भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.22

1.22.1

अत्यन्तावनतौ दृष्ट्वा मधुपिङ्गायतेक्षणः
प्रहृष्टवदनो ऽत्यर्थम् अभवत्सत्यकीर्तनात् ॥

1.22.2

उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः
पिनाकी खण्डपरशुः सुप्रीतस्तु त्रिलोचनः ॥

1.22.3

ततः स भगवान्देवः श्रुत्वा वागमृतं तयोः
जानन्नपि महादेवः क्रीडापूर्वमथाब्रवीत् ॥

1.22.4

कौ भवन्तौ महात्मानौ परस्परहितैषिणौ
समेतावंबुजाभक्षाव् अस्मिन् घोरे महाप्लवे ॥

1.22.5

तावूचतुर्महात्मानौ संनिरीक्ष्य परस्परम्
भगवान् किं तु यत्ते ऽद्य न विज्ञानं त्वया विभो ॥

1.22.6

विभो रुद्र महामाय इच्छया वां कृतौ त्वया
तयोस्तद्वचनं श्रुत्वा अभिनन्द्याभिमान्य च ॥

1.22.7

उवाच भगवान्देवो मधुरं श्लक्ष्णया गिरा
भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण ब्रवीम्यहम् ॥

1.22.8

प्रीतो ऽहमनया भक्त्या शाश्वताक्षरयुक्तया
भवन्तौ हृदयस्यास्य मम हृद्यतरावुभौ ॥

1.22.9

युवाभ्यां किं ददाम्यद्य वराणां वरमीप्सितम्
अथोवाच महाभागो विष्णुर्भवमिदं वचः ॥

1.22.10

सर्वं मम कृतं देव परितुष्टो ऽसि मे यदि
त्वयि मे सुप्रतिष्ठा तु भक्तिर्भवतु शङ्करः ॥

1.22.11

एवमुक्तस्तु विज्ञाय संभावयत केशवम्
प्रददौ च महादेवो भक्तिं निजपदांबुजे ॥

1.22.12

भवान्सर्वस्य लोकस्य कर्ता त्वमधिदैवतम्
तदेवं स्वस्ति ते वत्स गमिष्याम्यंबुजेक्षण ॥

1.22.13

एवमुक्त्वा तु भगवान् ब्रह्माणं चापि शङ्करः
अनुगृह्यास्पृशद्देवो ब्रह्माणं परमेश्वरः ॥

1.22.14

कराभ्यां सुशुभाभ्यां च प्राह हृष्टतरः स्वयम्
मत्समस्त्वं न संदेहो वत्स भक्तश् च मे भवान् ॥

1.22.15

स्वस्त्यस्तु ते गमिष्यामि संज्ञा भवतु सुव्रत
एवमुक्त्वा तु भगवांस् ततो ऽन्तर्धानमीश्वरः ॥

1.22.16

गतवान् गणपो देवः सर्वदेवनमस्कृतः
अवाप्य संज्ञां गोविन्दात् पद्मयोनिः पितामहः ॥

1.22.17

प्रजाः स्रष्टुमनाश्चक्रे तप उग्रं पितामहः
तस्यैवं तप्यमानस्य न किंचित् समवर्तत ॥

1.22.18

ततो दीर्घेण कालेन दुःखात्क्रोधो ह्यजायत
क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥

1.22.19

ततस्तेभ्यो ऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः
महाभागा महासत्त्वाः स्वस्तिकैरप्यलंकृताः ॥

1.22.20

प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः
सर्पांस्तानग्रजान्दृष्ट्वा ब्रह्मात्मानम् अनिन्दयत् ॥

1.22.21

अहो धिक् तपसो मह्यं फलमीदृशकं यदि
लोकवैनाशिकी जज्ञे आदावेव प्रजा मम ॥

1.22.22

तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा
मूर्च्छाभिपरितापेन जहौ प्राणान्प्रजापतिः ॥

1.22.23

तस्याप्रतिमवीर्यस्य देहात्कारुण्यपूर्वकम्
अथैकादश ते रुद्रा रुदन्तो ऽभ्यक्रमंस् तथा ॥

1.22.24

रोदनात्खलु रुद्रत्वं तेषु वै समजायत
ये रुद्रास्ते खलु प्राणा ये प्राणास्ते तदात्मकाः ॥

1.22.25

प्राणाः प्राणवतां ज्ञेयाः सर्वभूतेष्ववस्थिताः
अत्युग्रस्य महत्त्वस्य साधुराचरितस्य च ॥

1.22.26

प्राणांस्तस्य ददौ भूयस् त्रिशूली नीललोहितः
लब्ध्वासून् भगवान्ब्रह्म देवदेवमुमापतिम् ॥

1.22.27

प्रणम्य संस्थितो ऽपश्यद् गायत्र्या विश्वमीश्वरम्
सर्वलोकमयं देवं दृष्ट्वा स्तुत्वा पितामहः ॥

1.22.28

ततो विस्मयमापन्नः प्रणिपत्य मुहुर्मुहुः
उवाच वचनं शर्वं सद्यादित्वं कथं विभो ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc