भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.33

1.33.1

ततस्तुतोष भगवान् अनुगृह्य महेश्वरः
स्तुतिं श्रुत्वा स्तुतस्तेषाम् इदं वचनमब्रवीत् ॥

1.33.2

यः पठेच्छृणुयाद्वापि युष्माभिः कीर्तितं स्तवम्
श्रावयेद्वा द्विजान्विप्रो गाणपत्यमवाप्नुयात् ॥

1.33.3

वक्ष्यामि वो हितं पुण्यं भक्तानां मुनिपुङ्गवाः
स्त्रीलिङ्गमखिलं देवी प्रकृतिर्मम देहजा ॥

1.33.4

पुंल्लिङ्गं पुरुषो विप्रा मम देहसमुद्भवः
उभाभ्यामेव वै सृष्टिर् मम विप्रा न संशयः ॥

1.33.5

न निन्देद्यतिनं तस्माद् दिग्वाससमनुत्तमम्
बालोन्मत्तविचेष्टं तु मत्परं ब्रह्मवादिनम् ॥

1.33.6

ये हि मां भस्मनिरता भस्मना दग्धकिल्बिषाः
यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः ॥

1.33.7

महादेवपरा नित्यं चरन्तो ह्यूर्ध्वरेतसः
अर्चयन्ति महादेवं वाङ्मनःकायसंयताः ॥

1.33.8

रुद्रलोकमनुप्राप्य न निवर्तन्ति ते पुनः
तस्मादेतद्व्रतं दिव्यम् अव्यक्तं व्यक्तलिङ्गिनः ॥

1.33.9

भस्मव्रताश् च मुण्डाश् च व्रतिनो विश्वरूपिणः
न तान्परिवदेद्विद्वान् न चैतान्नाभिलङ्घयेत् ॥

1.33.10

न हसेन्नाप्रियं ब्रूयाद् अमुत्रेह हितार्थवान्
यस्तान्निन्दति मूढात्मा महादेवं स निन्दति ॥

1.33.11

यस् त्वेतान् पूजयेन् नित्यं स पूजयति शङ्करम्
एवमेष महादेवो लोकानां हितकाम्यया ॥

1.33.12

युगे युगे महायोगी क्रीडते भस्मगुण्ठितः
एवं चरत भद्रं वस् ततः सिद्धिमवाप्स्यथ ॥

1.33.13

अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा
व्यपगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिर् उग्रम् ॥

1.33.14

ततः प्रमुदिता विप्राः श्रुत्वैवं कथितं तदा
गन्धोदकैः सुशुद्धैश् च कुशपुष्पविमिश्रितैः ॥

1.33.15

स्नापयन्ति महाकुम्भैर् अद्भिर् एव महेश्वरम्
गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः ॥

1.33.16

नमो देवाधिदेवाय महादेवाय वै नमः
अर्धनारीशरीराय सांख्ययोगप्रवर्तिने ॥

1.33.17

मेघवाहनकृष्णाय गजचर्मनिवासिने
कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥

1.33.18

सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम्
मृगपतिवरचर्मवाससे च प्रथितयशसे नमो ऽस्तु शङ्कराय ॥

1.33.19

ततस् तान् स मुनीन् प्रीतः प्रत्युवाच महेश्वरः
प्रीतो ऽस्मि तपसा युष्मान् वरं वृणुत सुव्रताः ॥

1.33.20

ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम्
भृग्वङ्गिरा वसिष्ठश् च विश्वामित्रस्तथैव च ॥

1.33.21

गौतमो ऽत्रिः सुकेशश् च पुलस्त्यः पुलहः क्रतुः
मरीचिः कश्यपः कण्वः संवर्तश् च महातपाः ॥

1.33.22

ते प्रणम्य महादेवम् इदं वचनमब्रुवन्
भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता ॥

1.33.23

सेव्यासेव्यत्वमेवं च ह्य् एतदिच्छाम वेदितुम्
ततस्तेषां वचः श्रुत्वा भगवान्परमेश्वरः ॥

1.33.24

सस्मितं प्राह सम्प्रेक्ष्य सर्वान्मुनिवरांस्तदा ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc