भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.13

1.13.1

एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः
ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥

1.13.2

ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः
प्रादुर्भूतो महातेजाः कुमारः पीतवस्त्रधृक् ॥

1.13.3

पीतगन्धानुलिप्ताङ्गः पीतमाल्यांबरो युवा
हेमयज्ञोपवीतश् च पीतोष्णीषो महाभुजः ॥

1.13.4

तं दृष्ट्वा ध्यानसंयुक्तो ब्रह्मा लोकमहेश्वरम्
मनसा लोकधातारं प्रपेदे शरणं विभुम् ॥

1.13.5

ततो ध्यानगतस्तत्र ब्रह्मा माहेश्वरीं वराम्
गां विश्वरूपां ददृशे महेश्वरमुखाच्च्युताम् ॥

1.13.6

चतुष्पदां चतुर्वक्त्रां चतुर्हस्तां चतुःस्तनीम्
चतुर्नेत्रां चतुःशृङ्गीं चतुर्दंष्ट्रां चतुर्मुखीम् ॥

1.13.7

द्वात्रिंशद्गुणसंयुक्ताम् ईश्वरीं सर्वतोमुखीम्
स तां दृष्ट्वा महातेजा महादेवीं महेश्वरीम् ॥

1.13.8

पुनराह महादेवः सर्वदेवनमस्कृतः
मतिः स्मृतिर्बुद्धिरिति गायमानः पुनः पुनः ॥

1.13.9

एह्येहीति महादेवि सातिष्ठत्प्राञ्जलिर्विभुम्
विश्वमावृत्य योगेन जगत्सर्वं वशीकुरु ॥

1.13.10

अथ तामाह देवेशो रुद्राणी त्वं भविष्यसि
ब्राह्मणानां हितार्थाय परमार्था भविष्यसि ॥

1.13.11

तथैनां पुत्रकामस्य ध्यायतः परमेष्ठिनः
प्रददौ देवदेवेशः चतुष्पादां जगद्गुरुः ॥

1.13.12

ततस्तां ध्यानयोगेन विदित्वा परमेश्वरीम्
ब्रह्मा लोकगुरोः सो ऽथ प्रतिपेदे महेश्वरीम् ॥

1.13.13

गायत्रीं तु ततो रौद्रीं ध्यात्वा ब्रह्मानुयन्त्रितः
इत्येतां वैदिकीं विद्यां रौद्रीं गायत्रीमीरिताम् ॥

1.13.14

जपित्वा तु महादेवीं ब्रह्मा लोकनमस्कृताम्
प्रपन्नस्तु महादेवं ध्यानयुक्तेन चेतसा ॥

1.13.15

ततस्तस्य महादेवो दिव्ययोगं बहुश्रुतम्
ऐश्वर्यं ज्ञानसंपत्तिं वैराग्यं च ददौ प्रभुः ॥

1.13.16

ततो ऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः
पीतमाल्यांबरधराः पीतस्रगनुलेपनाः ॥

1.13.17

पीताभोष्णीषशिरसः पीतास्याः पीतमूर्धजाः
ततो वर्षसहस्रान्त उषित्वा विमलौजसः ॥

1.13.18

योगात्मानस्तपोह्लादाः ब्राह्मणानां हितैषिणः
धर्मयोगबलोपेता मुनीनां दीर्घसत्त्रिणाम् ॥

1.13.19

उपदिश्य महायोगं प्रविष्टास्ते महेश्वरम्
एवमेतेन विधिना ये प्रपन्ना महेश्वरम् ॥

1.13.20

अन्ये ऽपि नियतात्मानो ध्यानयुक्ता जितेन्द्रियाः
ते सर्वे पापमुत्सृज्य विमला ब्रह्मवर्चसः ॥

1.13.21

प्रविशन्ति महादेवं रुद्रं ते त्वपुनर्भवाः ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc