लिङ्गपुराण · अध्याय 1.32
नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने
विकटाय करालाय करालवदनाय च ॥
अरूपाय सुरूपाय विश्वरूपाय ते नमः
कटङ्कटाय रुद्राय स्वाहाकाराय वै नमः ॥
सर्वप्रणतदेहाय स्वयं च प्रणतात्मने
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥
नीलकण्ठाय देवाय चिताभस्माङ्गधारिणे
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥
आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते
पर्वतानां महामेरुर् नक्षत्राणां च चन्द्रमाः ॥
ऋषीणां च वसिष्ठस् त्वं देवानां वासवस् तथा
ओङ्कारः सर्ववेदानां श्रेष्ठं साम च सामसु ॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः
ग्राम्याणामृषभश्चासि भगवांल्लोकपूजितः ॥
सर्वथा वर्तमानो ऽपि यो यो भावो भविष्यति
त्वामेव तत्र पश्यामो ब्रह्मणा कथितं तथा ॥
कामः क्रोधश् च लोभश् च विषादो मद एव च
एतद् इच्छामहे बोद्धुं प्रसीद परमेश्वर ॥
महासंहरणे प्राप्ते त्वया देव कृतात्मना
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥
तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः
तस्मादग्निसमा ह्येते बहवो विकृताग्नयः ॥
कामः क्रोधश् च लोभश् च मोहो दम्भ उपद्रवः
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि
महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥
आज्ञापय वयं नाथ कर्तारो वचनं तव
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥
अन्तं गन्तुं न शक्ताः स्म देवदेव नमो ऽस्तु ते ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0