भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.16

1.16.1

अथान्यो ब्रह्मणः कल्पो वर्तते मुनिपुङ्गवाः
विश्वरूप इति ख्यातो नामतः परमाद्भुतः ॥

1.16.2

विनिवृत्ते तु संहारे पुनः सृष्टे चराचरे
ब्रह्मणः पुत्रकामस्य ध्यायतः परमेष्ठिनः ॥

1.16.3

प्रादुर्भूता महानादा विश्वरूपा सरस्वती
विश्वमाल्यांबरधरा विश्वयज्ञोपवीतिनी ॥

1.16.4

विश्वोष्णीषा विश्वगन्धा विश्वमाता महोष्ठिका
तथाविधं स भगवान् ईशानं परमेश्वरम् ॥

1.16.5

शुद्धस्फटिकसंकाशं सर्वाभरणभूषितम्
अथ तं मनसा ध्यात्वा युक्तात्मा वै पितामहः ॥

1.16.6

ववन्दे देवमीशानं सर्वेशं सर्वगं प्रभुम्
ओमीशान नमस्ते ऽस्तु महादेव नमो ऽस्तु ते ॥

1.16.7

नमो ऽस्तु सर्वविद्यानाम् ईशान परमेश्वर
नमो ऽस्तु सर्वभूतानाम् ईशान वृषवाहन ॥

1.16.8

ब्रह्मणो ऽधिपते तुभ्यं ब्रह्मणे ब्रह्मरूपिणे
नमो ब्रह्माधिपतये शिवं मे ऽस्तु सदाशिव ॥

1.16.9

ओङ्कारमूर्ते देवेश सद्योजात नमोनमः
प्रपद्ये त्वां प्रपन्नो ऽस्मि सद्योजाताय वै नमः ॥

1.16.10

अभवे च भवे तुभ्यं तथा नातिभवे नमः
भवोद्भव भवेशान मां भजस्व महाद्युते ॥

1.16.11

वामदेव नमस्तुभ्यं ज्येष्ठाय वरदाय च
नमो रुद्राय कालाय कलनाय नमो नमः ॥

1.16.12

नमो विकरणायैव कालवर्णाय वर्णिने
बलाय बलिनां नित्यं सदा विकरणाय ते ॥

1.16.13

बलप्रमथनायैव बलिने ब्रह्मरूपिणे
सर्वभूतेश्वरेशाय भूतानां दमनाय च ॥

1.16.14

मनोन्मनाय देवाय नमस्तुभ्यं महाद्युते
वामदेवाय वामाय नमस्तुभ्यं महात्मने ॥

1.16.15

ज्येष्ठाय चैव श्रेष्ठाय रुद्राय वरदाय च
कालहन्त्रे नमस्तुभ्यं नमस्तुभ्यं महात्मने ॥

1.16.16

इति स्तवेन देवेशं ननाम वृषभध्वजम्
यः पठेत् सकृदेवेह ब्रह्मलोकं गमिष्यति ॥

1.16.17

श्रावयेद्वा द्विजान् श्राद्धे स याति परमां गतिम्
एवं ध्यानगतं तत्र प्रणमन्तं पितामहम् ॥

1.16.18

उवाच भगवानीशः प्रीतो ऽहं ते किमिच्छसि
ततस्तु प्रणतो भूत्वा वाग्विशुद्धं महेश्वरम् ॥

1.16.19

उवाच भगवान् रुद्रं प्रीतं प्रीतेन चेतसा
यदिदं विश्वरूपं ते विश्वगौः श्रेयसीश्वरी ॥

1.16.20

एतद्वेदितुमिच्छामि यथेयं परमेश्वर
कैषा भगवती देवी चतुष्पादा चतुर्मुखी ॥

1.16.21

चतुःशृङ्गी चतुर्वक्त्रा चतुर्दंष्ट्रा चतुःस्तनी
चतुर्हस्ता चतुर्नेत्रा विश्वरूपा कथं स्मृता ॥

1.16.22

किंनामगोत्रा कस्येयं किंवीर्या चापि कर्मतः
तस्य तद्वचनं श्रुत्वा देवदेवो वृषध्वजः ॥

1.16.23

प्राह देववृषं ब्रह्मा ब्रह्माणं चात्मसंभवम्
रहस्यं सर्वमन्त्राणां पावनं पुष्टिवर्धनम् ॥

1.16.24

शृणुष्वैतत्परं गुह्यम् आदिसर्गे यथा तथा
एवं यो वर्तते कल्पो विश्वरूपस्त्वसौ मतः ॥

1.16.25

ब्रह्मस्थानमिदं चापि यत्र प्राप्तं त्वया प्रभो
त्वत्तः परतरं देव विष्णुना तत्पदं शुभम् ॥

1.16.26

वैकुण्ठेन विशुद्धेन मम वामाङ्गजेन वा
तदाप्रभृति कल्पश् च त्रयस्त्रिंशत्तमो ह्ययम् ॥

1.16.27

शतं शतसहस्राणाम् अतीता ये स्वयंभुवः
पुरस्तात्तव देवेश तच्छृणुष्व महामते ॥

1.16.28

आनन्दस्तु स विज्ञेय आनन्दत्वे व्यवस्थितः
माण्डव्यगोत्रस्तपसा मम पुत्रत्वमागतः ॥

1.16.29

त्वयि योगं च सांख्यं च तपोविद्याविधिक्रियाः
ऋतं सत्यं दया ब्रह्म अहिंसा सन्मतिः क्षमा ॥

1.16.30

ध्यानं ध्येयं दमः शान्तिर् विद्याविद्या मतिर्धृतिः
कान्तिर्नीतिः प्रथा मेधा लज्जा दृष्टिः सरस्वती ॥

1.16.31

तुष्टिः पुष्टिः क्रिया चैव प्रसादश् च प्रतिष्ठिताः
द्वात्रिंशत्सुगुणा ह्येषा द्वात्रिंशाक्षरसंज्ञया ॥

1.16.32

प्रकृतिर्विहिता ब्रह्मंस् त्वत्प्रसूतिर्महेश्वरी
विष्णोर्भगवतश्चापि तथान्येषामपि प्रभो ॥

1.16.33

सैषा भगवती देवी मत्प्रसूतिः प्रतिष्ठिता
चतुर्मुखी जगद्योनिः प्रकृतिर् गौः प्रतिष्ठिता ॥

1.16.34

गौरी माया च विद्या च कृष्णा हैमवतीति च
प्रधानं प्रकृतिश्चैव यामाहुस्तत्त्वचिन्तकाः ॥

1.16.35

अजामेकां लोहितां शुक्लकृष्णां विश्वप्रजां सृजमानां सरूपाम्
अजो ऽहं मां विद्धि तां विश्वरूपं गायत्रीं गां विश्वरूपां हि बुद्ध्या ॥

1.16.36

एवमुक्त्वा महादेवः ससर्ज परमेश्वरः
ततश् च पार्श्वगा देव्याः सर्वरूपकुमारकाः ॥

1.16.37

जटी मुण्डी शिखण्डी च अर्धमुण्डश् च जज्ञिरे
ततस्तेन यथोक्तेन योगेन सुमहौजसः ॥

1.16.38

दिव्यवर्षसहस्रान्ते उपासित्वा महेश्वरम्
धर्मोपदेशमखिलं कृत्वा योगमयं दृढम् ॥

1.16.39

शिष्टाश् च नियतात्मानः प्रविष्टा रुद्रमीश्वरम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc