लिङ्गपुराण · अध्याय 1.17
एवं संक्षेपतः प्रोक्तः सह्यादीनां समुद्भवः
यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् ॥
स याति ब्रह्मसायुज्यं प्रसादात्परमेष्ठिनः
कथं लिङ्गमभूल्लिङ्गे समभ्यर्च्यः स शङ्करः ॥
किं लिङ्गं कस् तथा लिङ्गी सूत वक्तुमिहार्हसि
एवं देवाश् च ऋषयः प्रणिपत्य पितामहम् ॥
अपृच्छन् भगवंल्लिङ्गं कथमासीदिति स्वयम्
लिङ्गे महेश्वरो रुद्रः समभ्यर्च्यः कथं त्विति ॥
किं लिङ्गं कस् तथा लिङ्गी सो ऽप्याह च पितामहः
प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः ॥
रक्षार्थमंबुधौ मह्यं विष्णोस्त्वासीत् सुरोत्तमाः
वैमानिके गते सर्गे जनलोकं सहर्षिभिः ॥
स्थितिकाले तदा पूर्णे ततः प्रत्याहृते तथा
चतुर्युगसहस्रान्ते सत्यलोकं गते सुराः ॥
विनाधिपत्यं समतां गते ऽन्ते ब्रह्मणो मम
शुष्के च स्थावरे सर्वे त्व् अनावृष्ट्या च सर्वशः ॥
पशवो मानुषा वृक्षाः पिशाचाः पिशिताशनाः
गन्धर्वाद्याः क्रमेणैव निर्दग्धा भानुभानुभिः ॥
एकार्णवे महाघोरे तमोभूते समन्ततः
सुष्वापांभसि योगात्मा निर्मलो निरुपप्लवः ॥
सहस्रशीर्षा विश्वात्मा सहस्राक्षः सहस्रपात्
सहस्रबाहुः सर्वज्ञः सर्वदेवभवोद्भवः ॥
हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम्
सत्त्वेन सर्वगो विष्णुः सर्वात्मत्वे महेश्वरः ॥
कालात्मा कालनाभस्तु शुक्लः कृष्णस्तु निर्गुणः
नारायणो महाबाहुः सर्वात्मा सदसन्मयः ॥
तथाभूतमहं दृष्ट्वा शयानं पङ्कजेक्षणम्
मायया मोहितस्तस्य तमवोचममर्षितः ॥
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम्
तदा हस्तप्रहारेण तीव्रेण स दृढेन तु ॥
प्रबुद्धो ऽहीयशयनात् समासीनः क्षणं वशी
ददर्श निद्राविक्लिन्न नीरजामललोचनः ॥
मामग्रे संस्थितं भासा ध्यासितो भगवान् हरिः
आह चोत्थाय भगवान् हसन्मां मधुरं सकृत् ॥
स्वागतंस्वागतं वत्स पितामह महाद्युते
तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभाः ॥
रजसा बद्धवैरश् च तमवोचं जनार्दनम्
भाषसे वत्स वत्सेति सर्गसंहारकारणम् ॥
माम् इहान्तःस्मितं कृत्वा गुरुः शिष्यमिवानघ
कर्तारं जगतां साक्षात् प्रकृतेश् च प्रवर्तकम् ॥
सनातनमजं विष्णुं विरिञ्चिं विश्वसंभवम्
विश्वात्मानं विधातारं धातारं पङ्कजेक्षणम् ॥
किमर्थं भाषसे मोहाद् वक्तुमर्हसि सत्वरम्
सो ऽपि मामाह जगतां कर्ताहमिति लोकय ॥
भर्ता हर्ता भवान् अङ्गाद् अवतीर्णो ममाव्ययात्
विस्मृतो ऽसि जगन्नाथं नारायणमनामयम् ॥
पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम्
विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम् ॥
तवापराधो नास्त्यत्र मम मायाकृतं त्विदम्
शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्ययम् ॥
कर्ता नेता च हर्ता च न मयास्ति समो विभुः
अहमेव परं ब्रह्म परं तत्त्वं पितामह ॥
अहमेव परं ज्योतिः परमात्मा त्वहं विभुः
यद्यद्दृष्टं श्रुतं सर्वं जगत्यस्मिंश्चराचरम् ॥
तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ
मया सृष्टं पुराव्यक्तं चतुर्विंशतिकं स्वयम् ॥
नित्यान्ता ह्यणवो बद्धाः सृष्टाः क्रोधोद्भवादयः
प्रसादाद्धि भवानण्डान्य् अनेकानीह लीलया ॥
सृष्टा बुद्धिर्मया तस्याम् अहङ्कारस्त्रिधा ततः
तन्मात्रापञ्चकं तस्मान् मनः षष्ठेन्द्रियाणि च ॥
आकाशादीनि भूतानि भौतिकानि च लीलया
इत्युक्तवति तस्मिंश् च मयि चापि वचस् तथा ॥
आवयोश्चाभवद्युद्धं सुघोरं रोमहर्षणम्
प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ॥
एतस्मिन्नन्तरे लिङ्गम् अभवच्चावयोः पुरः
विवादशमनार्थं हि प्रबोधार्थं च भास्वरम् ॥
ज्वालामालासहस्राढ्यं कालानलशतोपमम्
क्षयवृद्धिविनिर्मुक्तम् आदिमध्यान्तवर्जितम् ॥
अनौपम्यमनिर्देश्यम् अव्यक्तं विश्वसंभवम्
तस्य ज्वालासहस्रेण मोहितो भगवान् हरिः ॥
मोहितं प्राह मामत्र परीक्षावो ऽग्निसंभवम्
अधोगमिष्याम्यनल स्तंभस्यानुपमस्य च ॥
भवानूर्ध्वं प्रयत्नेन गन्तुमर्हसि सत्वरम्
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ॥
वाराहमहमप्याशु हंसत्वं प्राप्तवान्सुराः
तदाप्रभृति मामाहुर्ह् अंसं हंसो विराडिति ॥
हंसहंसेति यो ब्रूयान् मां हंसः स भविष्यति
सुश्वेतो ह्यनलाक्षश् च विश्वतः पक्षसंयुतः ॥
मनो ऽनिलजवो भूत्वा गतो ऽहं चोर्ध्वतः सुराः
नारायणो ऽपि विश्वात्मा नीलाञ्जनचयोपमम् ॥
दशयोजनविस्तीर्णं शतयोजनमायतम्
मेरुपर्वतवर्ष्माणं गौरतीक्ष्णाग्रदंष्ट्रिणम् ॥
कालादित्यसमाभासं दीर्घघोणं महास्वरम्
ह्रस्वपादं विचित्राङ्गं जैत्रं दृढम् अनौपमम् ॥
वाराहमसितं रूपम् आस्थाय गतवानधः
एवं वर्षसहस्रं तु त्वरन्विष्णुरधोगतः ॥
नापश्यदल्पमप्यस्य मूलं लिङ्गस्य सूकरः
तावत्कालं गतो ह्यूर्ध्वम् अहमप्यरिसूदनः ॥
सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया
श्रान्तो ह्यदृष्ट्वा तस्यान्तम् अहङ्कारादधोगतः ॥
तथैव भगवान् विष्णुः श्रान्तः संत्रस्तलोचनः
सर्वदेवभवस्तूर्णम् उत्थितः सः महावपुः ॥
समागतो मया सार्धं प्रणिपत्य महामनाः
मायया मोहितः शंभोस् तस्थौ संविग्नमानसः ॥
पृष्ठतः पार्श्वतश्चैव चाग्रतः परमेश्वरम्
प्रणिपत्य मया सार्धं सस्मार किमिदं त्विति ॥
तदा समभवत्तत्र नादो वै शब्दलक्षणः
ओमोमिति सुरश्रेष्ठाः सुव्यक्तः प्लुतलक्षणः ॥
किमिदं त्विति संचिन्त्य मया तिष्ठन्महास्वनम्
लिङ्गस्य दक्षिणे भागे तदापश्यत्सनातनम् ॥
आद्यवर्णमकारं तु उकारं चोत्तरे ततः
मकारं मध्यतश्चैव नादान्तं तस्य चौमिति ॥
सूर्यमण्डलवद्दृष्ट्वा वर्णमाद्यं तु दक्षिणे
उत्तरे पावकप्रख्यम् उकारं पुरुषर्षभः ॥
शीतांशुमण्डलप्रख्यं मकारं मध्यमं तथा
तस्योपरि तदापश्यच् छुद्धस्फटिकवत् प्रभुम् ॥
तुरीयातीतम् अमृतं निष्कलं निरुपप्लवम्
निर्द्वन्द्वं केवलं शून्यं बाह्याभ्यन्तरवर्जितम् ॥
सबाह्याभ्यन्तरं चैव सबाह्याभ्यन्तरस्थितम्
आदिमध्यान्तरहितम् आनन्दस्यापि कारणम् ॥
मात्रास्तिस्रस्त्वर्धमात्रं नादाख्यं ब्रह्मसंज्ञितम्
ऋग्यजुःसामवेदा वै मात्रारूपेण माधवः ॥
वेदशब्देभ्य एवेशं विश्वात्मानमचिन्तयत्
तदाभवदृषिर्वेद ऋषेः सारतमं शुभम् ॥
तेनैव ऋषिणा विष्णुर् ज्ञातवान् परमेश्वरम्
चिन्तया रहितो रुद्रो वाचो यन्मनसा सह ॥
अप्राप्य तं निवर्तन्ते वाच्यस्त्वेकाक्षरेण सः
एकाक्षरेण तद्वाच्यम् ऋतं परमकारणम् ॥
सत्यमानन्दममृतं परं ब्रह्म परात्परम्
एकाक्षरादकाराख्यो भगवान्कनकाण्डजः ॥
एकाक्षरादुकाराख्यो हरिः परमकारणम्
एकाक्षरान्मकाराख्यो भगवान्नीललोहितः ॥
सर्गकर्ता त्वकाराख्यो ह्य् उकाराख्यस्तु मोहकः
मकाराख्यस् तयोर् नित्यम् अनुग्रहकरो ऽभवत् ॥
मकाराख्यो विभुर्बीजी ह्य् अकारो बीजमुच्यते
उकाराख्यो हरिर्योनिः प्रधानपुरुषेश्वरः ॥
बीजी च बीजं तद्योनिर् नादाख्यश् च महेश्वरः
बीजी विभज्य चात्मानं स्वेच्छया तु व्यवस्थितः ॥
अस्य लिङ्गादभूद्बीजम् अकारो बीजिनः प्रभोः
उकारयोनौ निक्षिप्तम् अवर्धत समन्ततः ॥
सौवर्णमभवच्चाण्डम् आवेष्ट्याद्यं तदक्षरम्
अनेकाब्दं तथा चाप्सु दिव्यमण्डं व्यवस्थितम् ॥
ततो वर्षसहस्रान्ते द्विधा कृतमजोद्भवम्
अण्डम् अप्सु स्थितं साक्षाद् आद्याख्येनेश्वरेण तु ॥
तस्याण्डस्य शुभं हैमं कपालं चोर्ध्वसंस्थितम्
जज्ञे यद्द्यौस्तदपरं पृथिवी पञ्चलक्षणा ॥
तस्मादण्डोद्भवो जज्ञे त्व् अकाराख्यश्चतुर्मुखः
स स्रष्टा सर्वलोकानां स एव त्रिविधः प्रभुः ॥
एवमोमोमिति प्रोक्तम् इत्याहुर्यजुषां वराः
यजुषां वचनं श्रुत्वा ऋचः सामानि सादरम् ॥
एवमेव हरे ब्रह्मन्न् इत्याहुः श्रुतयस्तदा
ततो विज्ञाय देवेशं यथावच्छ्रुतिसंभवैः ॥
मन्त्रैर्महेश्वरं देवं तुष्टाव सुमहोदयम्
आवयोः स्तुतिसंतुष्टो लिङ्गे तस्मिन्निरञ्जनः ॥
दिव्यं शब्दमयं रूपम् आस्थाय प्रहसन् स्थितः
अकारस्तस्य मूर्धा तु ललाटं दीर्घमुच्यते ॥
इकारो दक्षिणं नेत्रम् ईकारो वामलोचनम्
उकारो दक्षिणं श्रोत्रम् ऊकारो वाममुच्यते ॥
ऋकारो दक्षिणं तस्य कपोलं परमेष्ठिनः
वामं कपोलम् ॠकारो ऌ ॡ नासापुटे उभे ॥
एकारम् ओष्ठमूर्द्ध्वश् च ऐकारस्त्वधरो विभोः
ओकारश् च तथौकारो दन्तपङ्क्तिद्वयं क्रमात् ॥
अमस्तु तालुनी तस्य देवदेवस्य धीमतः
कादिपञ्चाक्षराण्यस्य पञ्च हस्तानि दक्षिणे ॥
चादिपञ्चाक्षराण्येवं पञ्च हस्तानि वामतः
टादिपञ्चाक्षरं पादस् तादिपञ्चाक्षरं तथा ॥
पकारमुदरं तस्य फकारः पार्श्वमुच्यते
बकारो वामपार्श्वं वै भकारं स्कन्धमस्य तत् ॥
मकारं हृदयं शंभोर् महादेवस्य योगिनः
यकारादिसकारान्तं विभोर्वै सप्त धातवः ॥
हकार आत्मरूपं वै क्षकारः क्रोध उच्यते
तं दृष्ट्वा उमया सार्धं भगवन्तं महेश्वरम् ॥
प्रणम्य भगवान् विष्णुः पुनश्चापश्यदूर्द्ध्वतः
ओङ्कारप्रभवं मन्त्रं कलापञ्चकसंयुतम् ॥
शुद्धस्फटिकसंकाशं सुभाष्टत्रिंशदक्षरम्
मेधाकरम् अभूद्भूयः सर्वधर्मार्थसाधकम् ॥
गायत्रीप्रभवं मन्त्रं हरितं वश्यकारकम्
चतुर्विंशतिवर्णाढ्यं चतुष्कलमनुत्तमम् ॥
अथर्वमसितं मन्त्रं कलाष्टकसमायुतम्
अभिचारिकमत्यर्थं त्रयस्त्रिंशच्छुभाक्षरम् ॥
यजुर्वेदसमायुक्तं पञ्चत्रिंशच्छुभाक्षरम्
कलाष्टकसमायुक्तं सुश्वेतं शान्तिकं तथा ॥
त्रयोदशकलायुक्तं बालाद्यैः सह लोहितम्
सामोद्भवं जगत्याद्यं वृद्धिसंहारकारणम् ॥
वर्णाः षडधिकाः षष्टिर् अस्य मन्त्रवरस्य तु
पञ्च मन्त्रांस् तथा लब्ध्वा जजाप भगवान् हरिः ॥
अथ दृष्ट्वा कलावर्णम् ऋग्यजुःसामरूपिणम्
ईशानमीशमुकुटं पुरुषास्यं पुरातनम् ॥
अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम्
सद्यः पादं महादेवं महाभोगीन्द्रभूषणम् ॥
विश्वतः पादवदनं विश्वतो ऽक्षिकरं शिवम्
ब्रह्मणो ऽधिपतिं सर्ग स्थितिसंहारकारणम् ॥
तुष्टाव पुनरिष्टाभिर् वाग्भिर् वरदमीश्वरम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0