लिङ्गपुराण · अध्याय 1.35
कथं जघान राजानं क्षुपं पादेन सुव्रत
दधीचः समरे जित्वा देवदेवं जनार्दनम् ॥
वज्रास्थित्वं कथं लेभे महादेवान्महातपाः
वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा ॥
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः
अभून्मित्रो दधीचस्य मुनीन्द्रस्य जनेश्वरः ॥
चिरात्तयोः प्रसंगाद्वै वादः क्षुपदधीचयोः
अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः ॥
अष्टानां लोकपालानां वपुर्धारयते नृपः
तस्मादिन्द्रो ह्ययं वह्निर् यमश् च निरृतिस् तथा ॥
वरुणश्चैव वायुश् च सोमो धनद एव च
ईश्वरो ऽहं न संदेहो नावमन्तव्य एव च ॥
महती देवता या सा महतश्चापि सुव्रत
तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम् ॥
नावमन्तव्य एवेह पूजनीयश् च सर्वथा
श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः ॥
दधीचश् च्यावनिश् चोग्रो गौरवादात्मनो द्विजः
अताडयत्क्षुपं मूर्ध्नि दधीचो वाममुष्टिना
चिछेद वज्रेण च तं दधीचं बलवान् क्षुपः ॥
ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसंभवः
लब्धं वज्रं च कार्यार्थं वज्रिणा चोदितः प्रभुः ॥
स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः
तस्माद्राजा स विप्रेन्द्रम् अजयद्वै महाबलः ॥
यथा वज्रधरः श्रीमान् बलवांस्तमसान्वितः
पपात भूमौ निहतो वज्रेण द्विजपुङ्गवः ॥
सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम्
शुक्रो ऽपि संधयामास ताडितं कुलिशेन तम् ॥
योगादेत्य दधीचस्य देहं देहभृतांवरः
संधाय पूर्ववद्देहं दधीचस्याह भार्गवः ॥
भो दधीच महाभाग देवदेवमुमापतिम्
सम्पूज्य पूज्यं ब्रह्माद्यैर् देवदेवं निरञ्जनम् ॥
अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु
मृतसंजीवनं तस्माल् लब्धमेतन्मया द्विज ॥
नास्ति मृत्युभयं शंभोर् भक्तानामिह सर्वतः
मृतसंजीवनं चापि शैवमद्य वदामि ते ॥
त्रियंबकं यजामहे त्रैलोक्यपितरं प्रभुम्
त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम् ॥
त्रितत्त्वस्य त्रिवह्नेश् च त्रिधाभूतस्य सर्वतः
त्रिवेदस्य महादेवं सुगन्धिं पुष्टिवर्धनम् ॥
सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा
इन्द्रियेषु तथान्येषु देवेषु च गणेषु च ॥
पुष्पेषु गन्धवत्सूक्ष्मः सुगन्धिः परमेश्वरः
पुष्टिश् च प्रकृतिर्यस्मात् पुरुषस्य द्विजोत्तम ॥
महदादिविशेषान्त विकल्पस्यापि सुव्रत
विष्णोः पितामहस्यापि मुनीनां च महामुने ॥
इन्द्रस्यापि च देवानां तस्माद्वै पुष्टिवर्धनः
तं देवममृतं रुद्रं कर्मणा तपसा तथा ॥
स्वाध्यायेन च योगेन ध्यानेन च यजामहे
सत्येनानेन मुक्षीयान् मृत्युपाशाद् भवः स्वयम् ॥
बन्धमोक्षकरो यस्माद् उर्वारुकमिव प्रभुः
मृतसंजीवनो मन्त्रो मया लब्धस्तु शङ्करात् ॥
जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पीत्वा दिवानिशम्
लिङ्गस्य संनिधौ ध्यात्वा नास्ति मृत्युभयं द्विज ॥
तस्य तद्वचनं श्रुत्वा तपसाराध्य शङ्करम्
वज्रास्थित्वम् अवध्यत्वम् अदीनत्वं च लब्धवान् ॥
एवमाराध्य देवेशं दधीचो मुनिसत्तमः
प्राप्यावध्यत्वमन्यैश् च वज्रास्थित्वं प्रयत्नतः ॥
अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि
क्षुपो दधीचं वज्रेण जघानोरसि च प्रभुः ॥
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः
प्रभावात्परमेशस्य वज्रबद्धशरीरिणः ॥
दृष्ट्वाप्यवध्यत्वमदीनतां च क्षुपो दधीचस्य तदा प्रभावम्
आराधयामास हरिं मुकुन्दम् इन्द्रानुजं प्रेक्ष्य तदांबुजाक्षम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0