भाषा

ENहिગુ
ग्रंथ पाठ

लिङ्गपुराण · अध्याय 1.103

1.103.1

अथ ब्रह्मा महादेवम् अभिवन्द्य कृताञ्जलिः
उद्वाहः क्रियतां देव इत्युवाच महेश्वरम् ॥

1.103.2

तस्य तद्वचनं श्रुत्वा ब्रह्मणः परमेष्ठिनः
यथेष्टमिति लोकेशं प्राह भूतपतिः प्रभुः ॥

1.103.3

उद्वाहार्थं महेशस्य तत्क्षणादेव सुव्रताः
ब्रह्मणा कल्पितं दिव्यं पुरं रत्नमयं शुभम् ॥

1.103.4

अथादितिर्दितिः साक्षाद् दनुः कद्रुः सुकालिका
पुलोमा सुरसा चैव सिंहिका विनता तथा ॥

1.103.5

सिद्धिर्माया क्रिया दुर्गा देवी साक्षात्सुधा स्वधा
सावित्री वेदमाता च रजनी दक्षिणा द्युतिः ॥

1.103.6

स्वाहा स्वाहामतिर् बुद्धिर् ऋद्धिर् वृद्धिः सरस्वती
राका कुहूः सिनीवाली देवी अनुमती तथा ॥

1.103.7

धरणी धारणी चेला शची नारायणी तथा
एताश्चान्याश् च देवानां मातरः पत्नयस् तथा ॥

1.103.8

उद्वाहः शङ्करस्येति जग्मुः सर्वा मुदान्विताः
उरगा गरुडा यक्षा गन्धर्वाः किन्नरा गणाः ॥

1.103.9

सागरा गिरयो मेघा मासाः संवत्सरास् तथा
वेदा मन्त्रास् तथा यज्ञाः स्तोमा धर्माश् च सर्वशः ॥

1.103.10

हुङ्कारः प्रणवश्चैव प्रतिहाराः सहस्रशः
कोटिरप्सरसो दिव्यास् तासां च परिचारिकाः ॥

1.103.11

याश् च सर्वेषु द्वीपेषु देवलोकेषु निम्नगाः
ताश् च स्त्रीविग्रहाः सर्वाः संजग्मुर्हृष्टमानसाः ॥

1.103.12

गणपाश् च महाभागाः सर्वलोकनमस्कृताः
उद्वाहः शङ्करस्येति तत्राजग्मुर्मुदान्विताः ॥

1.103.13

अभ्ययुः शङ्खवर्णाश् च गणकोट्यो गणेश्वराः
दशभिः केकराक्षश् च विद्युतो ऽष्टाभिर् एव च ॥

1.103.14

चतुःषष्ट्या विशाखाश् च नवभिः पारयात्रिकः
षड्भिः सर्वान्तकः श्रीमान् तथैव विकृताननः ॥

1.103.15

ज्वालाकेशो द्वादशभिः कोटिभिर् गणपुङ्गवः
सप्तभिः समदः श्रीमान् दुन्दुभो ऽष्टाभिर् एव च ॥

1.103.16

पञ्चभिश् च कपालीशः षड्भिः संदारकः शुभः
कोटिकोटिभिर् एवेह गण्डकः कुंभकस् तथा ॥

1.103.17

विष्टम्भो ऽष्टाभिर् एवेह गणपः सर्वसत्तमः
पिप्पलश् च सहस्रेण संनादश् च तथा द्विजाः ॥

1.103.18

आवेष्टनस् तथाष्टाभिः सप्तभिश्चन्द्रतापनः
महाकेशः सहस्रेण कोटीनां गणपो वृतः ॥

1.103.19

कुण्डी द्वादशभिर् वीरस् तथा पर्वतकः शुभः
कालश् च कालकश्चैव महाकालः शतेन वै ॥

1.103.20

आग्निकः शतकोट्या वै कोट्याग्निमुख एव च
आदित्यमूर्धा कोट्या च तथा चैव धनावहः ॥

1.103.21

संनामश् च शतेनैव कुमुदः कोटिभिस् तथा
अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः ॥

1.103.22

काकपाटो ऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः
महाबलश् च नवभिर् मधुपिङ्गश् च पिङ्गलः ॥

1.103.23

नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च
कोटीनां चैव सप्तत्या चतुर्वक्त्रो महाबलः ॥

1.103.24

कोटिकोटिसहस्राणां शतैर् विंशतिभिर् वृताः
तत्राजग्मुस् तथा देवास् ते सर्वे शङ्करं भवम् ॥

1.103.25

भूतकोटिसहस्रेण प्रमथः कोटिभिस्त्रिभिः
वीरभद्रश्चतुःषष्ट्या रोमजाश्चैव कोटिभिः ॥

1.103.26

करणश्चैव विंशत्या नवत्या केवलः शुभः
पञ्चाक्षः शतमन्युश् च मेघमन्युस् तथैव च ॥

1.103.27

काष्ठकूटश् चतुःषष्ट्या सुकेशो वृषभस् तथा
विरूपाक्षश् च भगवान् चतुःषष्ट्या सनातनः ॥

1.103.28

तालुकेतुः षडास्यश् च पञ्चास्यश् च सनातनः
संवर्तकस् तथा चैत्रो लकुलीशः स्वयं प्रभुः ॥

1.103.29

लोकान्तकश् च दीप्तास्यस् तथा दैत्यान्तकः प्रभुः
मृत्युहृत् कालहा कालो मृत्युञ्जयकरस् तथा ॥

1.103.30

विषादो विषदश्चैव विद्युतः कान्तकः प्रभुः
देवो भृङ्गी रिटिः श्रीमान् देवदेवप्रियस् तथा ॥

1.103.31

अशनिर् भासकश् चैव चतुःषष्ट्या सहस्रपात्
एते चान्ये च गणपा असंख्याता महाबलाः ॥

1.103.32

सर्वे सहस्रहस्ताश् च जटामुकुटधारिणः
चन्द्ररेखावतंसाश् च नीलकण्ठास् त्रिलोचनाः ॥

1.103.33

हारकुण्डलकेयूर मुकुटाद्यैर् अलंकृताः
ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः ॥

1.103.34

सूर्यकोटिप्रतीकाशास् तत्राजग्मुर्गणेश्वराः
पातालचारिणश्चैव सर्वलोकनिवासिनः ॥

1.103.35

तुंबरुर्नारदो हाहा हूहूश्चैव तु सामगाः
रत्नान्यादाय वाद्यांश् च तत्राजग्मुस्तदा पुरम् ॥

1.103.36

ऋषयः कृत्स्नशस्तत्र देवगीतास्तपोधनाः
पुण्यान् वैवाहिकान् मन्त्रान् अजपुर् हृष्टमानसाः ॥

1.103.37

तत एवं प्रवृत्ते तु सर्वतश् च समागमे
गिरिजां ताम् अलंकृत्य स्वयमेव शुचिस्मिताम् ॥

1.103.38

पुरं प्रवेशयामास स्वयम् आदाय केशवः
सदस्याह च देवेशं नारायणमजो हरिम् ॥

1.103.39

भवानग्रे समुत्पन्नो भवान्या सह दैवतैः
वामाङ्गादस्य रुद्रस्य दक्षिणाङ्गादहं प्रभो ॥

1.103.40

मन्मूर्तिस्तुहिनाद्रीशो यज्ञार्थं सृष्ट एव हि
एषा हैमवती जज्ञे मायया परमेष्ठिनः ॥

1.103.41

श्रौतस्मार्तप्रवृत्त्यर्थम् उद्वाहार्थम् इहागतः
अतो ऽसौ जगतां धात्री धाता तव ममापि च ॥

1.103.42

अस्य देवस्य रुद्रस्य मूर्तिभिर् विहितं जगत्
क्ष्माबग्निखेन्दुसूर्यात्म पवनात्मा यतो भवः ॥

1.103.43

तथापि तस्मै दातव्या वचनाच्च गिरेर्मम
एषा ह्य् अजा शुक्लकृष्णा लोहिता प्रकृतिर्भवान् ॥

1.103.44

श्रेयो ऽपि शैलराजेन संबन्धो ऽयं तवापि च
तव पाद्मे समुद्भूतः कल्पे नाभ्यंबुजादहम् ॥

1.103.45

मदंशस्यास्य शैलस्य ममापि च गुरुर्भवान्
बाढम् इत्यजम् आहासौ देवदेवो जनार्दनः ॥

1.103.46

देवाश् च मुनयः सर्वे देवदेवश् च शङ्करः
ततश्चोत्थाय विद्वान्सः पद्मनाभः प्रणम्य ताम् ॥

1.103.47

पादौ प्रक्षाल्य देवस्य कराभ्यां कमलेक्षणः
अभ्युक्षद् आत्मनो मूर्ध्नि ब्रह्मणश् च गिरेस् तथा ॥

1.103.48

त्वदीयैषा विवाहार्थं मेनजा ह्यनुजा मम
इत्युक्त्वा सोदकं दत्त्वा देवीं देवेश्वराय ताम् ॥

1.103.49

स्वात्मानमपि देवाय सोदकं प्रददौ हरिः
अथ सर्वे मुनिश्रेष्ठाः सर्ववेदार्थपारगाः ॥

1.103.50

ऊचुर्दाता गृहीता च फलं द्रव्यं विचारतः
एष देवो हरो नूनं मायया हि ततो जगत् ॥

1.103.51

इत्युक्त्वा तं प्रणेमुश् च प्रीतिकण्टकितत्वचः
ससृजुः पुष्पवर्षाणि खेचराः सिद्धचारणाः ॥

1.103.52

देवदुन्दुभयो नेदुर् ननृतुश्चाप्सरोगणाः
वेदाश् च मूर्तिमन्तस्ते प्रणेमुस्तं महेश्वरम् ॥

1.103.53

ब्रह्मणा मुनिभिः सार्धं देवदेवमुमापतिम्
देवो ऽपि देवीमालोक्य सलज्जां हिमशैलजाम् ॥

1.103.54

न तृप्यत्यनवद्याङ्गी सा च देवं वृषध्वजम्
वरदो ऽस्मीति तं प्राह हरिं सो ऽप्याह शङ्करम् ॥

1.103.55

त्वयि भक्तिः प्रसीदेति ब्रह्माख्यां च ददौ तु सः
ततस्तु पुनरेवाह ब्रह्मा विज्ञापयन्प्रभुम् ॥

1.103.56

हविर्जुहोमि वह्नौ तु उपाध्यायपदे स्थितः
ददासि मम यद्याज्ञां कर्तव्यो ह्यकृतो विधिः ॥

1.103.57

तमाह शङ्करो देवं देवदेवो जगत्पतिः
यद्यदिष्टं सुरश्रेष्ठ तत्कुरुष्व यथेप्सितम् ॥

1.103.58

कर्तास्मि वचनं सर्वं देवदेव पितामह
ततः प्रणम्य हृष्टात्मा ब्रह्मा लोकपितामहः ॥

1.103.59

हस्तं देवस्य देव्याश् च युयोज परमं प्रभुः
ज्वलनश् च स्वयं तत्र कृताञ्जलिरुपस्थितः ॥

1.103.60

श्रौतैरेतैर्महामन्त्रैर् मूर्तिमद्भिर् उपस्थितैः
यथोक्तविधिना हुत्वा लाजानपि यथाक्रमम् ॥

1.103.61

आनीतान्विष्णुना विप्रान् सम्पूज्य विविधैर्वरैः
त्रिश् च तं ज्वलनं देवं कारयित्वा प्रदक्षिणम् ॥

1.103.62

मुक्त्वा हस्तसमायोगं सहितैः सर्वदैवतैः
सुरैश् च मानवैः सर्वैः प्रहृष्टेनान्तरात्मना ॥

1.103.63

ननाम भगवान्ब्रह्मा देवदेवमुमापतिम्
ततः पाद्यं तयोर् दत्त्वा शंभोराचमनं तथा ॥

1.103.64

मधुपर्कं तथा गां च प्रणम्य च पुनः शिवम्
अतिष्ठद्भगवान्ब्रह्मा देवैरिन्द्रपुरोगमैः ॥

1.103.65

भृग्वाद्यमुनयः सर्वे चाक्षतैस्तिलतण्डुलैः
सूर्यादयः समभ्यर्च्य तुष्टुवुर्वृषभध्वजम् ॥

1.103.66

शिवः समाप्य देवोक्तं वह्निमारोप्य चात्मनि
तया समागतो रुद्रः सर्वलोकहिताय वै ॥

1.103.67

यः पठेच्छृणुयाद्वापि भवोद्वाहं शुचिस्मितः
श्रावयेद्वा द्विजाञ्छुद्धान् वेदवेदाङ्गपारगान् ॥

1.103.68

स लब्ध्वा गाणपत्यं च भवेन सह मोदते
यत्रायं कीर्त्यते विप्रैस् तावदास्ते तदा भवः ॥

1.103.69

तस्मात् सम्पूज्य विधिवत् कीर्तयेन्नान्यथा द्विजाः
उद्वाहे च द्विजेन्द्राणां क्षत्रियाणां द्विजोत्तमाः ॥

1.103.70

कीर्तनीयमिदं सर्वं भवोद्वाहमनुत्तमम्
कृतोद्वाहस्तदा देव्या हैमवत्या वृषध्वजः ॥

1.103.71

सगणो नन्दिना सार्धं सर्वदेवगणैर्वृतः
पुरीं वाराणसीं दिव्याम् आजगाम महाद्युतिः ॥

1.103.72

अविमुक्ते सुखासीनं प्रणम्य वृषभध्वजम्
अपृच्छत्क्षेत्रमाहात्म्यं भवानी हर्षितानना ॥

1.103.73

अथाहार्धेन्दुतिलकः क्षेत्रमाहात्म्यमुत्तमम्
अविमुक्तस्य माहात्म्यं विस्तराच्छक्यते नहि ॥

1.103.74

वक्तुं मया सुरेशानि ऋषिसंघाभिपूजितम्
किं मया वर्ण्यते देवी ह्य् अविमुक्तफलोदयः ॥

1.103.75

पापिनां यत्र मुक्तिः स्यान् मृतानाम् एकजन्मना
अन्यत्र तु कृतं पापं वाराणस्यां व्यपोहति ॥

1.103.76

वाराणस्यां कृतं पापं पैशाच्यनरकावहम्
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥

1.103.77

न तु शक्रसहस्रत्वं स्वर्गे काशीपुरीं विना
यत्र त्रिविष्टपो देवो यत्र विश्वेश्वरो विभुः ॥

1.103.78

ओंकारेशः कृत्तिवासा मृतानां न पुनर्भवः
उक्त्वा क्षेत्रस्य माहात्म्यं संक्षेपाच्छशिशेखरः ॥

1.103.79

दर्शयामास चोद्यानं परित्यज्य गणेश्वरान्
तत्रैव भगवान् जातो गजवक्त्रो विनायकः ॥

1.103.80

दैत्यानां विघ्नरूपार्थम् अविघ्नाय दिवौकसाम्
एतद्वः कथितं सर्वं कथासर्वस्वमुत्तमम् ॥

1.103.81

यथाश्रुतं मया सर्वं प्रसादाद्वः सुशोभनम् ॥

मूल पाठ: Liṅgapurāṇa, 1-108 · Edition: Bombay : Venkatesvara Steam Press 1906 · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc