भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.34

1.34.1

एतद्वः सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै
अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः ॥

1.34.2

कृतमेतद्वहत्यग्निर् भूयो लोकसमाश्रयात्
असकृत्त्वग्निना दग्धं जगत् स्थावरजङ्गमम् ॥

1.34.3

भस्मसाद्विहितं सर्वं पवित्रमिदमुत्तमम्
भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति ॥

1.34.4

अग्निकार्यं च यः कृत्वा करिष्यति त्रियायुषम्
भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥

1.34.5

भासत इत्येव यद्भस्म शुभं भावयते च यत्
भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम् ॥

1.34.6

ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः
अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ॥

1.34.7

अहमग्निर्महातेजाः सोमश्चैषा महांबिका
अहमग्निश् च सोमश् च प्रकृत्या पुरुषः स्वयम् ॥

1.34.8

तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते
स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥

1.34.9

तदाप्रभृति लोकेषु रक्षार्थमशुभेषु च
भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥

1.34.10

भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः
मत्समीपं समागम्य न भूयो विनिवर्तते ॥

1.34.11

व्रतं पाशुपतं योगं कापिलं चैव निर्मितम्
पूर्वं पाशुपतं ह्येतन् निर्मितं तदनुत्तमम् ॥

1.34.12

शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा
सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥

1.34.13

नग्ना एव हि जायन्ते देवता मुनयस् तथा
ये चान्ये मानवा लोके सर्वे जायन्त्यवाससः ॥

1.34.14

इन्द्रियैरजितैर्नग्नो दुकूलेनापि संवृतः
तैरेव संवृतैर्गुप्तो न वस्त्रं कारणं स्मृतम् ॥

1.34.15

क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः
तुल्यौ मानावमानौ च तदावरणमुत्तमम् ॥

1.34.16

भस्मस्नानेन दिग्धाङ्गो ध्यायते मनसा भवम्
यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना ॥

1.34.17

तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम्
तस्माद् यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥

1.34.18

भस्मना कुरुते स्नानं गाणपत्यं स गच्छति
समाहृत्य क्रतून् सर्वान् गृहीत्वा व्रतमुत्तमम् ॥

1.34.19

ध्यायन्ति ये महादेवं लीलासद्भावभाविताः
उत्तरेणार्यपन्थानं ते ऽमृतत्वमवाप्नुयुः ॥

1.34.20

दक्षिणेन च पन्थानं ये श्मशानानि भेजिरे
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च ॥

1.34.21

इच्छा कामावसायित्वं तथा प्राकाम्यमेव च
ईक्षणेन च पन्थानं ये श्मशानानि भेजिरे
अणिमा गरिमा चैव लघिमा प्राप्तिरेव च ॥

1.34.22

इन्द्रादयस् तथा देवाः कामिकव्रतमास्थिताः
ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥

1.34.23

व्यपगतमदमोहमुक्तरागस् तमोरजोदोषविवर्जितस्वभावः
परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव ॥

1.34.24

इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम्
यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः ॥

1.34.25

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति
ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः ॥

1.34.26

भस्मपाण्डुरदिग्धाङ्गा बभूवुर्विगतस्पृहाः
रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा ॥

1.34.27

तस्मान्न निन्द्याः पूज्याश्च विकृता मलिना अपि
रूपान्विताश् च विप्रेन्द्राः सदा योगीन्द्रशङ्कया ॥

1.34.28

बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः
संपूज्याः सर्वयत्नेन शिववन्नात्र संशयः ॥

1.34.29

मलिनाश्चैव विप्रेन्द्रा भवभक्ता दृढव्रताः
दधीचस्तु यथा देव देवं जित्वा व्यवस्थितः ॥

1.34.30

नारायणं तथा लोके रुद्रभक्त्या न संशयः
तस्मात्सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः ॥

1.34.31

जटिनो मुण्डिनश्चैव नग्ना नानाप्रकारिणः
संपूज्याः शिववन्नित्यं मनसा कर्मणा गिरा ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc