनिसत्तमम् ॥

1.36.47

अभवत्कुण्ठिताग्रं हि विष्णोश्चक्रं सुदर्शनम्
प्रभावाद्धि दधीचस्य क्षुपस्यैव हि संनिधौ ॥

1.36.48

दृष्ट्वा तत्कुण्ठिताग्रं हि चक्रं चक्रिणमाह सः
दधीचः सस्मितं साक्षात् सदसद्व्यक्तिकारणम् ॥

1.36.49

भगवन् भवता लब्धं पुरातीव सुदारुणम्
सुदर्शनमिति ख्यातं चक्रं विष्णो प्रयत्नतः ॥

1.36.50

भवस्यैतच्छुभं चक्रं न जिघांसति मामिह
ब्रह्मास्त्राद्यैस्तथान्यैर्हि प्रयत्नं कर्तुमर्हसि ॥

1.36.51

तस्य तद्वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमायुधम्
ससर्ज च पुनस्तस्मै सर्वास्त्राणि समन्ततः ॥

1.36.52

चक्रुर्देवास्ततस्तस्य विष्णोः साहाय्यमव्ययाः
द्विजेनैकेन योद्धुं हि प्रवृत्तस्य महाबलाः ॥

1.36.53

कुशमुष्टिं तदादाय दधीचः संस्मरन्भवम्
ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी ॥

1.36.54

दिव्यं त्रिशूलम् अभवत् कालाग्निसदृशप्रभम्
दग्धुं देवान्मतिं चक्रे युगान्ताग्निरिवापरः ॥

1.36.55

इन्द्रनारायणाद्यैश् च देवैस्त्यक्तानि यानि तु
आयुधानि समस्तानि प्रणेमुस् त्रिशिखं मुने ॥

1.36.56

देवाश् च दुद्रुवुः सर्वे ध्वस्तवीर्या द्विजोत्तम
ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः ॥

1.36.57

आत्मनः सदृशान् दिव्यांल् लक्षलक्षायुतान् गणान्
तानि सर्वाणि सहसा ददाह मुनिसत्तमः ॥

1.36.58

ततो विस्मयनार्थाय विश्वमूर्तिरभूद्धरिः
तस्य देहे हरेः साक्षाद् अपश्यद्द्विजसत्तमः ॥

1.36.59

दधीचो भगवान्विप्रः देवतानां गणान् पृथक्
रुद्राणां कोटयश्चैव गणानां कोटयस्तदा ॥

1.36.60

अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा
दृष्ट्वैतदखिलं तत्र च्यावनिर् विस्मितं तदा ॥

1.36.61

विष्णुमाह जगन्नाथं जगन्मयमजं विभुम्
अंभसाभ्युक्ष्य तं विष्णुं विश्वरूपं महामुनिः ॥

1.36.62

मायां त्यज महाबाहो प्रतिभासा विचारतः
विज्ञानानां सहस्राणि दुर्विज्ञेयानि माधव ॥

1.36.63

मयि पश्य जगत् सर्वं त्वया सार्धम् अनिन्दित
ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते ॥

1.36.64

इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः
तं प्राह च हरिं देवं सर्वदेवभवोद्भवम् ॥

1.36.65

मायया ह्यनया किं वा मन्त्रशक्त्याथ वा प्रभो
वस्तुशक्त्याथ वा विष्णो ध्यानशक्त्याथ वा पुनः ॥

1.36.66

त्यक्त्वा मायामिमां तस्माद् योद्धुमर्हसि यत्नतः
एवं तस्य वचः श्रुत्वा दृष्ट्वा माहात्म्यमद्भुतम् ॥

1.36.67

देवाश् च दुद्रुवुर्भूयो देवं नारायणं च तम्
वारयामास निश्चेष्टं पद्मयोनिर्जगद्गुरुः ॥

1.36.68

निशम्य वचनं तस्य ब्रह्मणस्तेन निर्जितः
जगाम भगवान् विष्णुः प्रणिपत्य महामुनिम् ॥

1.36.69

क्षुपो दुःखातुरो भूत्वा सम्पूज्य च मुनीश्वरम्
दधीचमभिवन्द्याशु प्रार्थयामास विक्लवः ॥

1.36.70

दधीच क्षम्यतां देव मयाज्ञानात्कृतं सखे
विष्णुना हि सुरैर्वापि रुद्रभक्तस्य किं तव ॥

1.36.71

प्रसीद परमेशान दुर्लभा दुर्जनैर्द्विज
भक्तिर्भक्तिमतां श्रेष्ठ मद्विधैः क्षत्रियाधमैः ॥

1.36.72

श्रुत्वानुगृह्य तं विप्रो दधीचस्तपतां वरः
राजानं मुनिशार्दूलः शशाप च सुरोत्तमान् ॥

1.36.73

रुद्रकोपाग्निना देवाः सदेवेन्द्रा मुनीश्वरैः
ध्वस्ता भवन्तु देवेन विष्णुना च समन्विताः ॥

1.36.74

प्रजापतेर् मखे पुण्ये दक्षस्य सुमहात्मनः
एवं शप्त्वा क्षुपं प्रेक्ष्य पुनराह द्विजोत्तमः ॥

1.36.75

देवैश् च पूज्या राजेन्द्र नृपैश् च विविधैर्गणैः
ब्राह्मणा एव राजेन्द्र बलिनः प्रभविष्णवः ॥

1.36.76

इत्युक्त्वा स्वोटजं विप्रः प्रविवेश महाद्युतिः
दधीचमभिवन्द्यैव जगाम स्वं नृपः क्षयम् ॥

1.36.77

तदेव तीर्थमभवत् स्थानेश्वरमिति स्मृतम्
स्थानेश्वरम् अनुप्राप्य शिवसायुज्यम् आप्नुयात् ॥

1.36.78

कथितस्तव संक्षेपाद् विवादः क्षुब्दधीचयोः
प्रभावश् च दधीचस्य भवस्य च महामुने ॥

1.36.79

य इदं कीर्तयेद्दिव्यं विवादं क्षुब्दधीचयोः
जित्वापमृत्युं देहान्ते ब्रह्मलोकं प्रयाति सः ॥

1.36.80

य इदं कीर्त्य संग्रामं प्रविशेत्तस्य सर्वदा
नास्ति मृत्युभयं चैव विजयी च भविष्यति ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc