भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.11

1.11.1

कथं वै दृष्टवान्ब्रह्मा सद्योजातं महेश्वरम्
वामदेवं महात्मानं पुराणपुरुषोत्तमम् ॥

1.11.2

अघोरं च तथेशानं यथावद्वक्तुमर्हसि
एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः ॥

1.11.3

तस्मिंस्तत्परमं ध्यानं ध्यायतो ब्रह्मणस्तदा
उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ॥

1.11.4

तं दृष्ट्वा पुरुषं श्रीमान् ब्रह्मा वै विश्वतोमुखः
हृदि कृत्वा महात्मानं ब्रह्मरूपिणमीश्वरम् ॥

1.11.5

सद्योजातं ततो ब्रह्मा ध्यानयोगपरो ऽभवत्
ध्यानयोगात्परं ज्ञात्वा ववन्दे देवमीश्वरम् ॥

1.11.6

सद्योजातं ततो ब्रह्म ब्रह्म वै समचिन्तयत्
ततो ऽस्य पार्श्वतः श्वेताः प्रादुर्भूता महायशाः ॥

1.11.7

सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ
शिष्यास्ते वै महात्मानो यैस्तद्ब्रह्म सदावृतम् ॥

1.11.8

तस्याग्रे श्वेतवर्णाभः श्वेतो नाम महामुनिः
विजज्ञे ऽथ महातेजास् तस्माज्जज्ञे हरस्त्वसौ ॥

1.11.9

तत्र ते मुनयः सर्वे सद्योजातं महेश्वरम्
प्रपन्नाः परया भक्त्या गृणन्तो ब्रह्म शाश्वतम् ॥

1.11.10

तस्माद्विश्वेश्वरं देवं ये प्रपद्यन्ति वै द्विजाः
प्राणायामपरा भूत्वा ब्रह्मतत्परमानसाः ॥

1.11.11

ते सर्वे पापनिर्मुक्ता विमला ब्रह्मवर्चसः
विष्णुलोकमतिक्रम्य रुद्रलोकं व्रजन्ति ते ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc