भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.14

1.14.1

ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवः
पुनरन्यः प्रवृत्तस्तु कल्पो नाम्नासितस्तु सः ॥

1.14.2

एकार्णवे तदा वृत्ते दिव्ये वर्षसहस्रके
स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥

1.14.3

तस्य चिन्तयमानस्य पुत्रकामस्य वै प्रभोः
कृष्णः समभवद्वर्णो ध्यायतः परमेष्ठिनः ॥

1.14.4

अथापश्यन्महातेजाः प्रादुर्भूतं कुमारकम्
कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥

1.14.5

कृष्णांबरधरोष्णीषं कृष्णयज्ञोपवीतिनम्
कृष्णेन मौलिना युक्तं कृष्णस्रगनुलेपनम् ॥

1.14.6

स तं दृष्ट्वा महात्मानम् अघोरं घोरविक्रमम्
ववन्दे देवदेवेशम् अद्भुतं कृष्णपिङ्गलम् ॥

1.14.7

प्राणायामपरः श्रीमान् हृदि कृत्वा महेश्वरम्
मनसा ध्यानुयुक्तेन प्रपन्नस्तु तमीश्वरम् ॥

1.14.8

अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिन्तयत्
तथा वै ध्यायमानस्य ब्रह्मणः परमेष्ठिनः ॥

1.14.9

प्रददौ दर्शनं देवो ह्य् अघोरो घोरविक्रमः
अथास्य पार्श्वतः कृष्णाः कृष्णस्रगनुलेपनाः ॥

1.14.10

चत्वारस्तु महात्मानः संबभूवुः कुमारकाः
कृष्णः कृष्णशिखश्चैव कृष्णास्यः कृष्णवस्त्रधृक् ॥

1.14.11

ततो वर्षसहस्रं तु योगतः परमेश्वरम्
उपासित्वा महायोगं शिष्येभ्यः प्रददुः पुनः ॥

1.14.12

योगेन योगसम्पन्नाः प्रविश्य मनसा शिवम्
अमलं निर्गुणं स्थानं प्रविष्टा विश्वमीश्वरम् ॥

1.14.13

एवमेतेन योगेन ये ऽपि चान्ये मनीषिणः
चिन्तयन्ति महादेवं गन्तारो रुद्रमव्ययम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc