भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.20

1.20.1

कथं पाद्मे पुरा कल्पे ब्रह्मा पद्मोद्भवो ऽभवत्
भवं च दृष्टवांस्तेन ब्रह्मणा पुरुषोत्तमः ॥

1.20.2

एतत्सर्वं विशेषेण सांप्रतं वक्तुमर्हसि
आसीदेकार्णवं घोरम् अविभागं तमोमयम् ॥

1.20.3

मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः
जीमूताभो ऽम्बुजाक्षश् च किरीटी श्रीपतिर्हरिः ॥

1.20.4

नारायणमुखोद्गीर्ण सर्वात्मा पुरुषोत्तमः
अष्टबाहुर्महावक्षा लोकानां योनिरुच्यते ॥

1.20.5

किमप्यचिन्त्यं योगात्मा योगमास्थाय योगवित्
फणासहस्रकलितं तमप्रतिमवर्चसम् ॥

1.20.6

महाभोगपतेर्भोगं साध्वास्तीर्य महोच्छ्रयम्
तस्मिन्महति पर्यङ्के शेते चैकार्णवे प्रभुः ॥

1.20.7

एवं तत्र शयानेन विष्णुना प्रभविष्णुना
आत्मारामेण क्रीडार्थं लीलयाक्लिष्टकर्मणा ॥

1.20.8

शतयोजनविस्तीर्णं तरुणादित्यसन्निभम्
वज्रदण्डं महोत्सेधं नाभ्यां सृष्टं तु पुष्करम् ॥

1.20.9

तस्यैवं क्रीडमानस्य समीपं देवमीढुषः
हेमगर्भाण्डजो ब्रह्मा रुक्मवर्णो ह्यतीन्द्रियः ॥

1.20.10

चतुर्वक्त्रो विशालाक्षः समागम्य यदृच्छया
श्रिया युक्तेन दिव्येन सुशुभेन सुगन्धिना ॥

1.20.11

क्रीडमानं च पद्मेन दृष्ट्वा ब्रह्मा शुभेक्षणम्
सविस्मयमथागम्य सौम्यसम्पन्नया गिरा ॥

1.20.12

प्रोवाच को भवाञ्छेते ह्य् आश्रितो मध्यमम्भसाम्
अथ तस्याच्युतः श्रुत्वा ब्रह्मणस्तु शुभं वचः ॥

1.20.13

उदतिष्ठत पर्यङ्काद् विस्मयोत्फुल्ललोचनः
प्रत्युवाचोत्तरं चैव कल्पे कल्पे प्रतिश्रयः ॥

1.20.14

कर्तव्यं च कृतं चैव क्रियते यच्च किंचन
द्यौरन्तरिक्षं भूश्चैव परं पदमहं भुवः ॥

1.20.15

तमेवमुक्त्वा भगवान् विष्णुः पुनरथाब्रवीत्
कस्त्वं खलु समायातः समीपं भगवान्कुतः ॥

1.20.16

क्व वा भूयश् च गन्तव्यं कश् च वा ते प्रतिश्रयः
को भवान् विश्वमूर्तिर्वै कर्तव्यं किं च ते मया ॥

1.20.17

एवं ब्रुवन्तं वैकुण्ठं प्रत्युवाच पितामहः
मायया मोहितः शंभोर् अविज्ञाय जनार्दनम् ॥

1.20.18

मायया मोहितं देवम् अविज्ञातं महात्मनः
यथा भवांस्तथैवाहम् आदिकर्ता प्रजापतिः ॥

1.20.19

सविस्मयं वचः श्रुत्वा ब्रह्मणो लोकतन्त्रिणः
अनुज्ञातश् च ते नाथ वैकुण्ठो विश्वसंभवः ॥

1.20.20

कौतूहलान्महायोगी प्रविष्टो ब्रह्मणो मुखम्
इमानष्टादश द्वीपान् ससमुद्रान् सपर्वतान् ॥

1.20.21

प्रविश्य सुमहातेजाश् चातुर्वर्ण्यसमाकुलान्
ब्रह्मणस्तम्भपर्यन्तं सप्तलोकान् सनातनान् ॥

1.20.22

ब्रह्मणस्तूदरे दृष्ट्वा सर्वान्विष्णुर्महाभुजः
अहो ऽस्य तपसो वीर्यम् इत्युक्त्वा च पुनः पुनः ॥

1.20.23

अटित्वा विविधांल्लोकान् विष्णुर्नानाविधाश्रयान्
ततो वर्षसहस्रान्ते नान्तं हि ददृशे यदा ॥

1.20.24

तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः
नारायणो जगद्धाता पितामहमथाब्रवीत् ॥

1.20.25

भगवानादिरङ्कश् च मध्यं कालो दिशो नभः
नाहमन्तं प्रपश्यामि उदरस्य तवानघ ॥

1.20.26

एवमुक्त्वाब्रवीद्भूयः पितामहमिदं हरिः
भगवानेवमेवाहं शाश्वतं हि ममोदरम् ॥

1.20.27

प्रविश्य लोकान् पश्यैतान् अनौपम्यान्सुरोत्तम
ततः प्राह्लादिनीं वाणीं श्रुत्वा तस्याभिनन्द्य च ॥

1.20.28

श्रीपतेरुदरं भूयः प्रविवेश पितामहः
तानेव लोकान् गर्भस्थान् अपश्यत् सत्यविक्रमः ॥

1.20.29

पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः
ज्ञात्वा गतिं तस्य पितामहस्य द्वाराणि सर्वाणि पिधाय विष्णुः
विभुर्मनः कर्तुमियेष चाशु सुखं प्रसुप्तो ऽहमिति प्रचिन्त्य ॥

1.20.30

ततो द्वाराणि सर्वाणि पिहितानि समीक्ष्य वै
सूक्ष्मं कृत्वात्मनो रूपं नाभ्यां द्वारमविन्दत ॥

1.20.31

पद्मसूत्रानुसारेण चान्वपश्यत्पितामहः
उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥

1.20.32

विरराजारविन्दस्थः पद्मगर्भसमद्युतिः
ब्रह्मा स्वयंभूर्भगवाञ् जगद्योनिः पितामहः ॥

1.20.33

एतस्मिन्नन्तरे ताभ्याम् एकैकस्य तु कृत्स्नशः
वर्तमाने तु संघर्षे मध्ये तस्यार्णवस्य तु ॥

1.20.34

कुतो ऽप्यपरिमेयात्मा भूतानां प्रभुरीश्वरः
शूलपाणिर्महादेवो हेमवीरांबरच्छदः ॥

1.20.35

अगच्छद्यत्र सो ऽनन्तो नागभोगपतिर् हरिः
शीघ्रं विक्रमतस्तस्य पद्भ्याम् आक्रान्तपीडिताः ॥

1.20.36

उद्भूतास्तूर्णमाकाशे पृथुलास्तोयबिन्दवः
अत्युष्णश्चातिशीतश् च वायुस्तत्र ववौ पुनः ॥

1.20.37

तद्दृष्ट्वा महदाश्चर्यं ब्रह्मा विष्णुमभाषत
अब्बिन्दवश् च शीतोष्णाः कम्पयन्त्यंबुजं भृशम् ॥

1.20.38

एतन्मे संशयं ब्रूहि किं वा त्वन्यच्चिकीर्षसि
एतदेवंविधं वाक्यं पितामहमुखोद्गतम् ॥

1.20.39

श्रुत्वाप्रतिमकर्मा हि भगवानसुरान्तकृत्
किं नु खल्वत्र मे नाभ्यां भूतमन्यत्कृतालयम् ॥

1.20.40

वदति प्रियमत्यर्थं मन्युश्चास्य मया कृतः
इत्येवं मनसा ध्यात्वा प्रत्युवाचेदमुत्तरम् ॥

1.20.41

किमत्र भगवानद्य पुष्करे जातसंभ्रमः
किं मया च कृतं देव यन्मां प्रियमनुत्तमम् ॥

1.20.42

भाषसे पुरुषश्रेष्ठ किमर्थं ब्रूहि तत्त्वतः
एवं ब्रुवाणं देवेशं लोकयात्रानुगं ततः ॥

1.20.43

प्रत्युवाचाम्बुजाभाक्षं ब्रह्मा वेदनिधिः प्रभुः
यो ऽसौ तवोदरं पूर्वं प्रविष्टो ऽहं त्वदिच्छया ॥

1.20.44

यथा ममोदरे लोकाः सर्वे दृष्टास्त्वया प्रभो
तथैव दृष्टाः कार्त्स्न्येन मया लोकास्तवोदरे ॥

1.20.45

ततो वर्षसहस्रात्तु उपावृत्तस्य मे ऽनघ
त्वया मत्सरभावेन मां वशीकर्तुमिच्छता ॥

1.20.46

आशु द्वाराणि सर्वाणि पिहितानि समन्ततः
ततो मया महाभाग संचिन्त्य स्वेन तेजसा ॥

1.20.47

लब्धो नाभिप्रदेशेन पद्मसूत्राद्विनिर्गमः
मा भूत्ते मनसो ऽल्पो ऽपि व्याघातो ऽयं कथंचन ॥

1.20.48

इत्येषानुगतिर्विष्णो कार्याणाम् औपसर्पिणी
यन्मयानन्तरं कार्यं ब्रूहि किं करवाण्यहम् ॥

1.20.49

ततः परममेयात्मा हिरण्यकशिपो रिपुः
अनवद्यां प्रियामिष्टां शिवां वाणीं पितामहात् ॥

1.20.50

श्रुत्वा विगतमात्सर्यं वाक्यमस्मै ददौ हरिः
न ह्येवमीदृशं कार्यं मयाध्यवसितं तव ॥

1.20.51

त्वां बोधयितुकामेन क्रीडापूर्वं यदृच्छया
आशु द्वाराणि सर्वाणि घाटितानि मयात्मनः ॥

1.20.52

न ते ऽन्यथावगन्तव्यं मान्यः पूज्यश् च मे भवान्
सर्वं मर्षय कल्याण यन्मयापकृतं तव ॥

1.20.53

अस्मान् मयोह्यमानस्त्वं पद्मादवतर प्रभो
नाहं भवन्तं शक्नोमि सोढुं तेजोमयं गुरुम् ॥

1.20.54

स होवाच वरं ब्रूहि पद्मादवतर प्रभो
पुत्रो भव ममारिघ्न मुदं प्राप्स्यसि शोभनाम् ॥

1.20.55

सद्भाववचनं ब्रूहि पद्मादवतर प्रभो
स त्वं च नो महायोगी त्वमीड्यः प्रणवात्मकः ॥

1.20.56

अद्यप्रभृति सर्वेशः श्वेतोष्णीषविभूषितः
पद्मयोनिरिति ह्येवं ख्यातो नाम्ना भविष्यसि ॥

1.20.57

पुत्रो मे त्वं भव ब्रह्मन् सप्तलोकाधिपः प्रभो
ततः स भगवान्देवो वरं दत्त्वा किरीटिने ॥

1.20.58

एवं भवतु चेत्युक्त्वा प्रीतात्मा गतमत्सरः
प्रत्यासन्नम् अथायान्तं बालार्काभं महाननम् ॥

1.20.59

भवमत्यद्भुतं दृष्ट्वा नारायणमथाब्रवीत्
अप्रमेयो महावक्त्रो दंष्ट्री ध्वस्तशिरोरुहः ॥

1.20.60

दशबाहुस्त्रिशूलाङ्को नयनैर्विश्वतः स्थितः
लोकप्रभुः स्वयं साक्षाद् विकृतो मुञ्जमेखली ॥

1.20.61

मेण्ढ्रेणोर्ध्वेन महता नर्दमानो ऽतिभैरवम्
कः खल्वेष पुमान् विष्णो तेजोराशिर् महाद्युतिः ॥

1.20.62

व्याप्य सर्वा दिशो द्यां च इत एवाभिवर्तते
तेनैवमुक्तो भगवान् विष्णुर्ब्रह्माणमब्रवीत् ॥

1.20.63

पद्भ्यां तलनिपातेन यस्य विक्रमतो ऽर्णवे
वेगेन महताकाशे ऽप्युत्थिताश् च जलशयाः ॥

1.20.64

स्थूलाद्भिर् विश्वतो ऽत्यर्थं सिच्यसे पद्मसंभव
घ्राणजेन च वातेन कम्प्यमानं त्वया सह ॥

1.20.65

दोधूयते महापद्मं स्वच्छन्दं मम नाभिजम्
समागतो भवानीशो ह्य् अनादिश्चान्तकृत्प्रभुः ॥

1.20.66

भवानहं च स्तोत्रेण उपतिष्ठाव गोध्वजम्
ततः क्रुद्धो ऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् ॥

1.20.67

भवान्न नूनमात्मानं वेत्ति लोकप्रभुं विभुम्
ब्रह्माणं लोककर्तारं मां न वेत्सि सनातनम् ॥

1.20.68

को ह्यसौ शङ्करो नाम आवयोर्व्यतिरिच्यते
तस्य तत्क्रोधजं वाक्यं श्रुत्वा हरिरभाषत ॥

1.20.69

मा मैवं वद कल्याण परिवादं महात्मनः
महायोगेन्धनो धर्मो दुराधर्षो वरप्रदः ॥

1.20.70

हेतुरस्याथ जगतः पुराणपुरुषो ऽव्ययः
बीजी खल्वेष बीजानां ज्योतिरेकः प्रकाशते ॥

1.20.71

बालक्रीडनकैर्देवः क्रीडते शङ्करः स्वयम्
प्रधानमव्ययो योनिर् अव्यक्तं प्रकृतिस्तमः ॥

1.20.72

मम चैतानि नामानि नित्यं प्रसवधर्मिणः
यः कः स इति दुःखार्तैर् दृश्यते यतिभिः शिवः ॥

1.20.73

एष बीजी भवान्बीजम् अहं योनिः सनातनः
स एवमुक्तो विश्वात्मा ब्रह्मा विष्णुमपृच्छत ॥

1.20.74

भवान् योनिरहं बीजं कथं बीजी महेश्वरः
एतन्मे सूक्ष्ममव्यक्तं संशयं छेत्तुमर्हसि ॥

1.20.75

ज्ञात्वा च विविधोत्पत्तिं ब्रह्मणो लोकतन्त्रिणः
इमं परमसादृश्यं प्रश्नम् अभ्यवदद्धरिः ॥

1.20.76

अस्मान्महत्तरं भूतं गुह्यमन्यन्न विद्यते
महतः परमं धाम शिवम् अध्यात्मिनां पदम् ॥

1.20.77

द्विविधं चैवमात्मानं प्रविभज्य व्यवस्थितः
निष्कलस्तत्र यो ऽव्यक्तः सकलश् च महेश्वरः ॥

1.20.78

यस्य मायाविधिज्ञस्य अगम्यगहनस्य च
पुरा लिङ्गोद्भवं बीजं प्रथमं त्वादिसर्गिकम् ॥

1.20.79

मम योनौ समायुक्तं तद्बीजं कालपर्ययात्
हिरण्मयमकूपारे योन्यामण्डमजायत ॥

1.20.80

शतानि दश वर्षाणाम् अण्डम् अप्सु प्रतिष्ठितम्
अन्ते वर्षसहस्रस्य वायुना तद्द्विधा कृतम् ॥

1.20.81

कपालमेकं द्यौर्जज्ञे कपालमपरं क्षितिः
उल्बं तस्य महोत्सेधो यो ऽसौ कनकपर्वतः ॥

1.20.82

ततश् च प्रतिसंध्यात्मा देवदेवो वरः प्रभुः
हिरण्यगर्भो भगवांस् त्व् अभिजज्ञे चतुर्मुखः ॥

1.20.83

आ तारार्केन्दुनक्षत्रं शून्यं लोकमवेक्ष्य च
को ऽहमित्यपि च ध्याते कुमारास्ते ऽभवंस्तदा ॥

1.20.84

प्रियदर्शनास्तु यतयो यतीनां पूर्वजास् तव
भूयो वर्षसहस्रान्ते तत एवात्मजास्तव ॥

1.20.85

भुवनानलसंकाशाः पद्मपत्रायतेक्षणाः
श्रीमान्सनत्कुमारश् च ऋभुश्चैवोर्ध्वरेतसौ ॥

1.20.86

सनकः सनातनश्चैव तथैव च सनन्दनः
उत्पन्नाः समकालं ते बुद्ध्यातीन्द्रियदर्शनाः ॥

1.20.87

उत्पन्नाः प्रतिभात्मानो जगतां स्थितिहेतवः
नारप्स्यन्ते च कर्माणि तापत्रयविवर्जिताः ॥

1.20.88

अल्पसौख्यं बहुक्लेशं जराशोकसमन्वितम्
जीवनं मरणं चैव संभवश् च पुनः पुनः ॥

1.20.89

अल्पभूतं सुखं स्वर्गे दुःखानि नरके तथा
विदित्वा चागमं सर्वम् अवश्यं भवितव्यताम् ॥

1.20.90

ऋभुं सनत्कुमारं च दृष्ट्वा तव वशे स्थितौ
त्रयस्तु त्रीन् गुणान् हित्वा चात्मजाः सनकादयः ॥

1.20.91

ववर्तेन तु ज्ञानेन प्रवृत्तास्ते महौजसः
ततस्तेषु प्रवृत्तेषु सनकादिषु वै त्रिषु ॥

1.20.92

भविष्यसि विमूढस्त्वं मायया शङ्करस्य तु
एवं कल्पे तु वैवृत्ते संज्ञा नश्यति ते ऽनघ ॥

1.20.93

कल्पे शेषाणि भूतानि सूक्ष्माणि पार्थिवानि च
सर्वेषां ह्यैश्वरी माया जागृतिः समुदाहृता ॥

1.20.94

यथैष पर्वतो मेरुर् देवलोको ह्युदाहृतः
तस्य चेदं हि माहात्म्यं विद्धि देववरस्य ह ॥

1.20.95

ज्ञात्वा चेश्वरसद्भावं ज्ञात्वा मामंबुजेक्षणम्
महादेवं महाभूतं भूतानां वरदं प्रभुम् ॥

1.20.96

प्रणवेनाथ साम्ना तु नमस्कृत्य जगद्गुरुम्
त्वां च मां चैव संक्रुद्धो निःश्वासान्निर्दहेदयम् ॥

1.20.97

एवं ज्ञात्वा महायोगम् अभ्युत्तिष्ठन्महाबलम्
अहं त्वामग्रतः कृत्वा स्तोष्याम्यनलसप्रभम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc