भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.2

1.2.1

ईशानकल्पवृत्तान्तम् अधिकृत्य महात्मना
ब्रह्मणा कल्पितं पूर्वं पुराणं लैङ्गम् उत्तमम् ॥

1.2.2

ग्रन्थकोटिप्रमाणं तु शतकोटिप्रविस्तरे
चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वान्तरेषु वै ॥

1.2.3

व्यस्तेष्टा दशधा चैव ब्रह्मादौ द्वापरादिषु
लिङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत् ॥

1.2.4

अस्यैकादशसाहस्रे ग्रन्थमानमिह द्विजाः
तस्मात्संक्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत् ॥

1.2.5

चतुर्लक्षेण संक्षिप्ते कृष्णद्वैपायनेन तु
अत्रैकादशसाहस्रैः कथितो लिङ्गसम्भवः ॥

1.2.6

सर्गः प्राधानिकः पश्चात् प्राकृतो वैकृतानि च
अण्डस्यास्य च सम्भूतिर् अण्डस्यावरणाष्टकम् ॥

1.2.7

अण्डोद्भवत्वं शर्वस्य रजोगुणसमाश्रयात्
विष्णुत्वं कालरुद्रत्वं शयनं चाप्सु तस्य च ॥

1.2.8

प्रजापतीनां सर्गश् च पृथिव्युद्धरणं तथा
ब्रह्मणश् च दिवारात्रम् आयुषो गणनं पुनः ॥

1.2.9

सवनं ब्रह्मणश्चैव युगकल्पश् च तस्य तु
दिव्यं च मानुषं वर्षम् आर्षं वै ध्रौव्यमेव च ॥

1.2.10

पित्र्यं पितॄणां सम्भूतिर् धर्मश्चाश्रमिणां तथा
अवृद्धिर्जगतो भूयो देव्याः शक्त्युद्भवस्तथा ॥

1.2.11

स्त्रीपुम्भावो विरिञ्चस्य सर्गो मिथुनसम्भवः
आख्याष्टकं हि रुद्रस्य कथितं रोदनान्तरे ॥

1.2.12

ब्रह्मविष्णुविवादश् च पुनर्लिङ्गस्य सम्भवः
शिलादस्य तपश्चैव वृत्रारेर्दर्शनं तथा ॥

1.2.13

प्रार्थना योनिजस्याथ दुर्लभत्वं सुतस्य तु
शिलादशक्रसंवादः पद्मयोनित्वमेव च ॥

1.2.14

भवस्य दर्शनं चैव तिष्येष्वाचार्यशिष्ययोः
व्यासावताराश् च तथा कल्पमन्वन्तराणि च ॥

1.2.15

कल्पत्वं चैव कल्पानाम् आख्याभेदेष्वनुक्रमात्
कल्पेषु कल्पे वाराहे वाराहत्वं हरेस् तथा ॥

1.2.16

मेघवाहनकल्पस्य वृत्तान्तं रुद्रगौरवम्
पुनर्लिङ्गोद्भवश्चैव ऋषिमध्ये पिनाकिनः ॥

1.2.17

लिङ्गस्याराधनं स्नान विधानं शौचलक्षणम्
वाराणस्याश् च माहात्म्यं क्षेत्रमाहात्म्यवर्णनम् ॥

1.2.18

भुवि रुद्रालयानां तु संख्या विष्णोर्गृहस्य च
अन्तरिक्षे तथाण्डे ऽस्मिन् देवायतनवर्णनम् ॥

1.2.19

दक्षस्य पतनं भूमौ पुनः स्वारोचिषे ऽन्तरे
दक्षशापश् च दक्षस्य शापमोक्षस्तथैव च ॥

1.2.20

कैलासवर्णनं चैव योगः पाशुपतस् तथा
चतुर्युगप्रमाणं च युगधर्मः सुविस्तरः ॥

1.2.21

संध्यांशकप्रमाणं च संध्यावृत्तं भवस्य च
श्मशाननिलयश्चैव चन्द्ररेखासमुद्भवः ॥

1.2.22

उद्वाहः शंकरस्याथ पुत्रोत्पादनमेव च
मैथुनातिप्रसङ्गेन विनाशो जगतां भयम् ॥

1.2.23

शापः सत्या कृतो देवान् पुरा विष्णुं च पालितम्
शुक्रोत्सर्गस्तु रुद्रस्य गाङ्गेयोद्भव एव च ॥

1.2.24

ग्रहणादिषु कालेषु स्नाप्य लिङ्गं फलं तथा
क्षुब्धधी च विवादश् च दधीचोपेन्द्रयोस् तथा ॥

1.2.25

उत्पत्तिर्नन्दिनाम्ना तु देवदेवस्य शूलिनः
पतिव्रतायाश्चाख्यानं पशुपाशविचारणा ॥

1.2.26

प्रवृत्तिलक्षणं ज्ञानं निवृत्त्यधिकृता तथा
वसिष्ठतनयोत्पत्तिर् वासिष्ठानां महात्मनाम् ॥

1.2.27

मुनीनां वंशविस्तारो राज्ञां शक्तेर्विनाशनम्
दौरात्म्यं कौशिकस्याथ सुरभेर्बन्धनं तथा ॥

1.2.28

सुतशोको वसिष्ठस्य अरुन्धत्याः प्रलापनम्
स्नुषायाः प्रेषणं चैव गर्भस्थस्य वचस् तथा ॥

1.2.29

पराशरस्यावतारो व्यासस्य च शुकस्य च
विनाशो राक्षसानां च कृतो वै शक्तिसूनुना ॥

1.2.30

देवतापरमार्थं तु विज्ञानं च प्रसादतः
पुराणकरणं चैव पुलस्त्यस्याज्ञया गुरोः ॥

1.2.31

भुवनानां प्रमाणं च ग्रहाणां ज्योतिषां गतिः
जीवच्छ्राद्धविधानं च श्राद्धार्हाः श्राद्धमेव च ॥

1.2.32

नान्दीश्राद्धविधानं च तथाध्ययनलक्षणम्
पञ्चयज्ञप्रभावश् च पञ्चयज्ञविधिस् तथा ॥

1.2.33

रजस्वलानां वृत्तिश् च वृत्त्या पुत्रविशिष्टता
मैथुनस्य विधिश्चैव प्रतिवर्णमनुक्रमात् ॥

1.2.34

भोज्याभोज्यविधानं च सर्वेषामेव वर्णिनाम्
प्रायश्चित्तम् अशेषस्य प्रत्येकं चैव विस्तरात् ॥

1.2.35

नरकाणां स्वरूपं च दण्डः कर्मानुरूपतः
स्वर्गिनारकिणां पुंसां चिह्नं जन्मान्तरेषु च ॥

1.2.36

नानाविधानि दानानि प्रेतराजपुरं तथा
कल्पं पञ्चाक्षरस्याथ रुद्रमाहात्म्यमेव च ॥

1.2.37

वृत्रेन्द्रयोर्महायुद्धं विश्वरूपविमर्दनम्
श्वेतस्य मृत्योः संवादः श्वेतार्थे कालनाशनम् ॥

1.2.38

देवदारुवने शम्भोः प्रवेशः शंकरस्य तु
सुदर्शनस्य चाख्यानं क्रमसंन्यासलक्षणम् ॥

1.2.39

श्रद्धासाध्यो ऽथ रुद्रस्तु कथितं ब्रह्मणा तदा
मधुना कैटभेनैव पुरा हृतगतेर्विभोः ॥

1.2.40

ब्रह्मणः परमं ज्ञानम् आदातुं मीनता हरेः
सर्वावस्थासु विष्णोश् च जननं लीलयैव तु ॥

1.2.41

रुद्रप्रसादाद्विष्णोश् च जिष्णोश्चैव तु सम्भवः
मन्थानधारणार्थाय हरेः कूर्मत्वमेवच ॥

1.2.42

संकर्षणस्य चोत्पत्तिः कौशिक्याश् च पुनर्भवः
यदूनां चैव सम्भूतिर् यादवत्वं हरेः स्वयम् ॥

1.2.43

भोजराजस्य दौरात्म्यं मातुलस्य हरेर्विभोः
बालभावे हरेः क्रीडा पुत्रार्थं शंकरार्चनम् ॥

1.2.44

नारस्य च तथोत्पत्तिः कपाले वैष्णवाद्धरात्
भूभारनिग्रहार्थे तु रुद्रस्याराधनं हरेः ॥

1.2.45

वैन्येन पृथुना भूमेः पुरा दोहप्रवर्तनम्
देवासुरे पुरा लब्धो भृगुशापश् च विष्णुना ॥

1.2.46

कृष्णत्वे द्वारकायां तु निलयो माधवस्य तु
लब्धो हिताय शापस्तु दुर्वासस्याननाद्धरेः ॥

1.2.47

वृष्ण्यन्धकविनाशाय शापः पिण्डारवासिनाम्
एरकस्य तथोत्पत्तिस् तोमरस्योद्भवस् तथा ॥

1.2.48

एरकालाभतो ऽन्योन्यं विवादे वृष्णिविग्रहः
लीलया चैव कृष्णेन स्वकुलस्य च संहृतिः ॥

1.2.49

एरकास्त्रबलेनैव गमनं स्वेच्छयैव तु
ब्रह्मणश्चैव मोक्षस्य विज्ञानं तु सुविस्तरम् ॥

1.2.50

पुरान्धकाग्निदक्षाणां शक्रेभमृगरूपिणाम्
मदनस्यादिदेवस्य ब्रह्मणश् चामरारिणाम् ॥

1.2.51

हलाहलस्य दैत्यस्य कृतावज्ञा पिनाकिना
जालंधरवधश्चैव सुदर्शनसमुद्भवः ॥

1.2.52

विष्णोर्वरायुधावाप्तिस् तथा रुद्रस्य चेष्टितम्
तथान्यानि च रुद्रस्य चरितानि सहस्रशः ॥

1.2.53

हरेः पितामहस्याथ शक्रस्य च महात्मनः
प्रभावानुभवश्चैव शिवलोकस्य वर्णनम् ॥

1.2.54

भूमौ रुद्रस्य लोकं च पाताले हाटकेश्वरम्
तपसां लक्षणं चैव द्विजानां वैभवं तथा ॥

1.2.55

आधिक्यं सर्वमूर्तीनां लिङ्गमूर्तेर्विशेषतः
लिङ्गे ऽस्मिन्नानुपूर्व्येण विस्तरेणानुकीर्त्यते ॥

1.2.56

एतज्ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत्तु यः
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc