भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.23

1.23.1

तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः
ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम् ॥

1.23.2

श्वेतकल्पो यदा ह्यासीद् अहमेव तदाभवम्
श्वेतोष्णीषः श्वेतमाल्यः श्वेतांबरधरः सितः ॥

1.23.3

श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः
तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ ॥

1.23.4

मत्प्रसूता च देवेशी श्वेताङ्गा श्वेतलोहिता
श्वेतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता ॥

1.23.5

तस्मादहं च देवेश त्वया गुह्येन वै पुनः
विज्ञातः स्वेन तपसा सद्योजातत्वमागतः ॥

1.23.6

सद्योजातेति ब्रह्मैतद् गुह्यं चैतत्प्रकीर्तितम्
तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः ॥

1.23.7

मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
यदा चैव पुनस्त्वासील् लोहितो नाम नामतः ॥

1.23.8

मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः
तदा लोहितमांसास्थि लोहितक्षीरसंभवा ॥

1.23.9

लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता
ततो ऽस्या लोहितत्वेन वर्णस्य च विपर्ययात् ॥

1.23.10

वामत्वाच्चैव देवस्य वामदेवत्वमागतः
तत्रापि च महासत्त्व त्वयाहं नियतात्मना ॥

1.23.11

विज्ञातः स्वेन योगेन तस्मिन्वर्णान्तरे स्थितः
ततश् च वामदेवेति ख्यातिं यातो ऽस्मि भूतले ॥

1.23.12

ये चापि वामदेव त्वां ज्ञास्यन्तीह द्विजातयः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥

1.23.13

यदाहं पुनरेवेह पीतवर्णो युगक्रमात्
मत्कृतेन च नाम्ना वै पीतकल्पो ऽभवत्तदा ॥

1.23.14

मत्प्रसूता च देवेशी पीताङ्गी पीतलोहिता
पीतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता ॥

1.23.15

तत्रापि च महासत्त्व योगयुक्तेन चेतसा
यस्मादहं तैर्विज्ञातो योगतत्परमानसैः ॥

1.23.16

तत्र तत्पुरुषत्वेन विज्ञातो ऽहं त्वया पुनः
तस्मात्तत्पुरुषत्वं वै ममैतत्कनकाण्डज ॥

1.23.17

ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम्
वेत्स्यन्ति तपसा युक्ता विमला ब्रह्मसंगताः ॥

1.23.18

रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
यदाहं पुनरेवासं कृष्णवर्णो भयानकः ॥

1.23.19

मत्कृतेन च वर्णेन संकल्पः कृष्ण उच्यते
तत्राहं कालसंकाशः कालो लोकप्रकालकः ॥

1.23.20

विज्ञातो ऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः
मत्प्रसूता च गायत्री कृष्णाङ्गी कृष्णलोहिता ॥

1.23.21

कृष्णरूपा च देवेश तदासीद्ब्रह्मसंज्ञिता
तस्माद् घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले ॥

1.23.22

तेषामघोरः शान्तश् च भविष्याम्यहमव्ययः
पुनश् च विश्वरूपत्वं यदा ब्रह्मन्ममाभवत् ॥

1.23.23

तदाप्यहं त्वया ज्ञातः परमेण समाधिना
विश्वरूपा च संवृत्ता गायत्री लोकधारिणी ॥

1.23.24

तस्मिन् विश्वत्वम् आपन्नं ये मां वेत्स्यन्ति भूतले
तेषां शिवश् च सौम्यश् च भविष्यामि सदैव हि ॥

1.23.25

यस्माच्च विश्वरूपो वै कल्पो ऽयं समुदाहृतः
विश्वरूपा तथा चेयं सावित्री समुदाहृता ॥

1.23.26

सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः
चत्वारस्ते मया ख्याताः पुत्र वै लोकसंमताः ॥

1.23.27

यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति
सर्वभक्षा च मेध्या च वर्णतश् च भविष्यति ॥

1.23.28

मोक्षो धर्मस्तथार्थश् च कामश्चेति चतुष्टयम्
यस्माद्वेदाश् च वेद्यं च चतुर्धा वै भविष्यति ॥

1.23.29

भूतग्रामाश् च चत्वार आश्रमाश् च तथैव च
धर्मस्य पादाश्चत्वारश् चत्वारो मम पुत्रकाः ॥

1.23.30

तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम्
चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति ॥

1.23.31

भूर्लोको ऽथ भुवर्लोकः स्वर्लोकश् च महस् तथा
जनस्तपश् च सत्यं च विष्णुलोकस्ततः परम् ॥

1.23.32

अष्टाक्षरस्थितो लोकः स्थाने स्थाने तदक्षरम्
भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च ॥

1.23.33

भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम्
स्वर्लोको वै तृतीयश् च चतुर्थस्तु महस् तथा ॥

1.23.34

पञ्चमस्तु जनस्तत्र षष्ठश् च तप उच्यते
सत्यं तु सप्तमो लोको ह्य् अपुनर्भवगामिनाम् ॥

1.23.35

विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम्
स्कान्दमौमं तथा स्थानं सर्वसिद्धिसमन्वितम् ॥

1.23.36

रुद्रलोकः स्मृतस्तस्मात् पदं तद्योगिनां शुभम्
निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः ॥

1.23.37

द्रक्ष्यन्ति तद्द्विजा युक्ता ध्यानतत्परमानसाः
यस्माच्चतुष्पदा ह्येषा त्वया दृष्टा सरस्वती ॥

1.23.38

पादान्तं विष्णुलोकं वै कौमारं शान्तमुत्तमम्
औमं माहेश्वरं चैव तस्माद्दृष्टा चतुष्पदा ॥

1.23.39

तस्मात्तु पशवः सर्वे भविष्यन्ति चतुष्पदाः
ततश्चैषां भविष्यन्ति चत्वारस्ते पयोधराः ॥

1.23.40

सोमश् च मन्त्रसंयुक्तो यस्मान्मम मुखाच्च्युतः
जीवः प्राणभृतां ब्रह्मन् पुनः पीतस्तनाः स्मृताः ॥

1.23.41

तस्मात्सोममयं चैव अमृतं जीवसंज्ञितम्
चतुष्पादा भविष्यन्ति श्वेतत्वं चास्य तेन तत् ॥

1.23.42

यस्माच्चैव क्रिया भूत्वा द्विपदा च महेश्वरी
दृष्टा पुनस्तथैवैषा सावित्री लोकभाविनी ॥

1.23.43

तस्माच्च द्विपदाः सर्वे द्विस्तनाश् च नराः शुभाः
तस्माच्चेयमजा भूत्वा सर्ववर्णा महेश्वरी ॥

1.23.44

या वै दृष्टा महासत्त्वा सर्वभूतधरा त्वया
तस्माच्च विश्वरूपत्वं प्रजानां वै भविष्यति ॥

1.23.45

अजश्चैव महातेजा विश्वरूपो भविष्यति
अमोघरेताः सर्वत्र मुखे चास्य हुताशनः ॥

1.23.46

तस्मात्सर्वगतो मेध्यः पशुरूपी हुताशनः
तपसा भावितात्मानो ये मां द्रक्ष्यन्ति वै द्विजाः ॥

1.23.47

ईशित्वे च वशित्वे च सर्वगं सर्वतः स्थितम्
रजस्तमोभ्यां निर्मुक्तास् त्यक्त्वा मानुष्यकं वपुः ॥

1.23.48

मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम्
इत्येवमुक्तो भगवान् ब्रह्मा रुद्रेण वै द्विजाः ॥

1.23.49

प्रणम्य प्रयतो भूत्वा पुनराह पितामहः
य एवं भगवान् विद्वान् गायत्र्या वै महेश्वरम् ॥

1.23.50

विश्वात्मानं हि सर्वं त्वां गायत्र्यास्तव चेश्वर
तस्य देहि परं स्थानं तथास्त्विति च सो ऽब्रवीत् ॥

1.23.51

तस्माद्विद्वान् हि विश्वत्वम् अस्याश्चास्य महात्मनः
स याति ब्रह्मसायुज्यं वचनाद् ब्रह्मणः प्रभोः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc