भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.15

1.15.1

ततस्तस्मिन् गते कल्पे कृष्णवर्णे भयानके
तुष्टाव देवदेवेशं ब्रह्मा तं ब्रह्मरूपिणम् ॥

1.15.2

अनुगृह्य ततस्तुष्टो ब्रह्माणमवदद्धरः
अनेनैव तु रूपेण संहरामि न संशयः ॥

1.15.3

ब्रह्महत्यादिकान् घोरांस् तथान्यानपि पातकान्
हीनांश्चैव महाभाग तथैव विविधान्यपि ॥

1.15.4

उपपातकमप्येवं तथा पापानि सुव्रत
मानसानि सुतीक्ष्णानि वाचिकानि पितामह ॥

1.15.5

कायिकानि सुमिश्राणि तथा प्रासंगिकानि च
बुद्धिपूर्वं कृतान्येव सहजागन्तुकानि च ॥

1.15.6

मातृदेहोत्थितान्येवं पितृदेहे च पातकम्
संहरामि न संदेहः सर्वं पातकजं विभो ॥

1.15.7

लक्षं जप्त्वा ह्यघोरेभ्यो ब्रह्महा मुच्यते प्रभो
तदर्धं वाचिके वत्स तदर्धं मानसे पुनः ॥

1.15.8

चतुर्गुणं बुद्धिपूर्वे क्रोधादष्टगुणं स्मृतम्
वीरहा लक्षमात्रेण भ्रूणहा कोटिमभ्यसेत् ॥

1.15.9

मातृहा नियुतं जप्त्वा शुध्यते नात्र संशयः
गोघ्नश्चैव कृतघ्नश् च स्त्रीघ्नः पापयुतो नरः ॥

1.15.10

अयुताघोरमभ्यस्य मुच्यते नात्र संशयः
सुरापो लक्षमात्रेण बुद्ध्याबुद्ध्यापि वै प्रभो ॥

1.15.11

मुच्यते नात्र संदेहस् तदर्धेन च वारुणीम्
अस्नाताशी सहस्रेण अजपी च तथा द्विजः ॥

1.15.12

अहुताशी सहस्रेण अदाता च विशुध्यति
ब्राह्मणस्वापहर्ता च स्वर्णस्तेयी नराधमः ॥

1.15.13

नियुतं मानसं जप्त्वा मुच्यते नात्र संशयः
गुरुतल्परतो वापि मातृघ्नो वा नराधमः ॥

1.15.14

ब्रह्मघ्नश् च जपेदेवं मानसं वै पितामह
संपर्कात्पापिनां पापं तत्समं परिभाषितम् ॥

1.15.15

तथाप्ययुतमात्रेण पातकाद्वै प्रमुच्यते
संसर्गात्पातकी लक्षं जपेद्वै मानसं धिया ॥

1.15.16

उपांशु यच्चतुर्धा वै वाचिकं चाष्टधा जपेत्
पातकादर्धमेव स्याद् उपपातकिनां स्मृतम् ॥

1.15.17

तदर्धं केवले पापे नात्र कार्या विचारणा
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥

1.15.18

कृत्वा च गुरुतल्पं च पापकृद्ब्राह्मणो यदि
रुद्रगायत्रिया ग्राह्यं गोमूत्रं कापिलं द्विजाः ॥

1.15.19

गन्धद्वारेति तस्या वै गोमयं स्वस्थम् आहरेत्
तेजो ऽसि शुक्तम् इत्याज्यं कापिलं संहरेद्बुधः ॥

1.15.20

आप्यायस्वेति च क्षीरं दधिक्राव्णेति चाहरेत्
गव्यं दधि नवं साक्षात् कापिलं वै पितामह ॥

1.15.21

देवस्य त्वेति मन्त्रेण संग्रहेद्वै कुशोदकम्
एकस्थं हेमपात्रे वा कृत्वाघोरेण राजते ॥

1.15.22

ताम्रे वा पद्मपात्रे वा पालाशे वा दले शुभे
सकूर्चं सर्वरत्नाढ्यं क्षिप्त्वा तत्रैव काञ्चनम् ॥

1.15.23

जपेल्लक्षमघोराख्यं हुत्वा चैव घृतादिभिः
घृतेन चरुणा चैव समिद्भिश् च तिलैस् तथा ॥

1.15.24

यवैश् च व्रीहिभिश्चैव जुहुयाद्वै पृथक्पृथक्
प्रत्येकं सप्तवारं तु द्रव्यालाभे घृतेन तु ॥

1.15.25

हुत्वाघोरेण देवेशं स्नात्वाघोरेण वै द्विजाः
अष्टद्रोणघृतेनैव स्नाप्य पश्चाद्विशोध्य च ॥

1.15.26

अहोरात्रोषितः स्नातः पिबेत्कूर्चं शिवाग्रतः
ब्राह्मं ब्रह्मजपं कुर्याद् आचम्य च यथाविधि ॥

1.15.27

एवं कृत्वा कृतघ्नो ऽपि ब्रह्महा भ्रूणहा तथा
वीरहा गुरुघाती च मित्रविश्वासघातकः ॥

1.15.28

स्तेयी सुवर्णस्तेयी च गुरुतल्परतः सदा
मद्यपो वृषलीसक्तः परदारविधर्षकः ॥

1.15.29

ब्रह्मस्वहा तथा गोघ्नो मातृहा पितृहा तथा
देवप्रच्यावकश्चैव लिङ्गप्रध्वंसकस् तथा ॥

1.15.30

तथान्यानि च पापानि मानसानि द्विजो यदि
वाचिकानि तथान्यानि कायिकानि सहस्रशः ॥

1.15.31

कृत्वा विमुच्यते सद्यो जन्मान्तरशतैरपि
एतद्रहस्यं कथितम् अघोरेशप्रसंगतः ॥

1.15.32

तस्माज्जपेद्द्विजो नित्यं सर्वपापविशुद्धये ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc