लिङ्गपुराण · अध्याय 1.105
यदा स्थिताः सुरेश्वराः प्रणम्य चैवमीश्वरम्
तदांबिकापतिर् भवः पिनाकधृङ् महेश्वरः ॥
ददौ निरीक्षणं क्षणाद् भवः स तान्सुरोत्तमान्
प्रणेमुरादराद्धरं सुरा मुदार्द्रलोचनाः ॥
भवः सुधामृतोपमैर् निरीक्षणैर्निरीक्षणात्
तदाह भद्रमस्तु वः सुरेश्वरान् महेश्वरः ॥
वरार्थमीश वीक्ष्यते सुरा गृहं गतास्त्विमे
प्रणम्य चाह वाक्पतिः पतिं निरीक्ष्य निर्भयः ॥
सुरेतरादिभिः सदा ह्य् अविघ्नमर्थितो भवान्
समस्तकर्मसिद्धये सुरापकारकारिभिः ॥
ततः प्रसीदताद् भवान् सुविघ्नकर्मकारणम्
सुरापकारकारिणाम् इहैष एव नो वरः ॥
ततस्तदा निशम्य वै पिनाकधृक् सुरेश्वरः
गणेश्वरं सुरेश्वरं वपुर्दधार सः शिवः ॥
गणेश्वराश् च तुष्टुवुः सुरेश्वरा महेश्वरम्
समस्तलोकसंभवं भवार्त्तिहारिणं शुभम् ॥
इभाननाश्रितं वरं त्रिशूलपाशधारिणम्
समस्तलोकसंभवं गजाननं तदांबिका ॥
ददुः पुष्पवर्षं हि सिद्धा मुनीन्द्रास् तथा खेचरा देवसंघास्तदानीम्
तदा तुष्टुवुश्चैकदन्तं सुरेशाः प्रणेमुर्गणेशं महेशं वितन्द्राः ॥
तदा तयोर्विनिर्गतः सुभैरवः स मूर्तिमान्
स्थितो ननर्त बालकः समस्तमङ्गलालयः ॥
विचित्रवस्त्रभूषणैर् अलंकृतो गजाननः
महेश्वरस्य पुत्रको ऽभिवन्द्य तातम् अम्बिकाम् ॥
जातमात्रं सुतं दृष्ट्वा चकार भगवान्भवः
गजाननाय कृत्यांस्तु सर्वान्सर्वेश्वरः स्वयम् ॥
आदाय च कराभ्यां च सुसुखाभ्यां भवः स्वयम्
आलिङ्ग्याघ्राय मूर्धानं महादेवो जगद्गुरुः ॥
तवावतारो दैत्यानां विनाशाय ममात्मज
देवानामुपकारार्थं द्विजानां ब्रह्मवादिनाम् ॥
यज्ञश् च दक्षिणाहीनः कृतो येन महीतले
तस्य धर्मस्य विघ्नं च कुरु स्वर्गपथे स्थितः ॥
अध्यापनं चाध्ययनं व्याख्यानं कर्म एव च
यो ऽन्यायतः करोत्यस्मिन् तस्य प्राणान्सदा हर ॥
वर्णाच्च्युतानां नारीणां नराणां नरपुङ्गव
स्वधर्मरहितानां च प्राणानपहर प्रभो ॥
याः स्त्रियस्त्वां सदा कालं पुरुषाश् च विनायक
यजन्ति तासां तेषां च त्वत्साम्यं दातुमर्हसि ॥
त्वं भक्तान् सर्वयत्नेन रक्ष बालगणेश्वर
यौवनस्थांश् च वृद्धांश् च इहामुत्र च पूजितः ॥
जगत्त्रये ऽत्र सर्वत्र त्वं हि विघ्नगणेश्वरः
संपूज्यो वन्दनीयश् च भविष्यसि न संशयः ॥
मां च नारायणं वापि ब्रह्माणम् अपि पुत्रक
यजन्ति यज्ञैर्वा विप्रैर् अग्रे पूज्यो भविष्यसि ॥
त्वाम् अनभ्यर्च्य कल्याणं श्रौतं स्मार्तं च लौकिकम्
कुरुते तस्य कल्याणम् अकल्याणं भविष्यति ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैश्चैव गजानन
सम्पूज्य सर्वसिद्ध्यर्थं भक्ष्यभोज्यादिभिः शुभैः ॥
त्वां गन्धपुष्पधूपाद्यैर् अनभ्यर्च्य जगत्त्रये
देवैरपि तथान्यैश् च लब्धव्यं नास्ति कुत्रचित् ॥
अभ्यर्चयन्ति ये लोका मानवास्तु विनायकम्
ते चार्चनीयाः शक्राद्यैर् भविष्यन्ति न संशयः ॥
अजं हरिं च मां वापि शक्रमन्यान्सुरानपि
विघ्नैर् बाधयसि त्वां चेन् नार्चयन्ति फलार्थिनः ॥
ससर्ज च तदा विघ्न गणं गणपतिः प्रभुः
गणैः सार्धं नमस्कृत्वाप्य् अतिष्ठत्तस्य चाग्रतः ॥
तदा प्रभृति लोके ऽस्मिन् पूजयन्ति गणेश्वरम्
दैत्यानां धर्मविघ्नं च चकारासौ गणेश्वरः ॥
एतद्वः कथितं सर्वं स्कन्दाग्रजसमुद्भवम्
यः पठेच्छृणुयाद्वापि श्रावयेद्वा सुखीभवेत् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0