लिङ्गपुराण · अध्याय 1.12
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः
ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥
ध्यायतः पुत्रकामस्य ब्रह्मणः परमेष्ठिनः
प्रादुर्भूतो महातेजाः कुमारो रक्तभूषणः ॥
रक्तमाल्याम्बरधरो रक्तनेत्रः प्रतापवान्
स तं दृष्ट्वा महात्मानं कुमारं रक्तवाससम् ॥
परं ध्यानं समाश्रित्य बुबुधे देवमीश्वरम्
स तं प्रणम्य भगवान् ब्रह्मा परमयन्त्रितः ॥
वामदेवं ततो ब्रह्मा ब्रह्म वै समचिन्तयत्
तथा स्तुतो महादेवो ब्रह्मणा परमेश्वरः ॥
प्रतीतहृदयः सर्व इदमाह पितामहम्
ध्यायता पुत्रकामेन यस्मात्ते ऽहं पितामह ॥
दृष्टः परमया भक्त्या स्तुतश् च ब्रह्मपूर्वकम्
तस्माद्ध्यानबलं प्राप्य कल्पे कल्पे प्रयत्नतः ॥
वेत्स्यसे मां प्रसंख्यातं लोकधातारमीश्वरम्
ततस्तस्य महात्मानश् चत्वारस्ते कुमारकाः ॥
संबभूवुर्महात्मानो विशुद्धा ब्रह्मवर्चसः
विरजाश् च विबाहुश् च विशोको विश्वभावनः ॥
ब्रह्मण्या ब्रह्मणस्तुल्या वीरा अध्यवसायिनः
रक्तांबरधराः सर्वे रक्तमाल्यानुलेपनाः ॥
रक्तकुङ्कुमलिप्ताङ्गा रक्तभस्मानुलेपनाः
ततो वर्षसहस्रान्ते ब्रह्मत्वे ऽध्यवसायिनः ॥
गृणन्तश् च महात्मानो ब्रह्म तद्वामदैविकम्
अनुग्रहार्थं लोकानां शिष्याणां हितकाम्यया ॥
धर्मोपदेशमखिलं कृत्वा ते ब्रह्मणः प्रियाः
पुनरेव महादेवं प्रविष्टा रुद्रमव्ययम् ॥
ये ऽपि चान्ये द्विजश्रेष्ठा युञ्जाना वाममीश्वरम्
प्रपश्यन्ति महादेवं तद्भक्तास् तत्परायणाः ॥
ते सर्वे पापनिर्मुक्ता विमला ब्रह्मचारिणः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0