लिङ्गपुराण · अध्याय 1.24
श्रुत्वैवमखिलं ब्रह्मा रुद्रेण परिभाषितम्
पुनः प्रणम्य देवेशं रुद्रमाह प्रजापतिः ॥
भगवन्देवदेवेश विश्वरूपं महेश्वर
उमाधव महादेव नमो लोकाभिवन्दित ॥
विश्वरूप महाभाग कस्मिन्काले महेश्वर
या इमास्ते महादेव तनवो लोकवन्दिताः ॥
कस्यां वा युगसंभूत्यां द्रक्ष्यन्तीह द्विजातयः
केन वा तपसा देव ध्यानयोगेन केन वा ॥
नमस्ते वै महादेव शक्यो द्रष्टुं द्विजातिभिः
तस्य तद्वचनं श्रुत्वा शर्वः सम्प्रेक्ष्य तं पुरः ॥
स्मयन्प्राह महादेव ऋग्यजुःसामसंभवः
तपसा नैव वृत्तेन दानधर्मफलेन च ॥
न तीर्थफलयोगेन क्रतुभिर् वाप्तदक्षिणैः
न वेदाध्ययनैर्वापि न वित्तेन न वेदनैः ॥
न शक्यं मानवैर्द्रष्टुम् ऋते ध्यानादहं त्विह
सप्तमे चैव वाराहे ततस्तस्मिन्पितामह ॥
कल्पेश्वरो ऽथ भगवान् सर्वलोकप्रकाशनः
मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति ॥
तदा चतुर्युगावस्थे तस्मिन्कल्पे युगान्तिके
अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च ॥
उत्पत्स्यामि तदा ब्रह्मन् पुनर् अस्मिन् युगान्तिके
युगप्रवृत्त्या च तदा तस्मिंश् च प्रथमे युगे ॥
द्वापरे प्रथमे ब्रह्मन् यदा व्यासः स्वयं प्रभुः
तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगान्तिके ॥
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः
हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे ॥
तत्र शिष्याः शिखायुक्ता भविष्यन्ति तदा मम
श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ॥
चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः
ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम् ॥
मत्समीपं गमिष्यन्ति ध्यानयोगपरायणाः
ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः ॥
प्रजापतिर्यदा व्यासः सद्यो नाम भविष्यति
तदा लोकहितार्थाय सुतारो नाम नामतः ॥
भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया
तत्रापि मम ते शिष्या नामतः परिकीर्तिताः ॥
दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस्तदा
प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले ॥
रुद्रलोकं गमिष्यन्ति सहचारित्वमेव च
तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः ॥
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके
तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः ॥
विकोशश् च विकेशश् च विपाशः शापनाशनः
ते ऽपि तेनैव मार्गेण योगोक्तेन महौजसः ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
चतुर्थे द्वापरे चैव यदा व्यासो ऽङ्गिराः स्मृतः ॥
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः
तत्रापि मम ते पुत्राश् चत्वारो ऽपि तपोधनाः ॥
द्विजश्रेष्ठा भविष्यन्ति योगात्मानो दृढव्रताः
सुमुखो दुर्मुखश्चैव दुर्दरो दुरतिक्रमः ॥
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः
ते ऽपि तेनैव मार्गेण योगयुक्ता महौजसः ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा ॥
तदा चापि भविष्यामि कङ्को नाम महातपाः
अनुग्रहार्थं लोकानां योगात्मैककलागतिः ॥
चत्वारस्तु महाभागा विमलाः शुद्धयोनयः
शिष्या मम भविष्यन्ति योगात्मानो दृढव्रताः ॥
सनकः सनन्दनश् चैव प्रभुर्यश् च सनातनः
विभुः सनत्कुमारश् च निर्ममा निरहंकृताः ॥
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम्
परीवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः ॥
तदाप्यहं भविष्यामि लोगाक्षीर् नाम नामतः
तत्रापि मम ते शिष्या योगात्मानो दृढव्रताः ॥
भविष्यन्ति महाभागाश् चत्वारो लोकसंमताः
सुधामा विरजाश्चैव शङ्खपाद्रज एव च ॥
योगात्मानो महात्मानः सर्वे वै दग्धकिल्बिषाः
ते ऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः ॥
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः ॥
विभुनामा महातेजाः प्रथितः पूर्वजन्मनि
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके ॥
जैगीषव्यो विभुः ख्यातः सर्वेषां योगिनां वरः
तत्रापि मम ते पुत्रा भविष्यन्ति युगे तथा ॥
सारस्वतश् च मेघश् च मेघवाहः सुवाहनः
ते ऽपि तेनैव मार्गेण ध्यानयोगपरायणाः ॥
गमिष्यन्ति महात्मानो रुद्रलोकं निरामयम्
वसिष्ठश्चाष्टमे व्यासः परीवर्ते भविष्यति ॥
यदा तदा भविष्यामि नाम्नाहं दधिवाहनः
तत्रापि मम ते पुत्रा योगात्मानो दृढव्रताः ॥
भविष्यन्ति महायोगा येषां नास्ति समो भुवि
कपिलश्चासुरिश्चैव तथा पञ्चशिखो मुनिः ॥
बाष्कलश् च महायोगी धर्मात्मानो महौजसः
प्राप्य माहेश्वरं योगं ज्ञानिनो दग्धकिल्बिषाः ॥
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
परिवर्ते तु नवमे व्यासः सारस्वतो यदा ॥
तदाप्यहं भविष्यामि ऋषभो नाम नामतः
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥
पराशरश् च गर्गश् च भार्गवाङ्गिरसौ तदा
भविष्यन्ति महात्मानो ब्राह्मणा वेदपारगाः ॥
ध्यानमार्गं समासाद्य गमिष्यन्ति तथैव ते
सर्वे तपोबलोत्कृष्टाः शापानुग्रहकोविदाः ॥
ते ऽपि तेनैव मार्गेण योगोक्तेन तपस्विनः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥
दशमे द्वापरे व्यासः त्रिपाद्वै नाम नामतः
यदा भविष्यते विप्रस् तदाहं भविता मुनिः ॥
हिमवच्छिखरे रम्ये भृगुतुङ्गे नगोत्तमे
नाम्ना भृगोस्तु शिखरं प्रथितं देवपूजितम् ॥
तत्रापि मम ते पुत्रा भविष्यन्ति दृढव्रताः
बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥
योगात्मानो महात्मानस् तपोयोगसमन्विताः
रुद्रलोकं गमिष्यन्ति तपसा दग्धकिल्बिषाः ॥
एकादशे द्वापरे तु व्यासस्तु त्रिव्रतो यदा
तदाप्यहं भविष्यामि गङ्गाद्वारे कलौ तथा ॥
उग्रो नाम महातेजाः सर्वलोकेषु विश्रुतः
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥
लम्बोदरश् च लम्बाक्षो लम्बकेशः प्रलम्बकः
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥
द्वादशे परिवर्ते तु शततेजा यदा मुनिः
भविष्यति महातेजा व्यासस्तु कविसत्तमः ॥
तदाप्यहं भविष्यामि कलाविह युगान्तिके
हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः ॥
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः
भविष्यन्ति महायोगा रुद्रलोकपरायणाः ॥
सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु
धर्मो नारायणो नाम व्यासस्तु भविता यदा ॥
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः
वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः
सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा ॥
महायोगबलोपेता विमला ऊर्ध्वरेतसः
प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते ॥
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे
तत्रापि पुनरेवाहं भविष्यामि युगान्तिके ॥
वंशे त्वङ्गिरसां श्रेष्ठे गौतमो नाम नामतः
भविष्यति महापुण्यं गौतमं नाम तद्वनम् ॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा
अत्रिर्देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः ॥
योगात्मानो महात्मानः सर्वे योगसमन्विताः
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥
ततः पञ्चदशे प्राप्ते परिवर्ते क्रमागते
त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत ॥
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः
तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम् ॥
भविष्यति महावीर्यं वेदशीर्षश् च पर्वतः
हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः
कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः ॥
योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः ॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति
तत्र योगप्रदानाय भक्तानां च यतात्मनाम् ॥
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः
भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम् ॥
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिनः
काश्यपो ह्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः ॥
ते ऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः
प्राप्य माहेश्वरं योगं गन्तारो रुद्रमेव हि ॥
ततः सप्तदशे चैव परिवर्ते क्रमागते
यदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः ॥
तदाप्यहं भविष्यामि गुहावासीति नामतः
हिमवच्छिखरे रम्ये महोत्तुङ्गे महालये ॥
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम्
तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः ॥
भविष्यन्ति महात्मानो निर्ममा निरहंकृताः
उतथ्यो वामदेवश् च महायोगो महाबलः ॥
तेषां शतसहस्रं तु शिष्याणां ध्यानयोगिनाम्
भविष्यन्ति तदा काले सर्वे ते ध्यानयुञ्जकाः ॥
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम्
महालये पदं न्यस्तं दृष्ट्वा यान्ति शिवं पदम् ॥
ये चान्ये ऽपि महात्मानः कलौ तस्मिन् युगान्तिके
ध्याने मनः समाधाय विमलाः शुद्धबुद्धयः ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः
गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम् ॥
तीर्णस्तारयते जन्तुर् दश पूर्वान्दशोत्तरान्
आत्मानमेकविंशं तु तारयित्वा महालये ॥
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः
ततो ऽष्टादशमे चैव परिवर्ते यदा विभो ॥
तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः
तदाप्यहं भविष्यामि शिखण्डी नाम नामतः ॥
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते
हिमवच्छिखरे रम्ये शिखण्डी नाम पर्वतः ॥
शिखण्डिनो वनं चापि यत्र सिद्धनिषेवितम्
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः ॥
वाचश्रवा ऋचीकश् च श्यावाश्वश् च यतीश्वरः
योगात्मानो महात्मानः सर्वे ते वेदपारगाः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय संवृताः
अथ एकोनविंशे तु परिवर्ते क्रमागते ॥
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः
तदाप्यहं भविष्यामि जटामाली च नामतः ॥
हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥
हिरण्यनाभः कौशल्यो लोकाक्षी कुथुमिस् तथा
ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः
ततो विंशतिमश्चैव परिवर्तो यदा तदा ॥
गौतमस्तु तदा व्यासो भविष्यति महामुनिः
तदाप्यहं भविष्यामि अट्टहासस्तु नामतः ॥
अट्टहासप्रियाश्चैव भविष्यन्ति तदा नराः
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ॥
देवदानवयक्षेन्द्र सिद्धचारणसेवितः
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥
योगात्मानो महात्मानो ध्यायिनो नियतव्रताः
सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥
वाचश्रवाः स्मृतो व्यासो यदा स ऋषिसत्तमः
तदाप्यहं भविष्यामि दारुको नाम नामतः ॥
तस्माद्भविष्यते पुण्यं देवदारुवनं शुभम्
तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः ॥
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस् तथा
योगात्मानो महात्मानो नियता ऊर्ध्वरेतसः ॥
नैष्ठिकं व्रतमास्थाय रुद्रलोकाय ते गताः
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ॥
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः
नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः ॥
द्रक्ष्यन्ति मां कलौ तस्मिन् भवं चैव हलायुधम्
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः ॥
भल्लवी मधुपिङ्गश् च श्वेतकेतुः कुशस् तथा
प्राप्य माहेश्वरं योगं ते ऽपि ध्यानपरायणाः ॥
विमला ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥
व्यासो हि भविता ब्रह्मंस् तदाहं भविता पुनः
श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिकः ॥
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे
तेन कालञ्जरो नाम भविष्यति स पर्वतः ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः
उशिको बृहदश्वश् च देवलः कविरेव च ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गतः
परिवर्ते चतुर्विंशे व्यास ऋक्षो यदा विभो ॥
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके
शूली नाम महायोगी नैमिषे देववन्दिते ॥
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः
शालिहोत्रो ऽग्निवेशश् च युवनाश्वः शरद्वसुः ॥
ते ऽपि तेनैव मार्गेण रुद्रलोकाय संस्थिताः
पञ्चविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥
वासिष्ठस्तु यदा व्यासः शक्तिर्नाम्ना भविष्यति
तदाप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः
छगलः कुण्डकर्णश् च कुभाण्डश् च प्रवाहकः ॥
प्राप्य माहेश्वरं योगम् अमृतत्वाय ते गताः
षड्विंशे परिवर्ते तु यदा व्यासः पराशरः ॥
तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः
पुरं भद्रवटं प्राप्य कलौ तस्मिन् युगान्तिके ॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः
उलूको विद्युतश्चैव शंबूको ह्याश्वलायनः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः
तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः ॥
प्रभासतीर्थमासाद्य योगात्मा योगविश्रुतः
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः ॥
अक्षपादः कुमारश् च उलूको वत्स एव च
योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः ॥
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः
अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते ॥
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः
यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः ॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः
वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति ॥
तदाप्यहं भविष्यामि योगात्मा योगमायया
लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः ॥
श्मशाने मृतम् उत्सृष्टं दृष्ट्वा कायम् अनाथकम्
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना
भविष्यामि तदा ब्रह्मंल् लकुली नाम नामतः ॥
कायावतार इत्येवं सिद्धक्षेत्रं च वै तदा
भविष्यति सुविख्यातं यावद् भूमिर् धरिष्यति ॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः
कुशिकश् चैव गर्गश् च मित्रः कौरुष्य एव च ॥
योगात्मानो महात्मानो ब्राह्मणा वेदपारगाः
प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः ॥
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः ॥
लिङ्गार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ॥
संसारबन्धच्छेदार्थं ज्ञानमार्गप्रकाशकम्
स्वरूपज्ञानसिद्ध्यर्थं योगं पाशुपतं महत् ॥
योगमार्गा अनेकाश् च ज्ञानमार्गास् त्व् अनेकशः
न निवृत्तिमुपायान्ति विना पञ्चाक्षरीं क्वचित् ॥
यदाचरेत्तपश्चायं सर्वद्वन्द्वविवर्जितम्
तदा स मुक्तो मन्तव्यः पक्वं फलमिव स्थितः ॥
एकाहं यः पुमान्सम्यक् चरेत्पाशुपतव्रतम्
न सांख्ये पञ्चरात्रे वा न प्राप्नोति गतिं कदा ॥
इत्येतद्वै मया प्रोक्तम् अवतारेषु लक्षणम्
मन्वादिकृष्णपर्यन्तम् अष्टाविंशद् युगक्रमात् ॥
तत्र श्रुतिसमूहानां विभागो धर्मलक्षणः
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥
निशम्यैवं महातेजा महादेवेन कीर्तितम्
रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम् ॥
तुष्टाव वाग्भिर् इष्टाभिः पुनः प्राह च शङ्करम्
सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः ॥
न हि विष्णुसमा काचिद् गतिरन्या विधीयते
इत्येवं सततं वेदा गायन्ति नात्र संशयः ॥
स देवदेवो भगवांस् तव लिङ्गार्चने रतः
तव प्रणामपरमः कथं देवो ह्यभूत्प्रभुः ॥
निशम्य वचनं तस्य ब्रह्मणः परमेष्ठिनः
प्रपिबन्निव चक्षुर्भ्यां प्रीतस्तत्प्रश्नगौरवात् ॥
पूजाप्रकरणं तस्मै तमालोक्याह शङ्करः
भवान्नारायणश्चैव शक्रः साक्षात्सुरोत्तमः ॥
मुनयश् च सदा लिङ्गं सम्पूज्य विधिपूर्वकम्
स्वंस्वं पदं विभो प्राप्तास् तस्मात् सम्पूजयन्ति ते ॥
लिङ्गार्चनं विना निष्ठा नास्ति तस्माज्जनार्दनः
आत्मनो यजते नित्यं श्रद्धया भगवान्प्रभुः ॥
इत्येवमुक्त्वा ब्रह्माणम् अनुगृह्य महेश्वरः
पुनः सम्प्रेक्ष्य देवेशं तत्रैवान्तरधीयत ॥
तमुद्दिश्य तदा ब्रह्मा नमस्कृत्य कृताञ्जलिः
स्रष्टुं त्वशेषं भगवांल् लब्धसंज्ञस्तु शङ्करात् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0