भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.28

1.28.1

आग्नेयं सौरममृतं बिम्बं भाव्यं ततोपरि
गुणत्रयं च हृदये तथा चात्मत्रयं क्रमात् ॥

1.28.2

तस्योपरि महादेवं निष्कलं सकलाकृतिम्
कान्तार्धरूढदेहं च पूजयेद्ध्यानविद्यया ॥

1.28.3

ततो बहुविधं प्रोक्तं चिन्त्यं तत्रास्ति चेद्यतः
चिन्तकस्य ततश्चिन्ता अन्यथा नोपपद्यते ॥

1.28.4

तस्माद्ध्येयं तथा ध्यानं यजमानः प्रयोजनम्
स्मरेत्तन्नान्यथा जातु बुध्यते पुरुषस्य ह ॥

1.28.5

पुरे शेते पुरं देहं तस्मात्पुरुष उच्यते
याज्यं यज्ञेन यजते यजमानस्तु स स्मृतः ॥

1.28.6

ध्येयो महेश्वरो ध्यानं चिन्तनं निर्वृतिः फलम्
प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते ॥

1.28.7

इह षड्विंशको ध्येयो ध्याता वै पञ्चविंशकः
चतुर्विंशकम् अव्यक्तं महदाद्यास्तु सप्त च ॥

1.28.8

महांस् तथा त्वहङ्कारं तन्मात्रं पञ्चकं पुनः
कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च ॥

1.28.9

मनश् च पञ्च भूतानि शिवः षड्विंशकस्ततः
स एव भर्ता कर्ता च विधेरपि महेश्वरः ॥

1.28.10

हिरण्यगर्भं रुद्रो ऽसौ जनयामास शङ्करः
विश्वाधिकश् च विश्वात्मा विश्वरूप इति स्मृतः ॥

1.28.11

विना यथा हि पितरं मातरं तनयास्त्विह
न जायन्ते तथा सोमं विना नास्ति जगत्त्रयम् ॥

1.28.12

कर्ता यदि महादेवः परमात्मा महेश्वरः
तथा कारयिता चैव कुर्वतो ऽल्पात्मनस् तथा ॥

1.28.13

नित्यो विशुद्धो बुद्धश् च निष्कलः परमेश्वरः
त्वयोक्तो मुक्तिदः किं वा निष्कलश्चेत्करोति किम् ॥

1.28.14

कालः करोति सकलं कालं कलयते सदा
निष्कलं च मनः सर्वं मन्यते सो ऽपि निष्कलः ॥

1.28.15

कर्मणा तस्य चैवेह जगत्सर्वं प्रतिष्ठितम्
किमत्र देवदेवस्य मूर्त्यष्टकमिदं जगत् ॥

1.28.16

विनाकाशं जगन्नैव विना क्ष्मां वायुना विना
तेजसा वारिणा चैव यजमानं तथा विना ॥

1.28.17

भानुना शशिना लोकस् तस्यैतास्तनवः प्रभोः
विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम् ॥

1.28.18

सूक्ष्मं वदन्ति ऋषयो यन्न वाच्यं द्विजोत्तमाः
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥

1.28.19

आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन
न भेतव्यं तथा तस्माज् ज्ञात्वानन्दं पिनाकिनः ॥

1.28.20

विभूतयश् च रुद्रस्य मत्वा सर्वत्र भावतः
सर्वं रुद्र इति प्राहुर् मुनयस्तत्त्वदर्शिनः ॥

1.28.21

नमस्कारेण सततं गौरवात्परमेष्ठिनः
सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः ॥

1.28.22

पुरुषो वै महादेवो महेशानः परः शिवः
एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिन्तनम् ॥

1.28.23

चतुर्व्यूहेण मार्गेण विचार्यालोक्य सुव्रत
संसारहेतुः संसारो मोक्षहेतुश् च निर्वृतिः ॥

1.28.24

चतुर्व्यूहः समाख्यातश् चिन्तकस्येह योगिनः
चिन्ता बहुविधा ख्याता सैकत्र परमेष्ठिना ॥

1.28.25

सुनिष्ठेत्यत्र कथिता रुद्रं रौद्री न संशयः
ऐन्द्री चेन्द्रे तथा सौम्या सोमे नारायणे तथा ॥

1.28.26

सूर्ये वह्नौ च सर्वेषां सर्वत्रैवं विचारतः
सैवाहं सो ऽहमित्येवं द्विधा संस्थाप्य भावतः ॥

1.28.27

भक्तो ऽसौ नास्ति यस्तस्माच् चिन्ता ब्राह्मी न संशयः
एवं ब्रह्ममयं ध्यायेत् पूर्वं विप्र चराचरम् ॥

1.28.28

चराचरविभागं च त्यजेदभिमतं स्मरन्
त्याज्यं ग्राह्यम् अलभ्यं च कृत्यं चाकृत्यमेव च ॥

1.28.29

यस्य नास्ति सुतृप्तस्य तस्य ब्राह्मी न चान्यथा
आभ्यन्तरं समाख्यातम् एवमभ्यर्चनं क्रमात् ॥

1.28.30

आभ्यन्तरार्चकाः पूज्या नमस्कारादिभिस् तथा
विरूपा विकृताश्चापि न निन्द्या ब्रह्मवादिनः ॥

1.28.31

आभ्यन्तरार्चकाः सर्वे न परीक्ष्या विजानता
निन्दका एव दुःखार्ता भविष्यन्त्यल्पचेतसः ॥

1.28.32

यथा दारुवने रुद्रं विनिन्द्य मुनयः पुरा
तस्मात्सेव्या नमस्कार्याः सदा ब्रह्मविदस् तथा ॥

1.28.33

वर्णाश्रमविनिर्मुक्ता वर्णाश्रमपरायणैः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc