भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.1

1.1.1

नमो रुद्राय हरये ब्रह्मणे परमात्मने
प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे ॥

1.1.2

नारदो ऽभ्यर्च्य शैलेशे शङ्करं सङ्गमेश्वरे
हिरण्यगर्भे स्वर्लीने ह्य् अविमुक्ते महालये ॥

1.1.3

रौद्रे गोप्रेक्षके चैव श्रेष्ठे पाशुपते तथा
विघ्नेश्वरे च केदारे तथा गोमायुकेश्वरे ॥

1.1.4

हिरण्यगर्भे चन्द्रेशे ईशान्ये च त्रिविष्टपे
शुक्रेश्वरे यथान्यायं नैमिषं प्रययौ मुनिः ॥

1.1.5

नैमिषेयास्तदा दृष्ट्वा नारदं हृष्टमानसाः
समभ्यर्च्यासनं तस्मै तद्योग्यं समकल्पयन् ॥

1.1.6

सो ऽपि हृष्टो मुनिवरैर् दत्तं भेजे तदासनम्
सम्पूज्यमानो मुनिभिः सुखासीनो वरासने ॥

1.1.7

चक्रे कथां विचित्रार्थां लिङ्गमाहात्म्यमाश्रिताम्
एतस्मिन्नेवकाले तु सूतः पौराणिकः स्वयम् ॥

1.1.8

जगाम नैमिषं धीमान् प्रणामार्थं तपस्विनाम्
तस्मै साम च पूजां च यथावच्चक्रिरे तदा ॥

1.1.9

नैमिषेयास्तु शिष्याय कृष्णद्वैपायनस्य तु
अथ तेषां पुराणस्य शुश्रूषा समपद्यत ॥

1.1.10

दृष्ट्वा तम् अतिविश्वस्तं विद्वांसं रोमहर्षणम्
अपृच्छंश्च ततः सूतम् ऋषिं सर्वे तपोधनाः ॥

1.1.11

पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम्
त्वया सूत महाबुद्धे कृष्णद्वैपायनो मुनिः ॥

1.1.12

उपासितः पुराणार्थं लब्धा तस्माच्च संहिता
तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तमम् ॥

1.1.13

पुराणसंहितां दिव्यां लिङ्गमाहात्म्यसंयुताम्
नारदो ऽप्यस्य देवस्य रुद्रस्य परमात्मनः ॥

1.1.14

क्षेत्राण्यासाद्य चाभ्यर्च्य लिङ्गानि मुनिपुङ्गवः
इह संनिहितः श्रीमान् नारदो ब्रह्मणः सुतः ॥

1.1.15

भवभक्तो भवांश्चैव वयं वै नारदस्तथा
अस्याग्रतो मुनेः पुण्यं पुराणं वक्तुमर्हसि ॥

1.1.16

सफलं साधितं सर्वं भवता विदितं भवेत्
एवमुक्तः स हृष्टात्मा सूतः पौराणिकोत्तमः ॥

1.1.17

अभिवाद्याग्रतो धीमान् नारदं ब्रह्मणः सुतम्
नैमिषेयांश्च पुण्यात्मा पुराणं व्याजहार सः ॥

1.1.18

नमस्कृत्य महादेवं ब्रह्माणं च जनार्दनम्
मुनीश्वरं तथा व्यासं वक्तुं लिङ्गं स्मराम्यहम् ॥

1.1.19

शब्दं ब्रह्मतनुं साक्षाच् छब्दब्रह्मप्रकाशकम्
वर्णावयवम् अव्यक्त लक्षणं बहुधा स्थितम् ॥

1.1.20

अकारोकारमकारं स्थूलं सूक्ष्मं परात्परम्
ओङ्काररूपम् ऋग्वक्त्रं समजिह्वासमन्वितम् ॥

1.1.21

यजुर्वेदमहाग्रीवम् अथर्वहृदयं विभुम्
प्रधानपुरुषातीतं प्रलयोत्पत्तिवर्जितम् ॥

1.1.22

तमसा कालरुद्राख्यं रजसा कनकाण्डजम्
सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम् ॥

1.1.23

प्रधानावयवं व्याप्य सप्तधाधिष्ठितं क्रमात्
पुनः षोडशधा चैव षड्विंशकम् अजोद्भवम् ॥

1.1.24

सर्गप्रतिष्ठासंहार लीलार्थं लिङ्गरूपिणम्
प्रणम्य च यथान्यायं वक्ष्ये लिङ्गोद्भवं शुभम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc