भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.18

1.18.1

एकाक्षराय रुद्राय अकारायात्मरूपिणे
उकारायादिदेवाय विद्यादेहाय वै नमः ॥

1.18.2

तृतीयाय मकाराय शिवाय परमात्मने
सूर्याग्निसोमवर्णाय यजमानाय वै नमः ॥

1.18.3

अग्नये रुद्ररूपाय रुद्राणां पतये नमः
शिवाय शिवमन्त्राय सद्योजाताय वेधसे ॥

1.18.4

वामाय वामदेवाय वरदायामृताय ते
अघोरायातिघोराय सद्योजाताय रंहसे ॥

1.18.5

ईशानाय श्मशानाय अतिवेगाय वेगिने
नमो ऽस्तु श्रुतिपादाय ऊर्ध्वलिङ्गाय लिङ्गिने ॥

1.18.6

हेमलिङ्गाय हेमाय वारिलिङ्गाय चांभसे
शिवाय शिवलिङ्गाय व्यापिने व्योमव्यापिने ॥

1.18.7

वायवे वायुवेगाय नमस्ते वायुव्यापिने
तेजसे तेजसां भर्त्रे नमस्तेजो ऽधिव्यापिने ॥

1.18.8

जलाय जलभूताय नमस्ते जलव्यापिने
पृथिव्यै चान्तरिक्षाय पृथिवीव्यापिने नमः ॥

1.18.9

शब्दस्पर्शस्वरूपाय रसगन्धाय गन्धिने
गणाधिपतये तुभ्यं गुह्याद्गुह्यतमाय ते ॥

1.18.10

अनन्ताय विरूपाय अनन्तानामयाय च
शाश्वताय वरिष्ठाय वारिगर्भाय योगिने ॥

1.18.11

संस्थितायाम्भसां मध्ये आवयोर्मध्यवर्चसे
गोप्त्रे हर्त्रे सदा कर्त्रे निधनायेश्वराय च ॥

1.18.12

अचेतनाय चिन्त्याय चेतनायासहारिणे
अरूपाय सुरूपाय अनङ्गायाङ्गहारिणे ॥

1.18.13

भस्मदिग्धशरीराय भानुसोमाग्निहेतवे
श्वेताय श्वेतवर्णाय तुहिनाद्रिचराय च ॥

1.18.14

सुश्वेताय सुवक्त्राय नमः श्वेतशिखाय च
श्वेतास्याय महास्याय नमस्ते श्वेतलोहित ॥

1.18.15

सुताराय विशिष्टाय नमो दुन्दुभिने हर
शतरूपविरूपाय नमः केतुमते सदा ॥

1.18.16

ऋद्धिशोकविशोकाय पिनाकाय कपर्दिने
विपाशाय सुपाशाय नमस्ते पाशनाशिने ॥

1.18.17

सुहोत्राय हविष्याय सुब्रह्मण्याय सूरिणे
सुमुखाय सुवक्त्राय दुर्दमाय दमाय च ॥

1.18.18

कङ्काय कङ्करूपाय कङ्कणीकृतपन्नग
सनकाय नमस्तुभ्यं सनातन सनन्दन ॥

1.18.19

सनत्कुमारसारङ्गम् आरणाय महात्मने
लोकाक्षिणे त्रिधामाय नमो विरजसे सदा ॥

1.18.20

शङ्खपालाय शङ्खाय रजसे तमसे नमः
सारस्वताय मेघाय मेघवाहन ते नमः ॥

1.18.21

सुवाहाय विवाहाय विवादवरदाय च
नमः शिवाय रुद्राय प्रधानाय नमोनमः ॥

1.18.22

त्रिगुणाय नमस्तुभ्यं चतुर्व्यूहात्मने नमः
संसाराय नमस्तुभ्यं नमः संसारहेतवे ॥

1.18.23

मोक्षाय मोक्षरूपाय मोक्षकर्त्रे नमोनमः
आत्मने ऋषये तुभ्यं स्वामिने विष्णवे नमः ॥

1.18.24

नमो भगवते तुभ्यं नागानां पतये नमः
ओङ्काराय नमस्तुभ्यं सर्वज्ञाय नमो नमः ॥

1.18.25

सर्वाय च नमस्तुभ्यं नमो नारायणाय च
नमो हिरण्यगर्भाय आदिदेवाय ते नमः ॥

1.18.26

नमो ऽस्त्वजाय पतये प्रजानां व्यूहहेतवे
महादेवाय देवानाम् ईश्वराय नमो नमः ॥

1.18.27

शर्वाय च नमस्तुभ्यं सत्याय शमनाय च
ब्रह्मणे चैव भूतानां सर्वज्ञाय नमो नमः ॥

1.18.28

महात्मने नमस्तुभ्यं प्रज्ञारूपाय वै नमः
चितये चितिरूपाय स्मृतिरूपाय वै नमः ॥

1.18.29

ज्ञानाय ज्ञानगम्याय नमस्ते संविदे सदा
शिखराय नमस्तुभ्यं नीलकण्ठाय वै नमः ॥

1.18.30

अर्धनारीशरीराय अव्यक्ताय नमोनमः
एकादशविभेदाय स्थाणवे ते नमः सदा ॥

1.18.31

नमः सोमाय सूर्याय भवाय भवहारिणे
यशस्कराय देवाय शङ्करायेश्वराय च ॥

1.18.32

नमो ऽंबिकाधिपतये उमायाः पतये नमः
हिरण्यबाहवे तुभ्यं नमस्ते हेमरेतसे ॥

1.18.33

नीलकेशाय वित्ताय शितिकण्ठाय वै नमः
कपर्दिने नमस्तुभ्यं नागाङ्गाभरणाय च ॥

1.18.34

वृषारूढाय सर्वस्य हर्त्रे कर्त्रे नमोनमः
वीररामातिरामाय रामनाथाय ते विभो ॥

1.18.35

नमो राजाधिराजाय राज्ञामधिगताय ते
नमः पालाधिपतये पालाशाकृन्तते नमः ॥

1.18.36

नमः केयूरभूषाय गोपते ते नमोनमः
नमः श्रीकण्ठनाथाय नमो लिकुचपाणये ॥

1.18.37

भुवनेशाय देवाय वेदशास्त्र नमो ऽस्तु ते
सारङ्गाय नमस्तुभ्यं राजहंसाय ते नमः ॥

1.18.38

कनकाङ्गदहाराय नमः सर्पोपवीतिने
सर्पकुण्डलमालाय कटिसूत्रीकृताहिने ॥

1.18.39

वेदगर्भाय गर्भाय विश्वगर्भाय ते शिव
विररामेति संस्तुत्वा ब्रह्मणा सहितो हरिः ॥

1.18.40

एतत्स्तोत्रवरं पुण्यं सर्वपापप्रणाशनम्
यः पठेच्छ्रावयेद्वापि ब्राह्मणान् वेदपारगान् ॥

1.18.41

स याति ब्रह्मणो लोके पापकर्मरतो ऽपि वै
तस्माज्जपेत्पठेन्नित्यं श्रावयेद्ब्राह्मणाञ्छुभान् ॥

1.18.42

सर्वपापविशुद्ध्यर्थं विष्णुना परिभाषितम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc