लिङ्गपुराण · अध्याय 1.19
अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ
पश्यतां मां महादेवं भयं सर्वं विमुच्यताम् ॥
युवां प्रसूतौ गात्राभ्यां मम पूर्वं महाबलौ
अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः ॥
वामे पार्श्वे च मे विष्णुर् विश्वात्मा हृदयोद्भवः
प्रीतो ऽहं युवयोः सम्यग् वरं दद्मि यथेप्सितम् ॥
एवमुक्त्वा तु तं विष्णुं कराभ्यां परमेश्वरः
पस्पर्श सुभगाभ्यां तु कृपया तु कृपानिधिः ॥
ततः प्रहृष्टमनसा प्रणिपत्य महेश्वरम्
प्राह नारायणो नाथं लिङ्गस्थं लिङ्गवर्जितम् ॥
यदि प्रीतिः समुत्पन्ना यदि देयो वरश् च नौ
भक्तिर्भवतु नौ नित्यं त्वयि चाव्यभिचारिणी ॥
देवः प्रदत्तवान् देवाः स्वात्मन्यव्यभिचारिणीम्
ब्रह्मणे विष्णवे चैव श्रद्धां शीतांशुभूषणः ॥
जानुभ्यामवनीं गत्वा पुनर्नारायणः स्वयम्
प्रणिपत्य च विश्वेशं प्राह मन्दतरं वशी ॥
आवयोर्देवदेवेश विवादमतिशोभनम्
इहागतो भवान् यस्माद् विवादशमनाय नौ ॥
तस्य तद्वचनं श्रुत्वा पुनः प्राह हरो हरिम्
प्रणिपत्य स्थितं मूर्ध्ना कृताञ्जलिपुटं स्मयन् ॥
प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते
वत्स वत्स हरे विष्णो पालयैतच्चराचरम् ॥
त्रिधा भिन्नो ह्यहं विष्णो ब्रह्मविष्णुभवाख्यया
सर्गरक्षालयगुणैर् निष्कलः परमेश्वरः ॥
संमोहं त्यज भो विष्णो पालयैनं पितामहम्
पाद्मे भविष्यति सुतः कल्पे तव पितामहः ॥
तदा द्रक्ष्यसि मां चैवं सो ऽपि द्रक्ष्यति पद्मजः
एवमुक्त्वा स भगवांस् तत्रैवान्तरधीयत ॥
तदाप्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता
लिङ्गवेदी महादेवी लिङ्गं साक्षान्महेश्वरः ॥
लयनाल्लिङ्गमित्युक्तं तत्रैव निखिलं सुराः
यस्तु लैङ्गं पठेन्नित्यम् आख्यानं लिङ्गसन्निधौ ॥
स याति शिवतां विप्रो नात्र कार्या विचारणा ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0