भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 5

5.1

इति ॥
इति श्रीललितविस्तरे धर्मालोकमुखपरिवर्तो नाम चतुर्थो ऽध्यायः ॥
स्तर्त् परिवर्त 5
प्रचलपरिवर्तः पञ्चमः ।
इति हि भिक्षवो बोधिसत्त्वस्तां महतीं देवपर्षदमनया धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य क्षमापयित्वा मङ्गल्यां देवपर्षदमामन्त्रयते स्म - गमिष्याम्यहं मार्षा जम्बुद्वीपम् । मया पूर्वबोधिसत्त्वचर्यां चरता सत्त्वाश्चतुर्भिः संग्रहवस्तुभिर्निमन्त्रिता दानेन प्रियवद्येनार्थक्रियया समानार्थतया च । तदयुक्तमेतन्मार्षा मम भवेदकृतज्ञता च, यदहमनुत्तरायां सम्यक्संबोधौ नाभिसंबुद्धेयम् ॥
अथ ते तुषितकायिका देवपुत्रा रुदन्तो बोधिसत्त्वस्य चरणौ परिगृह्यैवमाहुः - इदं खलु सत्पुरुष तुषितभवनं त्वया विहीनं न भ्राजिष्यते । अथ बोधिसत्त्वस्तां महती देवपर्षदमेवमाह - अयं मैत्रेयो बोधिसत्त्वो युष्माकं धर्मं देशयिष्यति । अथ बोधिसत्त्वः स्वकाच्छिरसः पट्टमौलं चावतार्य मैत्रेयस्य बोधिसत्त्वस्य शिरसि प्रतिष्ठापयामास । एवं चावोचत् - ममान्तरेण त्वं सत्पुरुष अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसे ॥
अथ बोधिसत्त्वो मैत्रेयं बोधिसत्त्वं तुषितभवने ऽभिनिषद्य पुनरपि तां महतीं देवपर्षदमामन्त्रयते स्म - कीदृशेनाहं मार्षा रूपेण मातुः कुक्षाववक्रामेयम्? तत्र केचिदाहुः - मार्षा मानवकरूपेण । केचिदाहुः - शक्ररूपेण । केचिदाहुः - ब्रह्मरूपेण । केचिदाहुः - महाराजिकरूपेण । केचिदाहुः - वैश्रवणरूपेण । केचिदाहुः - गन्धर्वरूपेण । केचिदाहुः - किन्नररूपेण । केचिदाहुः - महोरगरूपेण । केचिदाहुः - महेश्वररूपेण । केचिदाहुः - चन्द्ररूपेण । केचिदाहुः - सूर्यरूपेण । केचिदाहुः - गरुडरूपेण । तत्रोग्रतेजो नाम ब्रह्मकायिको देवपुत्रः पूर्वर्षिजन्मच्युतो ऽवैवर्तिको ऽनुत्तरायाः सम्यक्संबोधेः, स एवमाह - यथा ब्राह्मणानां मन्त्रवेदशास्त्रपाठेष्वागच्छति, तादृशेनैव रूपेण बोधिसत्त्वो मातुः कुक्षाववक्रामितव्यः । तत्पुनः कीदृशम्? गजवरमहाप्रमाणः षड्दन्तो हेमजालसंकाशः सुरुचिरः सुरक्तशीर्षः स्फुटितगलितरूपवान् । एतच्छ्रुत्वा रूपं ब्राह्मणवेदशास्त्रतत्त्वज्ञो व्याकर्षितश्च । इतो वै भावी द्वात्रिंशल्लक्षणोपेतः ॥
इति हि भिक्षवो बोधिसत्त्वो जन्मकालमवलोक्य तुषितवरभवनस्थः एवं राज्ञः शुद्धोदनस्य गृहवरे अष्टौ पूर्वनिमित्तान्युपदर्शयति स्म । कतमान्यष्टौ? तद्यथा - व्यपगततृणखाणुकण्टकशर्करकढल्यनिर्मलं सुषिक्तं सुशोधितमनाकुलवाततमोरजोविगतदंशकमक्षिकापतङ्गसरीसृपापगतमवकीर्णकुसुमं समं पाणितलजातं तद्गृहं संस्थितमभूत् । इदं प्रथमं पूर्वनिमित्तं प्रादुरभूत् ॥
ये च हिमवत्पर्वतराजनिवासिनः पत्रगुप्तशुकसारिकाकोकिलहंसक्रोञ्चमयूरचक्रवाककुणालकलविङ्कजीवंजीवकादयो विचित्ररुचिरपक्षा मनोज्ञप्रियभाषिणः शकुनिगणाः, ते आगत्य राज्ञः ( वैद्य 29 ) शुद्धोदनस्य गृहवरे वितर्दिनिर्यूहतोरणगवाक्षहर्म्यकूटागारप्रासादतलेषु स्थित्वा प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकानि रुतान्युदाहरन्ति स्म । इति द्वितीयं पूर्वनिमित्तं प्रादुरभूत् ॥
ये च राज्ञः शुद्धोदनस्यारामरमणीयेषु वनरमणीयेषु चोद्यानरमणीयेषु नानापुष्पफलवृक्षानानर्तुकारिकाः, ते सर्वे संपुष्पिताः संकुसुमिता अभूवन् । इदं तृतीयं पूर्वनिमित्तं प्रादुरभूत् ॥
याश्च राज्ञः शुद्धोदनस्य पुष्करिण्यो जलपरिभोग्यस्थाः, ताः सर्वाः शकटचक्रप्रमाणैरनेककोटीनियुतशतसहस्रपत्रैः पद्मैः संछादिता अभूवन् । इदं चतुर्थं पूर्वनिमित्तं प्रादुरभूत् ॥
ये च राज्ञः शुद्धोदनस्य गृहवरे भाजनविषये सर्पिस्तैलमधुफाणितशर्कराद्यानां ते परिभुज्यमानाः क्षयं न गच्छन्ति स्म । परिपूर्णा एव संदृश्यन्ते स्म । इदं पञ्चमं पूर्वनिमित्तं प्रादूरभूत् ॥
ये च राज्ञः शुद्धोदनस्य गृहवरप्रधाने महत्यन्तःपुरे भेरीमृदङ्गपणवतूणववीणावेणुवल्लकीसंपताडप्रभृतयस्तूर्यभाण्डाः, ते सर्वे स्वयमघट्टिता एव मनोज्ञशब्दं मुञ्चन्ति स्म । इदं षष्ठं पूर्वनिमित्तं प्रादुरभूत् ॥
यानि च राज्ञः शुद्धोदनस्य गृहवरप्रधाने सुवर्णरूप्यमणिमुक्तावैदूर्यशङ्खशिलाप्रवालादीनां रत्नानां भाजनानि, तानि सर्वाणि निरवशेषं विवृतविमलविशुद्धपरिपूर्णान्येवं विरोचन्ते स्म । इदं सप्तमं पूर्वनिमित्तं प्रादुरभूत् ॥
विमलविशुद्धया चन्द्रसूर्यजिह्मीकरणया प्रभया कायचित्तोद्बिल्यसंजनन्या तद्गृहं समन्तादवभासितमभूत् । इदमष्टमं पूर्वनिमित्तं प्रादुरभूत् ॥
माया च देवी स्नातानुलिप्तगात्रा विविधाभरणविष्कम्भितभुजा सुश्लक्ष्णसुलीलवस्त्रवरधारिणी प्रीतिप्रामोद्यप्रसादप्रतिलब्धा सार्धं दशभिः स्त्रीसहस्रैः परिवृता पुरस्कृता राज्ञः शुद्धोदनस्य संगीतिप्रासादे सुखोपविष्टस्यान्तिकमुपसंक्रम्य दक्षिणे पार्श्वे रत्नजालप्रत्युप्ते भद्रासने निषद्य स्मितमुखी व्यपगतभृकुटिका प्रहसितवदना राजानं शुद्धोदनमाभिर्गाथाभिरभाषत् -
साधो शृणुष्व मम पार्थिव भूमिपाला याचामि ते नृपतिरद्य वरं प्रयच्छ ।
अभिप्रायु मह्य यथ चित्तमनःप्रहर्षं तन्मे शृणुष्व भव प्रीतमना उदग्रः

5.2

गृह्णामि देव व्रतशीलवरोपवासं अष्टाङ्गपोषधमहं जगि मैत्रचित्ता ।
प्राणेषु हिंसविरता सद शुद्धभावा प्रेमं यथात्मनि परेषु तथा करोमि

5.3

स्तैन्याद्विवर्जितमना मदलोभहीना कामेषु मिथ्य नृपते न समाचरिष्ये ।
सत्ये स्थिता अपिशुना परुषप्रहीणा संधिप्रलापमशुभं न समाचरिष्ये

5.4

व्यापाददोषखिलमोहमदप्रहीणा सर्वा अभिध्य विगता स्वधनेन तुष्टा ।
सम्यक्प्रयुक्त अकुहानिलया अनिर्ष्यु कर्मा यथा दश इमे कुशला चरिष्ये

5.5

मा त्वं नरेन्द्र मयि कामतृषां कुरुष्व शीलव्रतेष्वभिरताय सुसंवृताय ।
मा ते अपुण्य नृपते भवि दीर्घरात्रमनुमोदया हि मम शीलव्रतोपवासम्

5.6

छन्दो ममेष नृपते प्रविशाद्य शीघ्रं प्रासादहर्म्यशिखरे स्थित धार्तराष्ट्रे ।
सखिभिः सदा परिवृता सुख मोदयेयं पुष्पाभिकीर्णशयने मृदुके सुगन्धे

5.7

न च काञ्चुकीय पुरुषा न पि दारकाश्च न च इस्त्रि प्राकृत ममा पुरतः स्थिहेया ।
नो चामनाप मम रूप न शब्दगन्धान् नान्यत्र इष्टमधुरा शृणुया सुशब्दान्

5.8

ये रोधबन्धनगताः परिमुञ्च सर्वान् द्रव्याम्बराश्च पुरुषान्धनिनः कुरुष्व ।
वस्त्रान्नपान रथयुग्य तथाश्वयानं दद सप्तरात्रिकमिदं जगतः सुखार्थम्

5.9

नो चो विवादकलहा न च रोषवाक्या चान्योन्यमैत्रमनसो हितसौम्यचित्ता ।
अस्मिन् पुरे पुरुष इष्टिक दारकाश्च देवाश्च नन्दनगता सहिता रमन्ताम्

5.10

न च राजदण्डनभटा न तथा कुदण्डा नोत्पीडना न पि च तर्जनताडना वा ।
सर्वान् प्रसन्नमनसो हितमैत्रचित्त वीक्षस्व देव जनतां यथ एकपुत्रम्

5.11

श्रुत्वैव राज वचनं परमं उदग्रं प्राहास्तु सर्वमिदमेव यथा तवेच्छा ।
अभिप्रायु तुभ्य मनसा स्वनुचिन्तितानि यद्याचसे तव वरं तदहं ददामि

5.12

आज्ञाप्यः पार्थिववरः स्वकपारिषद्यां प्रासादश्रेष्ठशिखरे प्रकरोथ ऋद्धिम् ।
पुष्पाभिकीर्णरुचिरं वरधूपगन्धं छत्रापताकसमलंकृततालपंक्तिम्

5.13

विंशत्सहस्र रणशोण्ड विचित्रवर्मां नाराचशूलशरशक्तिगृहीतखङ्गाः ।
परिवारयाथ धृतराज्यमनोज्ञघोषं देव्या ऽभयार्थ करुणास्थित रक्षमाणा

5.14

स्त्रीभिस्तु सा परिवृता यथ देवकन्या स्नातानुलिप्तप्रवराम्बरभूषिताङ्गी ।
तूर्यैः सहस्रमनुगीतमनोज्ञघोषैः आरुह्य देव्युपविवेश मरुत्स्नुषेव

5.15

दिव्यैर्महार्थसुविचित्रसुरत्नपादैः स्वास्तीर्णपुष्पविविधैः शयने मनोज्ञे ।
शयने स्थिता विगलिता मणिरत्नचूडा यथ मिश्रकावनगता खलु देवकन्या

5.16

अथ खलु भिक्षवश्चत्वारो महाराजानः शक्रश्च देवानामिन्द्रः सुयामश्च देवपुत्रः संतुषितश्च सुनिर्मितश्च परनिर्मितवशवर्ती च सार्थवाहश्च मारपुत्रब्रह्मा च सहांपतिर्ब्रह्मोत्तरश्च पुरोहितः सुब्रह्मा च पुरोहितः प्रभाव्यूहाभास्वरश्च महेश्वरश्च शुद्धावासकायिका निष्ठागतश्चाकनिष्ठश्च एतानि चान्यानि चानेकानि देवशतसहस्राणि संनिपत्य अन्योन्यमेवाहुः - अयुक्तमेतन्मार्षा अस्माकं स्यादकृतज्ञता च, यद्वयमेकाकिनमद्वितीयं बोधिसत्त्वमुत्सृजेम । को ऽस्माकं मार्षा उत्सहते ( वैद्य 32 ) बोधिसत्त्वं सततसमितमनुबद्धुमवक्रमणगर्भस्थानजन्मयौवनभूमिदारकक्रीडान्तःपुरनाटकसंदर्शनाभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमारधर्षणबोध्यभिसंबोधनधर्मचक्रप्रवर्तनं यावन्महापरिनिर्वाणाद्धितचित्ततया स्निग्धचित्ततया प्रियचित्ततया मैत्रचित्ततया सौम्यचित्ततया? तस्यां वेलायामिमां गाथामभाषत -
को वोत्सहेत वररूपधरम् अनुबन्धयितुं सततं प्रीतमनाः ।
कः पुण्यतेज यशसा वचसा स्वयमात्मनेच्छति विबद्धयितुम्

5.17

यस्येप्सितं त्रिदशदेवपुरे दिव्यैः सुखैर्हि रमितुं सततम् ।
परमाप्सरोभिरिह कामगुणैः अनुबद्धितां विमलचन्द्रमुखम्

5.18

तथ मिश्रके वनवरे रुचिरे दिव्याकरे रमितु देवपुरे ।
पुष्पोत्करे कनकचूर्णनिमे अनुबन्धतां विमलतेजधरम्

5.19

यस्येप्सितं रमितुः चित्ररथे तथ नन्दने सुरवधूसहितः ।
मान्दारवैः कुसुमपत्रचिते अनुबन्धतामिमु महापुरुषम्

5.20

यामाधिपत्यमथ वा तुषितैरथ वापि प्रार्थयति चेश्वरताम् ।
पूजारहो भवितु सर्वजगे अनुबन्धतामिमु अनन्तयशम्

5.21

यो इच्छति निर्मितपुरे रुचिरे वशवर्तिदेवभवने रमितुम् ।
मनसैव सर्वमनुभोक्तिक्रिया अनुबन्धतामिमु गुणाग्रधरम्

5.22

मारेश्वरो न च प्रदुष्टमना सर्वविधैश्वर्यपारगतः ।
कामेश्वरो वशितपारगतो गच्छत्वसौ हितकरेण सह

5.23

तथ कामधातु समतिक्रमितुं मति यस्य ब्रह्मपुरमावसितुम् ।
चतुरप्रमाणप्रभतेजधरः सो ऽद्यानुबद्धतु महापुरुषम्

5.24

अथ वापि यस्य मनुजेषु मति वरचक्रवर्तिविषये विपुले ।
रत्नाकरमभयसौख्यददम् अनुबन्धतां विपुलपुण्यधरम्

5.25

पृथिवीश्वरस्तथ पि श्रेष्ठिसुतो आढ्यो महाधनु महानिचयः ।
परिवारवान्निहतशत्रुगणो गच्छत्वसौ हितकरेण सह

5.26

रूपं च भोगमपि चेश्वरता कीर्तिर्यशश्च बलता गुणवती ।
आदेयवाक्य भवि ग्राह्यरुतो ब्रह्मेश्वरं समुपयातु विदुम्

5.27

ये दिव्य काम तथ मानुषकां यो इच्छती त्रिभवि सर्वसुखम् ।
ध्याने सुखं च प्रविवेकसुखं धर्मेश्वरं समनुबन्धयताम्

5.28

रागप्रहाणु तथ दोषमपी यो इच्छते तथ किलेशजहम् ।
शान्त प्रशान्त उपशान्तमना सो दान्तचित्तमनुयातु लघुम्

5.29

शैक्षा अशैक्ष तथ प्रत्येकजिना सर्वज्ञज्ञानमनुप्रापुरितुम् ।
दशभिर्बलैर्नदितु सिंह इव गुणसागरं समनुयातु विदुम्

5.30

पिथितुं अपायपथ येष मतिर् विवृतुं च षङ्गतिपथं ह्यमृतम् ।
अष्टाङ्गमार्गगमनेन गतिम् अनुबन्धतां गतिपथान्तकरम्

5.31

यो इच्छते सुगत पूजयितुं धर्मं च तेषु श्रुतिकारुणिके ।
प्राप्तो गुणानपि च संघगतान् गुणसागरं समनुयातु इमम्

5.32

जातिजरामरणदुःखक्षये संसारबन्धन विमोक्षयितुम् ।
चरितुं विशुद्धगमनान्तसमं सो शुद्धसत्त्वमनुबन्धयताम्

5.33

इष्टो मनाप प्रियु सर्वजगे वरलक्षणो वरगुणोपचितः ।
आत्मा परं च तथ मोचयितुं प्रियदर्शनं समुपयातु विदुम्

5.34

शीलं समाधि तथ प्रज्ञमयी गम्भीरदुर्दशदुरोपगमम् ।
यो इच्छते विदु विमुक्ति लभे सो वैद्यराजमनुयातु लघुम्

5.35

एते च अन्य गुण नैकविधा उपपत्ति सौख्य तथ निर्वृतिये ।
सर्वैर्गुणेभि प्रतिपूर्ण सिद्धये सिद्धव्रतं समनुयातु विदुम्

5.36

इति ॥
इदं खलु वचनं श्रुत्वा चतुरशीतिसहस्राणि चातुर्महाराजिकानां देवानां शतसहस्रं त्रयत्रिंशानां शतसहस्रं यामानां शतसहस्रं तुषितानां शतसहस्रं निर्माणरतीनां शतसहस्रं परनिर्मितवशवर्तीनां देवानां षष्टिसहस्राणि मारकायिकानां पूर्वशुभकर्मनिर्यातानां अष्टषष्टिसहस्राणि ब्रह्मकायिकानां बहूनि शतसहस्राणि यावदकनिष्ठानां देवानां संनिपतितान्यभूवन् । अन्ये च ( वैद्य 35 ) भूयः पूर्वदक्षिणपश्चिमोत्तरेभ्यो दिग्भ्यो बहूनि देवशतसहस्राणि संनिपतितान्यभूवन् । तेभ्यो ये उदारतमा देवपुत्रास्ते तां महतीं देवपर्षदं गाथाभिरभ्यभाषन्तः -
हन्त शृणोथ वचनं अमरेश्वराहो अस्मिन् विधानमति यादृशतत्वभूता ।
त्यक्तार्थिकामरति ध्यानसुखं प्रणीतम् अनुबन्धयाम इममुत्तमशुद्धसत्त्वम्

5.37

ओक्रान्तपाद तथ गर्भस्थितं महात्मं पूजारहं अतिशयमभिपूजयामः ।
पुण्यैः सुरक्षितमृषिं परिरक्षिसन्तो यस्यावतार लभते न मनः प्रदुष्टम्

5.38

संगीतितूर्यरचितैश्च सुवाद्यकैश्च वर्णागुणां कथयतो गुणसागरस्य ।
कुर्वाम देवमनुजान प्रहर्षणीयं यं श्रुत्व बोधिवरचित्त जने जनेर्या

5.39

पुष्पाभिकीर्ण नृपतेश्च करोम गेहं कालागुरूत्तमसुधूपितसौम्यगन्धम् ।
यं घ्रात्व देवमनुजाश्च भवन्त्युदग्रा विगतज्वराश्च सुखिनश्च भवन्त्यरोगाः

5.40

मान्दारवैश्च कुसुमैस्तथ पारिजातैश्चन्द्रैः सुचन्द्र तथ स्थालविरोचमानैः ।
पुष्पाभिकीर्ण कपिलाह्वय तं करोम पूजार्थ पूर्वशुभकर्मसमुद्गतस्य

5.41

यावच्च गर्भि वसते त्रिमलैरलिप्तो यावज्जरामरण चान्तकरः प्रसूतः ।
तावत्प्रसन्नमनसो अनुबन्धयाम एषा मतिर्मतिधरस्य करोम पूजाम्

5.43

लाभा सुलब्ध विपुलाः सुरमानुषाणां द्रक्ष्यन्ति जानु इमु सप्तपदां क्रमन्तम् ।
शक्रैश्च ब्रह्मणकरैः परिगृह्यमानं गन्धोदकैः स्नपियमानि सुशुद्धसत्त्वम् ॥ लल्_5.42
( वैद्य 36 ) ॥
यावच्च लोकि अनुवर्तनतां करोति अन्तःपुरे वसति कामकिलेशघाती ।
यावच्च निष्क्रमति राज्यमपास्य सर्वं तावत्प्रसन्नमनसो अनुबन्धयामः

5.44

यावदुपैति महिमण्डि तृणां गृहीत्वा यावच्च बोधि स्पृशते विनिहत्य मारम् ।
अध्येष्टु ब्राह्मणयुतेभि प्रवर्ति चक्रं तावत्करोम विपुलां सुगतस्य पूजाम्

5.45

यद बुद्धकार्यु कृतु भेष्यति त्रिसहस्रे सत्त्वान कोटिनयुता अमृते विनीता ।
निर्वाणमार्गमुपयास्यति शीतिभावं तावन्महाशयमृषिं न जहाम सर्वे

5.46

इति ॥
अथ खलु भिक्षवः कामधात्वीश्वराणां देवकन्यानां बोधिसत्त्वस्य रूपकायपरिनिष्पत्तिं दृष्ट्वा एतदभवत् - कीदृशी त्वसौ कन्या भविष्यति या इमं वरप्रवरशुद्धसत्त्वं धारयिष्यति । ताः कौतूहलजाता वरप्रवरपुष्पधूपदीपगन्धमाल्यविलेपनचूर्णचीवरपरिगृहीता दिव्यमनोमयात्मभावप्रतिलब्धाः पुण्यविपाकाधिस्थानाधिस्थिताः तस्मिन् क्षणे ऽमरपुरभवनादन्तर्हिताः कपिलाह्वये महापुरवरे उद्यानशतसहस्रपरिमण्डिते राज्ञः शुद्धोदनस्य गृहे धृतराष्ट्रे महाप्रासादे अमरभवनप्रकाशे विगलिताम्बरधारिण्यः शुभविमलतेजप्रतिमण्डिता दिव्याभरणस्तम्भितभुजाः शयनवरगतां मायादेवीमेकाङ्गुलिकयोपदर्शयन्त्यो गगनतलगताः परस्परं गाथाभिरभ्यभाषन्त -
अमरपुरगतान अप्सराणां रूप मनोरम दृष्ट्व बोधिसत्त्वे ।
मतिरियमभवत्तदा हि तासां प्रमद नु कीदृश बोधिसत्त्वमाता

5.47

ताश्च सहितपुष्पमाल्यहस्ता उपगमि वेश्म नृपस्य जातकाङ्क्षा ।
पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः

5.48

विगलितवसनाः सलीलरूपाः करतल दक्षिणि अङ्गुलीं प्रणम्य ।
शयनगत विदर्शि मायदेवीं साधु निरीक्षथ रूप मानुषीणाम्

5.49

वयमिह अभिमन्ययाम अन्ये परममनोरम सुरूप अप्सराणाम् ।
इम नृपतिवधूं निरीक्षमाणा जिह्म विपश्यथ दिव्य आत्मभावाम्

5.50

रतिरिव सदृशी गुणान्विता च जननिरियं प्रवराग्रपुद्गलस्य ।
मणिरतन यथा सुभाजनस्थ तथ इव भाजन देवि देवदेवे

5.51

करचरणतलेभि यावदूर्ध्वं अङ्ग महोरम दिव्य आतिरेकाः ।
प्रेक्षतु नयनान्न चास्ति तृप्तिं भूय प्रहर्षति चित्त मानसं च

5.52

शशिरिव गगने विराजते ऽस्या वदनु वरं च विराज गात्रभासा ।
रविरिव विमला शशीव दीप्ता तथ प्रभ निश्चरते ऽस्य आत्मभावात्

5.53

कनकमिव सुजातजातरूपा वर्ण विरोचति देविये तथैव ।
भ्रमरवरनिकाश कुन्तलानी मृदुकसुगन्धश्रवास्य मूर्धजानि

5.54

कमलदलनिभे तथास्य नेत्रे दशनविशुद्ध नभेव ज्योतिषाणि ।
चाप इव तनूदरी विशाला पार्श्व समुद्गत मांसि नास्ति संधिः

5.55

गजभुजसदृशे ऽस्य ऊरुजङ्घे जानु सुजात्वनुपूर्वमुद्गतास्य ।
करतलचरणा समा सुरक्ता व्यक्तमियं खलु देवकन्य नान्या

5.56

एव बहुविधं निरीक्ष्य देवीं कुसुम क्षिपित्व प्रदक्षिणं च कृत्वा ।
सुपिय यशवती जिनस्य माता पुनरपि देवपुरं गता क्षणेन

5.57

अथ चतुरि चतुर्दिशासु पालाः शक्र सुयाम तथैव निर्मिताश्च ।
देवगण कुम्भाण्ड राक्षसाश्च असुर महोरग किन्नराश्च वोचन्

5.58

गच्छत पुरतो नरोत्तमस्य पुरुषवरस्य करोथ रक्षगुप्तिम् ।
मा कुरुत जगे मनःप्रदोषं मा च करोत विहेठ मानुषाणाम्

5.59

यत्र गृहवरस्मि मायदेवी तत्र समग्र सपारिषद्य सर्वे ।
असिधनुशरशक्तिखङ्गहस्ता गगनतलस्मि स्थिता निरीक्षयाथ

5.60

ज्ञात्व च्यवनकाल देवपुत्रा उपगमि मायसकाश हृष्टचित्ता ।
पुष्प तथ विलेपनां गृहीत्वा दशनखअञ्जलिभिर्नमस्यमानाः

5.61

च्यव च्यव हि नरेन्द्र शुद्धसत्त्वा अयु समयो भवतो ऽद्य वादिसिंह ।
कृपकरुण जनित्व सर्वलोके अस्मि अध्येषम धर्मदानहेतोः

5.62

इति ॥
अथ खलु भिक्षवो बोधिसत्त्वस्य च्यवनकालसमये पूर्वस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे । एवं दशभ्यो दिग्भ्यो एकैकस्या दिशो बहूनि बोधिसत्त्वशतसहस्राणि सर्व एकजातिप्रतिबद्धास्तुषितवरभवनवासिनो येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे । चातुर्महाराजकायिकेभ्यो देवेभ्यश्चतुरशीत्यप्सरःशतसहस्राण्येवं त्रयत्रिंशतो यामेभ्यस्तुषितेभ्यो निर्माणरतिभ्यः परनिर्मितवशवर्तिभ्यो देवेभ्यश्चतुरशीत्यप्सरः - शतसहस्राणि नानातूर्यसंगीतिवादितेन येन बोधिसत्त्वस्तेनोपसंक्रामन् बोधिसत्त्वस्य पूजाकर्मणे ॥
अथ खलु बोधिसत्त्वः श्रीगर्भसिंहासने सर्वपुण्यसमुद्गते सर्वदेवनागसंदर्शने महाकूटागारे निषद्य सार्धं बोधिसत्त्वैर्देवनागयक्षकोटिनियुतशतसहस्रैः परिवृतः पुरस्कृतस्तुषितवरभवनात् ( वैद्य 39 ) प्रचलति स्म । प्रचलता च भिक्षवो बोधिसत्त्वेन तथारूपा कायात् प्रभा मुक्ताभूद् यया प्रभया अयं त्रिसाहस्रमहासाहस्रो लोकधातुरेवं विपुलविस्तीर्णो महतोदारेण सुप्रचलितपूर्वेण दिव्यप्रभासमतिक्रान्तेनावभासेन परिस्फुटो ऽभूत् । या अपि ता लोकान्तरिका अघा अघस्फुटा अन्धकारास्तमिस्रा यत्रेमौ चन्द्रसूर्यावेवं महर्द्धिकावेवं महानुभावावेवं महेशाख्यौ आभया आभां वर्णेन वर्णं तेजसा तेजो नाभितपतो नाभिविरोचतः, तत्र ये सत्त्वा उपपन्नास्ते स्वकानपि बाहुप्रसारितान्न पश्यन्ति । तथापि तस्मिन् समये महत उदारस्यावभासस्य प्रादुर्भावो ऽभूत् । ये च तत्र सत्त्वा उपपन्नास्ते तेनैवावभासेन स्फुटाः समाना अन्योन्यं सम्यक् पश्यन्ति स्म । अन्योन्यं संजानन्ते स्म । एवं चाहुः - अन्ये ऽपि किल भोः सत्त्वा इहोपपन्नाः किल भो इति ॥
अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारमष्टादशमहानिमित्तमभूत् । अकम्पत् प्राकम्पत् संप्राकम्पत् । अवेधत् प्रावेधत् संप्रावेधत् । अचलत् प्राचलत् संप्राचलत् । अक्षुभ्यत् प्राक्षुभ्यत् संप्राक्षुभ्यत् । अरणत् प्रारणत् संप्रारणत् । अगर्जत् प्रागर्जत् संप्रागर्जत् । अन्ते ऽवनमति स्म, मध्ये उन्नमति स्म । मध्ये ऽवनमति स्म, अन्ते उन्नमति स्म । पूर्वस्यां दिश्यवनमति स्म, पश्चिमायां दिश्युन्नमति स्म । पश्चिमायां दिश्यवनमति स्म, पूर्वस्यां दिश्युन्नमति स्म । दक्षिणस्यां दिश्यवनमति स्म, उत्तरस्यां दिश्युन्नमति स्म । उत्तरस्यां दिश्यवनमति स्म, दक्षिणस्यां दिश्युन्नमति स्म । तस्मिन् समये हर्षणीयास्तोषणीयाः प्रेमणीयाः प्रसादनीया अवलोकनीयाः प्रह्लादनीया निर्वर्णनीया असेचनीया अप्रतिकूला अनुत्त्रासकराः शब्दाः श्रूयन्ते स्म । न च कस्यचित् सत्त्वस्य तस्मिन् क्षणे विहेठा वा त्रासो वा भयं वा स्तम्भितत्वं वाभूत् । न च भूयः सूर्याचन्द्रमसोर्न ब्रह्मशक्रलोकपालानां तस्मिन् क्षणे प्रभा प्रज्ञायते स्म । सर्वनरकतिर्यग्योनियमलोकोपपन्नाश्च सत्त्वास्तस्मिन् क्षणे विगतदुःखा अभूवन् सर्वसुखसमर्पिताः । न च कस्यचित् सत्त्वस्य रागो बाधते स्म, द्वेषो वा मोहो वा, ईर्ष्या वा मात्सर्यं वा, मानो वा म्रक्षो वा, मदो वा क्रोधो वा, व्यापादो वा परिदाहो वा । सर्वसत्त्वास्तस्मिन् क्षणे मैत्रचित्ता हितचित्ताः परस्परं मातापितृसङ्गिनो ऽभूवन् । अघट्टितानि च दिव्यमानुष्यकाणि तूर्यकोटिनियुतशतसहस्राणि मनोज्ञघोषमुत्सृजन्ति स्म । देवकोटीनयुतशतसहस्राणि पाणिभिरंसैः शिरोभिस्तं महाविमानं वहन्ति स्म । तानि चाप्सरःशतसहस्राणि स्वां स्वां संगीतिं संप्रयुज्य पुरतः पृष्ठतो वामदक्षिणेन च स्थित्वा बोधिसत्त्वं संगीतिरुतस्वरेणाभिस्तुवन्ति स्म -
पूर्वकर्मशुभसंचितस्य ते दीर्घरात्रकुशलोदितस्य ते ।
सत्यधर्मनयशोधितस्य ते पूज अद्य विपुला प्रवर्तते

5.63

पूर्वि तुभ्य बहुकल्पकोटियो दानु दत्तु प्रियपुत्रधीतरा ।
तस्य दानचरितस्य तत्फलं येन दिव्य कुसुमाः प्रवर्षिताः

5.64

आत्ममांस तुलयित्व ते विभो सो ऽभिदत्तु प्रियपक्षिकारणात् ।
तस्य दानचरितस्य तत्फलं प्रेतलोकि लभि पानभोजनम्

5.65

पूर्वि तुभ्य बहुकल्पकोटियो शील रक्षितमखण्डनव्रतम् ।
तस्य शीलचरितस्य तत्फलं येन अक्षण अपाय शोधिताः

5.66

पूर्वि तुभ्य बहुकल्पकोटियो क्षान्ति भावित निदानबोधये ।
तस्य क्षान्तिचरितस्य तत्फलं मैत्रचित्त भुत देवमानुषाः

5.67

पूर्वि तुभ्य बहुकल्पकोटियो वीर्यु भावितमलीनमुत्तमम् ।
तस्य वीर्यचरितस्य तत्फलं येन कायु यथ मेरु शोभते

5.68

पूर्वि तुभ्य बहुकल्पकोटियो ध्यान ध्यायित किलेशध्येषणात् ।
तस्य ध्यानचरितस्य तत्फलं येन क्लेश जगतो न बाधते

5.69

पूर्वि तुभ्य बहुकल्पकोटियो प्रज्ञ भावित किलेशछेदनी ।
तस्य प्रज्ञचरितस्य तत्फलं येन आभ परमा विरोचते

5.70

मैत्रवर्मित किलेशसूदना सर्वसत्त्वकरुणाय उद्गता ।
मोदिप्राप्त परमा उपेक्षका ब्रह्मभूत सुगता नमो ऽस्तु ते

5.71

प्रज्ञ उल्कप्रभ तेजसोद्गता सर्वदोषतममोहशोधका ।
चक्षुभूत त्रिसहस्रिनायका मार्गदेशिक मुने नमो ऽस्तु ते

5.72

ऋद्धिपादवरभिज्ञकोविदा सत्यदर्शि परमार्थि शिक्षिता ।
तीर्ण तारयसि अन्यप्राणिनो दाशभूत सुगता नमो ऽस्तु ते

5.73

सर्वोपायवरभिज्ञकोविदा दर्शयसि च्युतिमच्युतिच्युतिम् ।
लोकधर्मभवनाभिवर्तसे नो च लोकि क्वचि ओपलिप्यसे

5.74

लाभ तेष परमा अचिन्तिया येषु दर्शन श्रवं च एष्यसे ।
किं पुनः शृणुय यो तिधर्मतां श्रद्ध प्रीति विपुला जनेष्यसे

5.75

जिह्म सर्व तुषितालयो भुतो जम्बुद्वीपि पुरि यो उदागतः ।
प्राणिकोटिनयुता अचिन्तियां बोधयिष्यसि प्रसुप्त क्लेशतो

5.76

ऋद्ध स्फीत पुरमद्य भेष्यती देवकोटिनयुतैः समाकुलम् ।
अप्सरोभि तुरियैर्निनादितं राजगेहि मधुरं श्रुणिष्यति

5.77

पुण्यतेजभरिता शुभकर्मणा नारि सा परमरूपौपेता ।
यस्य पुत्र अयमेव समृद्धः तिस्रलोकि अभिभाति शीरिये

5.78

नो भुयो पुरवरस्मि देहिनां लोभदोषकलहा विवादका ।
सर्व मैत्रमनसः सगौरवा भाविनो नरवरस्य तेजसा

5.79

राजवंश नृपतेः प्रवर्धते चक्रवर्तिकुलराजसंभवः ।
भेष्यते कपिलसाह्वयं पुरं रत्नकोषभरितं सुसमृद्धम्

5.80

यक्षराक्षसकुम्भाण्डगुह्यका देवदानवगणाः सैन्द्रकाः ।
ये स्थिता नरवरस्य रक्षकाः तेषु मोक्ष नचिरेण भेष्यते

5.81

पुण्युपार्जितु स्तवित्व नायकं प्रेमगौरवमुपस्थपिस्व ना ।
सर्व बोधि परिणामयामहे क्षिप्र भोम यथ त्वं नरोत्तम

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc