लिङ्गपुराण · अध्याय 1.21
ब्रह्माणमग्रतः कृत्वा ततः स गरुडध्वजः
अतीतैश् च भविष्यैश् च वर्तमानैस्तथैव च ॥
नामभिश्छान्दसैश्चैव इदं स्तोत्रमुदीरयत्
नमस्तुभ्यं भगवते सुव्रतानन्ततेजसे ॥
नमः क्षेत्राधिपतये बीजिने शूलिने नमः
सुमेढ्रायार्च्यमेढ्राय दण्डिने रूक्षरेतसे ॥
नमो ज्येष्ठाय श्रेष्ठाय पूर्वाय प्रथमाय च
नमो मान्याय पूज्याय सद्योजाताय वै नमः ॥
गह्वराय घटेशाय व्योमचीरांबराय च
नमस्ते ह्यस्मदादीनां भूतानां प्रभवे नमः ॥
वेदानां प्रभवे चैव स्मृतीनां प्रभवे नमः
प्रभवे कर्मदानानां द्रव्याणां प्रभवे नमः ॥
नमो योगस्य प्रभवे सांख्यस्य प्रभवे नमः
नमो ध्रुवनिबद्धानाम् ऋषीणां प्रभवे नमः ॥
ऋक्षाणां प्रभवे तुभ्यं ग्रहाणां प्रभवे नमः
वैद्युताशनिमेघानां गर्जितप्रभवे नमः ॥
महोदधीनां प्रभवे द्वीपानां प्रभवे नमः
अद्रीणां प्रभवे चैव वर्षाणां प्रभवे नमः ॥
नमो नदीनां प्रभवे नदानां प्रभवे नमः
महौषधीनां प्रभवे वृक्षाणां प्रभवे नमः ॥
धर्मवृक्षाय धर्माय स्थितीनां प्रभवे नमः
प्रभवे च परार्धस्य परस्य प्रभवे नमः ॥
नमो रसानां प्रभवे रत्नानां प्रभवे नमः
क्षणानां प्रभवे चैव लवानां प्रभवे नमः ॥
अहोरात्रार्धमासानां मासानां प्रभवे नमः
ऋतूनां प्रभवे तुभ्यं संख्यायाः प्रभवे नमः ॥
प्रभवे चापरार्धस्य परार्धप्रभवे नमः
नमः पुराणप्रभवे सर्गाणां प्रभवे नमः ॥
मन्वन्तराणां प्रभवे योगस्य प्रभवे नमः
चतुर्विधस्य सर्गस्य प्रभवे ऽनन्तचक्षुषे ॥
कल्पोदयनिबन्धानां वातानां प्रभवे नमः
नमो विश्वस्य प्रभवे ब्रह्माधिपतये नमः ॥
विद्यानां प्रभवे चैव विद्याधिपतये नमः
नमो व्रताधिपतये व्रतानां प्रभवे नमः ॥
मन्त्राणां प्रभवे तुभ्यं मन्त्राधिपतये नमः
पितॄणां पतये चैव पशूनां पतये नमः ॥
वाग्वृषाय नमस्तुभ्यं पुराणवृषभाय च
नमः पशूनां पतये गोवृषेन्द्रध्वजाय च ॥
प्रजापतीनां पतये सिद्धीनां पतये नमः
दैत्यदानवसंघानां रक्षसां पतये नमः ॥
गन्धर्वाणां च पतये यक्षाणां पतये नमः
गरुडोरगसर्पाणां पक्षिणां पतये नमः ॥
सर्वगुह्यपिशाचानां गुह्याधिपतये नमः
गोकर्णाय च गोप्त्रे च शङ्कुकर्णाय वै नमः ॥
वराहायाप्रमेयाय ऋक्षाय विरजाय च
नमः सुराणां पतये गणानां पतये नमः ॥
अंभसां पतये चैव ओजसां पतये नमः
नमो ऽस्तु लक्ष्मीपतये श्रीपाय क्षितिपाय च ॥
बलाबलसमूहाय अक्षोभ्यक्षोभणाय च
दीप्तशृङ्गैकशृङ्गाय वृषभाय ककुद्मिने ॥
नमः स्थैर्याय वपुषे तेजसानुव्रताय च
अतीताय भविष्याय वर्तमानाय वै नमः ॥
सुवर्चसे च वीर्याय शूराय ह्यजिताय च
वरदाय वरेण्याय पुरुषाय महात्मने ॥
नमो भूताय भव्याय महते प्रभवाय च
जनाय च नमस्तुभ्यं तपसे वरदाय च ॥
अणवे महते चैव नमः सर्वगताय च
नमो बन्धाय मोक्षाय स्वर्गाय नरकाय च ॥
नमो भवाय देवाय इज्याय याजकाय च
प्रत्युदीर्णाय दीप्ताय तत्त्वायातिगुणाय च ॥
नमः पाशाय शस्त्राय नमस्त्वाभरणाय च
हुताय उपहूताय प्रहुतप्राशिताय च ॥
नमो ऽस्त्विष्टाय पूर्ताय अग्निष्टोमद्विजाय च
सदस्याय नमश्चैव दक्षिणावभृथाय च ॥
अहिंसायाप्रलोभाय पशुमन्त्रौषधाय च
नमः पुष्टिप्रदानाय सुशीलाय सुशीलिने ॥
अतीताय भविष्याय वर्तमानाय ते नमः
सुवर्चसे च वीर्याय शूराय ह्यजिताय च ॥
वरदाय वरेण्याय पुरुषाय महात्मने
नमो भूताय भव्याय महते चाभयाय च ॥
जरासिद्ध नमस्तुभ्यम् अयसे वरदाय च
अधरे महते चैव नमः सस्तुपताय च ॥
नमश्चेन्द्रियपत्राणां लेलिहानाय स्रग्विणे
विश्वाय विश्वरूपाय विश्वतः शिरसे नमः ॥
सर्वतः पाणिपादाय रुद्रायाप्रतिमाय च
नमो हव्याय कव्याय हव्यवाहाय वै नमः ॥
नमः सिद्धाय मेध्याय इष्टायेज्यापराय च
सुवीराय सुघोराय अक्षोभ्यक्षोभणाय च ॥
सुप्रजाय सुमेधाय दीप्ताय भास्कराय च
नमो बुद्धाय शुद्धाय विस्तृताय मताय च ॥
नमः स्थूलाय सूक्ष्माय दृश्यादृश्याय सर्वशः
वर्षते ज्वलते चैव वायवे शिशिराय च ॥
नमस्ते वक्रकेशाय ऊरुवक्षःशिखाय च
नमो नमः सुवर्णाय तपनीयनिभाय च ॥
विरूपाक्षाय लिङ्गाय पिङ्गलाय महौजसे
वृष्टिघ्नाय नमश्चैव नमः सौम्येक्षणाय च ॥
नमो धूम्राय श्वेताय कृष्णाय लोहिताय च
पिशिताय पिशङ्गाय पीताय च निषङ्गिणे ॥
नमस्ते सविशेषाय निर्विशेषाय वै नमः
नम ईज्याय पूज्याय उपजीव्याय वै नमः ॥
नमः क्षेम्याय वृद्धाय वत्सलाय नमोनमः
नमो भूताय सत्याय सत्यासत्याय वै नमः ॥
नमो वै पद्मवर्णाय मृत्युघ्नाय च मृत्यवे
नमो गौराय श्यामाय कद्रवे लोहिताय च ॥
महासंध्याभ्रवर्णाय चारुदीप्ताय दीक्षिणे
नमः कमलहस्ताय दिग्वासाय कपर्दिने ॥
अप्रमाणाय सर्वाय अव्ययायामराय च
नमो रूपाय गन्धाय शाश्वतायाक्षताय च ॥
पुरस्ताद्बृंहते चैव विभ्रान्ताय कृताय च
दुर्गमाय महेशाय क्रोधाय कपिलाय च ॥
तर्क्यातर्क्यशरीराय बलिने रंहसाय च
सिकत्याय प्रवाह्याय स्थिताय प्रसृताय च ॥
सुमेधसे कुलालाय नमस्ते शशिखण्डिने
चित्राय चित्रवेषाय चित्रवर्णाय मेधसे ॥
चेकितानाय तुष्टाय नमस्ते निहिताय च
नमः क्षान्ताय दान्ताय वज्रसंहननाय च ॥
रक्षोघ्नाय विषघ्नाय शितिकण्ठोर्ध्वमन्यवे ॥
लेलिहाय कृतान्ताय तिग्मायुधधराय च ॥
प्रमोदाय संमोदाय यतिवेद्याय ते नमः
अनामयाय सर्वाय महाकालाय वै नमः ॥
प्रणवप्रणवेशाय भगनेत्रान्तकाय च
मृगव्याधाय दक्षाय दक्षयज्ञान्तकाय च ॥
सर्वभूतात्मभूताय सर्वेशातिशयाय च
पुरघ्नाय सुशस्त्राय धन्विने ऽथ परश्वधे ॥
पूषदन्तविनाशाय भगनेत्रान्तकाय च
कामदाय वरिष्ठाय कामाङ्गदहनाय च ॥
रङ्गे करालवक्त्राय नागेन्द्रवदनाय च
दैत्यानामन्तकेशाय दैत्याक्रन्दकराय च ॥
हिमघ्नाय च तीक्ष्णाय आर्द्रचर्मधराय च
श्मशानरतिनित्याय नमो ऽस्तूल्मुकधारिणे ॥
नमस्ते प्राणपालाय मुण्डमालाधराय च
प्रहीणशोकैर्विविधैर् भूतैः परिवृताय च ॥
नरनारीशरीराय देव्याः प्रियकराय च
जटिने मुण्डिने चैव व्यालयज्ञोपवीतिने ॥
नमो ऽस्तु नृत्यशीलाय उपनृत्यप्रियाय च
मन्यवे गीतशीलाय मुनिभिर् गायते नमः ॥
कटकटाय तिग्माय अप्रियाय प्रियाय च
विभीषणाय भीष्माय भगप्रमथनाय च ॥
सिद्धसंघानुगीताय महाभागाय वै नमः
नमो मुक्ताट्टहासाय क्ष्वेडितास्फोटिताय च ॥
नर्दते कूर्दते चैव नमः प्रमुदितात्मने
नमो मृडाय श्वसते धावते ऽधिष्ठिते नमः ॥
ध्यायते जृम्भते चैव रुदते द्रवते नमः
वल्गते क्रीडते चैव लम्बोदरशरीरिणे ॥
नमो ऽकृत्याय कृत्याय मुण्डाय कीकटाय च
नम उन्मत्तदेहाय किङ्किणीकाय वै नमः ॥
नमो विकृतवेषाय क्रूरायामर्षणाय च
अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च ॥
वामप्रियाय वामाय चूडामणिधराय च
नमस्तोकाय तनवे गुणैरप्रमिताय च ॥
नमो गुण्याय गुह्याय अगम्यगमनाय च
लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ ॥
सर्वेषां सिद्धियोगानाम् अधिष्ठानं तवोदरम्
मध्ये ऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम् ॥
स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि
दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः ॥
विस्तीर्णपरिणाहश् च नीलाञ्जनचयोपमः
कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः ॥
दंष्ट्राकरालं दुर्धर्षम् अनौपम्यं मुखं तथा
पद्ममालाकृतोष्णीषं शिरो द्यौः शोभते ऽधिकम् ॥
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैले ऽनिले बलम्
औष्ण्यमग्नौ तथा शैत्यम् अप्सु शब्दो ऽम्बरे तथा ॥
अक्षरान्तरनिष्पन्दाद् गुणानेतान्विदुर्बुधाः
जपो जप्यो महादेवो महायोगोमहेश्वरः ॥
पुरेशयो गुहावासी खेचरो रजनीचरः
तपोनिधिर्गुहगुरुर् नन्दनो नन्दवर्धनः ॥
हयशीर्षा पयोधाता विधाता भूतभावनः
बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः ॥
बृहद्रथो भीमकर्मा बृहत्कीर्तिर् धनञ्जयः
घण्टाप्रियो ध्वजी छत्त्री पिनाकी ध्वजिनीपतिः ॥
कवची पट्टिशी खड्गी धनुर्हस्तः परश्वधी
अघस्मरो ऽनघः शूरो देवराजो ऽरिमर्दनः ॥
त्वां प्रसाद्य पुरास्माभिर् द्विषन्तो निहता युधि
अग्निः सदार्णवांभस्त्वं पिबन्नपि न तृप्यसे ॥
क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः
ब्रह्मचारि चागाधश् च ब्रह्मण्यः शिष्टपूजितः ॥
देवानाम् अक्षयः कोशस् त्वया यज्ञः प्रकल्पितः
हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः
प्रीते त्वयि महादेव वयं प्रीता भवामहे ॥
भवानीशो ऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः
सांख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति ॥
योगाश् च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् संत्यजन्ते पुनस्तान्
ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति ॥
अप्रसंख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः
कीर्तितं तव माहात्म्यम् अपारस्य महात्मनः ॥
शिवो नो भव सर्वत्र यो ऽसि सो ऽसि नमो ऽस्तु ते
य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम् ॥
श्रावयेद्वा द्विजान् विद्वान् शृणुयाद्वा समाहितः
अश्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात् ॥
पापाचारो ऽपि यो मर्त्यः शृणुयाच्छिवसन्निधौ
जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥
श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके
कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणो ऽन्तिकम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0