लिङ्गपुराण · अध्याय 1.104
कथं विनायको जातो गजवक्त्रो गणेश्वरः
कथं प्रभावस्तस्यैवं सूत वक्तुमिहार्हसि ॥
एतस्मिन्नन्तरे देवाः सेन्द्रोपेन्द्राः समेत्य ते
धर्मविघ्नं तदा कर्तुं दैत्यानामभवन्द्विजाः ॥
असुरा यातुधानाश् च राक्षसाः क्रूरकर्मिणः
तामसाश् च तथा चान्ये राजसाश् च तथा भुवि ॥
अविघ्नं यज्ञदानाद्यैः समभ्यर्च्य महेश्वरम्
ब्रह्माणं च हरिं विप्रा लब्धेप्सितवरा यतः ॥
ततो ऽस्माकं सुरश्रेष्ठाः सदा विजयसंभवः
तेषां ततस्तु विघ्नार्थम् अविघ्नाय दिवौकसाम् ॥
पुत्रार्थं चैव नारीणां नराणां कर्मसिद्धये
विघ्नेशं शङ्करं स्रष्टुं गणपं स्तोतुमर्हथ ॥
इत्युक्त्वान्योन्यमनघं तुष्टुवुः शिवमीश्वरम्
नमः सर्वात्मने तुभ्यं सर्वज्ञाय पिनाकिने ॥
अनघाय विरिञ्चाय देव्याः कार्यार्थदायिने
अकायायार्थकायाय हरेः कायापहारिणे ॥
कायान्तस्थामृताधार मण्डलावस्थिताय ते
कृतादिभेदकालाय कालवेगाय ते नमः ॥
कालाग्निरुद्ररूपाय धर्माद्यष्टपदाय च
कालीविशुद्धदेहाय कालिकाकारणाय ते ॥
कालकण्ठाय मुख्याय वाहनाय वराय ते
अंबिकापतये तुभ्यं हिरण्यपतये नमः ॥
हिरण्यरेतसे चैव नमः शर्वाय शूलिने
कपालदण्डपाशासि चर्माङ्कुशधराय च ॥
पतये हैमवत्याश् च हेमशुक्लाय ते नमः
पीतशुक्लाय रक्षार्थं सुराणां कृष्णवर्त्मने ॥
पञ्चमाय महापञ्च यज्ञिनां फलदाय च
पञ्चास्यफणिहाराय पञ्चाक्षरमयाय ते ॥
पञ्चधा पञ्चकैवल्य देवैरर्चितमूर्तये
पञ्चाक्षरदृशे तुभ्यं परात्परतराय ते ॥
षोडशस्वरवज्राङ्ग वक्त्रायाक्षयरूपिणे
कादिपञ्चकहस्ताय चादिहस्ताय ते नमः ॥
टादिपादाय रुद्राय तादिपादाय ते नमः
पादिमेण्ढ्राय यद्यङ्ग धातुसप्तकधारिणे ॥
शान्तात्मरूपिणे साक्षात् क्षदन्तक्रोधिने नमः
लवरेफहलाङ्गाय निरङ्गाय च ते नमः ॥
सर्वेषाम् एव भूतानां हृदि निःस्वनकारिणे
भ्रुवोर् अन्ते सदा सद्भिर् दृष्टायात्यन्तभानवे ॥
भानुसोमाग्निनेत्राय परमात्मस्वरूपिणे
गुणत्रयोपरिस्थाय तीर्थपादाय ते नमः ॥
तीर्थतत्त्वाय साराय तस्मादपि पराय ते
ऋग्यजुःसामवेदाय ओंकाराय नमो नमः ॥
ओङ्कारे त्रिविधं रूपम् आस्थायोपरिवासिने
पीताय कृष्णवर्णाय रक्तायात्यन्ततेजसे ॥
स्थानपञ्चकसंस्थाय पञ्चधाण्डबहिः क्रमात्
ब्रह्मणे विष्णवे तुभ्यं कुमाराय नमोनमः ॥
अंबायाः परमेशाय सर्वोपरिचराय ते
मूलसूक्ष्मस्वरूपाय स्थूलसूक्ष्माय ते नमः ॥
सर्वसंकल्पशून्याय सर्वस्माद्रक्षिताय ते
आदिमध्यान्तशून्याय चित्संस्थाय नमोनमः ॥
यमाग्निवायुरुद्रांबु सोमशक्रनिशाचरैः
दिङ्मुखे दिङ्मुखे नित्यं सगणैः पूजिताय ते ॥
सर्वेषु सर्वदा सर्व मार्गे सम्पूजिताय ते
रुद्राय रुद्रनीलाय कद्रुद्राय प्रचेतसे
महेश्वराय धीराय नमः साक्षाच्छिवाय ते ॥
मखमदनयमाग्निदक्षयज्ञक्षपणविचित्रविचेष्टितं क्षमस्व ॥
यः पठेत्तु स्तवं भक्त्या शक्राग्निप्रमुखैः सुरैः
कीर्तितं श्रावयेद्विद्वान् स याति परमां गतिम् ॥
मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0