Lalitavistara · अध्याय 4
इति ॥
इति श्रीललितविस्तरे कुलपरिशुद्धिपरिवर्तो नाम तृतीयो ऽध्यायः ॥
स्तर्त् परिवर्त 4
धर्मालोकमुखपरिवर्तश्चतुर्थः ।
इति हि भिक्षवो बोधिसत्त्वो जन्मकुलं व्यवलोक्य उच्चध्वजं नाम तुषितालये महाविमानं चतुःषष्टियोजनान्यायामविस्तारेण यस्मिन् बोधिसत्त्वः संनिषद्य तुषितेभ्यो देवेभ्यो धर्मं देशयति स्म, तं महाविमानं बोधिसत्त्वो ऽभिरोहति स्म । अभिरुह्य च सर्वान् तुषितकायिकान् देवपुत्रानामन्त्रयते स्म - संनिपतन्तु भवन्तः च्युत्याकारप्रयोगं नाम धर्मानुस्मृतिचर्यानुशासनीं पश्चिमं बोधिसत्त्वस्यान्तिकाद्धर्मश्रवणं श्रोष्यथेति । इदं खल्वपि वचनं श्रुत्वा सर्वे तुषितकायिका देवपुत्राः साप्सरोगणास्तस्मिन् विमाने संनिपतन्ति स्म ॥
तत्र बोधिसत्त्वेन चतुर्महाद्वीपके लोकधातुविस्तरप्रमाणो मण्डलमात्राधिष्ठितो ऽभूत्, तावच्चित्रस्तावद्दर्शनीयस्तावत्स्वलंकृतस्तावत्सुरुचिरो यावत्सर्वे कामावचरा देवा रूपावचराश्च देवपुत्राः स्वेषु भवनव्यूहेषु श्मशानसंज्ञामुत्पादयामासुः ॥
तत्र बोधिसत्त्वः स्वपुण्यविपाकनिष्यन्दपरिमण्डिते सिंहासने निषीदति स्म अनेकमणिरत्नपादप्रत्युप्ते अनेकपुष्पसंस्तरसंस्कृते अनेकदिव्यगन्धवासोपवासिते अनेकसारवरगन्धनिर्धूपिते अनेकवर्णदिव्यपुष्पगन्धसंस्तरसंस्कृते अनेकमणिरत्नकृतशतसहस्रप्रभोज्ज्वालिततेजसि अनेकमणिरत्नजालसंछन्ने अनेककिंकिणीजालसमीरिताभिनादिते अनेकरत्नघण्टाशतसहस्ररणितनिर्घोषे अनेकरत्नजालशतसहस्रपरिस्फुटे अनेकरत्नगणशतसहस्रसंछादिते अनेकपट्टशतसहस्राभिप्रलम्बिते अनेकपट्टदाममाल्यशतसहस्रसमलंकृते अनेकाप्सरःशतसहस्रनृत्यगीतवादितपरिगीते अनेकगुणशतसहस्रवर्णिते अनेकलोकपालशतसहस्रानुपालिते अनेकशक्रशतसहस्रनमस्कृते अनेकब्रह्मशतसहस्रप्रणते अनेकबोधिसत्त्वकोटीनियुतशतसहस्रपरिगृहीते दशदिगनेकबुद्धकोटीनियुतशतसहस्रसमन्वाहृते अपरिमितकल्पकोटीनियुतशतसहस्रपारमितासंभारपुण्यविपाकनिष्यन्दसमुद्गते । इति हि भिक्षव एवंगुणसमन्वागते सिंहासने निषद्य बोधिसत्त्वस्तां महतीं देवपर्षदमामन्त्रयते स्म - व्यवलोकयत मार्षा बोधिसत्त्वस्य कायं शतपुण्यलक्षणसमलंकृतम् । व्यवलोकयत पूर्वदक्षिणपश्चिमोत्तरास्वध ऊर्ध्वं समन्ताद्दशदिक्षु अप्रमेयासंख्येयागणनासमतिक्रान्तान् बोधिसत्त्वान्, ये तुषितवरभवनस्थाः सर्वे चरमभवाभिमुखा देवगणपरिवृताश्च्यवनाकारं देवतासंहर्षणं धर्मालोकमुखं संप्रकाशयन्ति । अद्राक्षीत् सा सर्वा देवपर्षद् बोधिसत्त्वाधिस्थानेन तान् बोधिसत्त्वान् । दृष्ट्वा च पुनर्येन बोधिसत्त्वस्तेन साञ्जलिं प्रणम्य पञ्चमण्डलैर्नमस्यन्ति स्म । एवं चोदानमुदानयन्ति ( वैद्य 23 ) स्म - साधु अचिन्त्यमिदं बोधिसत्त्वाधिस्थानं यत्र हि नाम वयं व्यवलोकितमात्रेणेयन्तो बोधिसत्त्वान् पश्याम इति ॥
अथ बोधिसत्त्वः पुनरपि तां महतीं देवपर्षदमामन्त्र्यैवमाह - तेन हि मार्षाः शृणुत च्युत्याकारं देवतासंहर्षणं धर्मालोकमुखं यदेते बोधिसत्त्वा एभ्यो देवपुत्रेभ्यो भाषन्ते । अष्टोत्तरमिदं मार्षा धर्मालोकमुखं शतं यदवश्यं बोधिसत्त्वेन च्यवनकालसमये देवपर्षदि संप्रकाशयितव्यम् । कतमत्तदष्टोत्तरशतम्? यदुत श्रद्धा मार्षा धर्मालोकमुखमभेद्याशयतायै संवर्तते । प्रसादो धर्मालोकमुखमाविलचित्तप्रसादनतायै संवर्तते । प्रामोद्यं धर्मालोकमुखं प्रसिद्ध्यै संवर्तते । प्रीति धर्मालोकमुखं चित्तविशुद्ध्यै संवर्तते । कायसंवरो धर्मालोकमुखं त्रिकायपरिशुद्ध्यै संवर्तते । वाक्संवरो धर्मालोकमुखं चतुर्वाग्दोषपरिवर्जनतायै संवर्तते । मनःसंवरो धर्मालोकमुखमभिध्याव्यापादमिथ्यादृष्टिप्रहाणाय संवर्तते । बुद्धानुस्मृतिधर्मालोकमुखं बुद्धदर्शनविशुद्ध्यै संवर्तते । धर्मानुस्मृति धर्मालोकमुखं धर्मदेशनाविशुद्ध्यै संवर्तते । संघानुस्मृति धर्मालोकमुखं न्यायाक्रमणतायै संवर्तते । त्यागानुस्मृति धर्मालोकमुखं सर्वोपधिप्रतिनिःसर्गायै संवर्तते । शीलानुस्मृति धर्मालोकमुखं प्रणिधानपरिपूर्त्यै संवर्तते । देवतानुस्मृति धर्मालोकमुखमुदारचित्ततायै संवर्तते । मैत्री धर्मालोकमुखं सर्वोपधिकपुण्यक्रियावस्त्वभिभावनतायै संवर्तते । करुणा धर्मालोकमुखविहिंसापरमतायै संवर्तते । मुदिता धर्मालोकमुखं सर्वारत्यपकर्षणतायै संवर्तते । उपेक्षा धर्मालोकमुखं कामजुगुप्सनतायै संवर्तते । अनित्यप्रत्यवेक्षा धर्मालोकमुखं कामरूप्यारूप्यरागसमतिक्रमाय संवर्तते । दुःखप्रत्यवेक्षा धर्मालोकमुखं प्रणिधानसमुच्छेदाय संवर्तते । अनात्मप्रत्यवेक्षा धर्मालोकमुखमात्मानभिनिवेशनतायै संवर्तते । शान्तप्रत्यवेक्षा धर्मालोकमुखमनुनयासंघुक्षणतायै संवर्तते । ह्री धर्मालोकमुखमध्यात्मोपशमाय संवर्तते । अपत्राप्यं धर्मालोकमुखं बहिर्धाप्रशमाय संवर्तते । सत्यं धर्मालोकमुखं देवमनुष्याविसंवादनतायै संवर्तते । भूतं धर्मालोकमुखमात्माविसंवादनतायै संवर्तते । धर्मचरणं धर्मालोकमुखं धर्मप्रतिशरणतायै संवर्तते । त्रिशरणगमनं धर्मालोकमुखं त्र्यपायसमतिक्रमाय संवर्तते । कृतज्ञता धर्मालोकमुखं कृतकुशलमूलाविप्रणाशाय संवर्तते । कृतवेदिता धर्मालोकमुखं पराभिमन्यतायै संवर्तते । आत्मज्ञता धर्मालोकमुखमात्मानुत्कर्षणतायै संवर्तते । सत्त्वज्ञता धर्मालोकमुखं परापत्समानतायै संवर्तते । धर्मज्ञता धर्मालोकमुखं धर्मानुधर्मप्रतिपत्त्यै संवर्तते । कालज्ञता धर्मालोकमुखममोघदर्शनतायै संवर्तते । निहतमानता धर्मालोकमुखं ज्ञानतापरिपूर्त्यै संवर्तते । अप्रतिहतचित्तता धर्मालोकमुखमात्मपरानुरक्षणतायै संवर्तते । अनुपनाहो धर्मालोकमुखमकौकृत्याय संवर्तते । अधिमुक्ति धर्मालोकमुखमविचिकित्सापरमतायै संवर्तते । अशुभप्रत्यवेक्षा धर्मालोकमुखं कामवितर्कप्रहाणाय संवर्तते । अव्यापादो धर्मालोकमुखं व्यापादवितर्कप्रहाणाय संवर्तते । ( वैद्य 24 ) अमोहो धर्मालोकमुखं सर्वाज्ञानविधमनतायै संवर्तते । धर्मार्थिकता धर्मालोकमुखमर्थप्रतिशरणतायै संवर्तते । धर्मकामता धर्मालोकमुखं लोकप्रतिलम्भाय संवर्तते । श्रुतपर्येष्टि धर्मालोकमुखं योनिशोधर्मप्रत्यवेक्षणतायै संवर्तते । सम्यक्प्रयोगो धर्मालोकमुखं सम्यक्प्रतिपत्त्यै संवर्तते । नामरूपपरिज्ञा धर्मालोकमुखं सर्वसङ्गसमतिक्रमाय संवर्तते । हेतुदृष्टिसमुद्धातो धर्मालोकमुखं विद्याधिमुक्तिप्रतिलम्भाय संवर्तते । अनुनयप्रतिघप्रहाणं धर्मालोकमुखमनुन्नामावनामनतायै संवर्तते । स्कन्धकौशल्यं धर्मालोकमुखं दुःखपरिज्ञानतायै संवर्तते । धातुसमता धर्मालोकमुखं समुदयप्रहाणाय संवर्तते । आयतनापकर्षणं धर्मालोकमुखं मार्गभावनतायै संवर्तते । अनुत्पादक्षान्ति धर्मालोकमुखं निरोधसाक्षात्क्रियायै संवर्तते । कायगतानुस्मृति धर्मालोकमुखं कायविवेकतायै संवर्तते । वेदनागतानुस्मृति धर्मालोकमुखं सर्ववेदितप्रतिप्रश्रब्ध्यै संवर्तते । चित्तगतानुस्मृति धर्मालोकमुखं मायोपमचित्तप्रत्यवेक्षणतायै संवर्तते । धर्मगतानुस्मृति धर्मालोकमुखं वितिमिरज्ञानतायै संवर्तते । चत्वारि सम्यक्प्रहाणानि धर्मालोकमुखं सर्वाकुशलधर्मप्रहाणाय सर्वकुशलधर्मपरिपूर्त्यै संवर्तते । चत्वार ऋद्धिपादा धर्मालोकमुखं कायचित्तलघुत्वाय संवर्तते । श्रद्धेन्द्रियं धर्मालोकमुखमपरप्रणेयतायै संवर्तते । वीर्येन्द्रियं धर्मालोकमुखं सुविचिन्तितज्ञानतायै संवर्तते । स्मृतीन्द्रियं धर्मालोकमुखं सुकृतकर्मतायै संवर्तते । समाधीन्द्रियं धर्मालोकमुखं चित्तविमुक्त्यै संवर्तते । प्रज्ञेन्द्रियं धर्मालोकमुखं प्रत्यवेक्षणज्ञानतायै संवर्तते । श्रद्धाबलं धर्मालोकमुखं मारबलसमतिक्रमाय संवर्तते । वीर्यबलं धर्मालोकमुखमवैवर्तिकतायै संवर्तते । स्मृतिबलं धर्मालोकमुखमसंहार्यतायै संवर्तते । समाधिबलं धर्मालोकमुखं सर्ववितर्कप्रहाणाय संवर्तते । प्रज्ञाबलं धर्मालोकमुखमनवमूढ्यतायै संवर्तते । स्मृतिसंबोध्यङ्गं धर्मालोकमुखं यथावद्धर्मप्रजानतायै संवर्तते । धर्मप्रविचयसंबोध्यङ्गं धर्मालोकमुखं सर्वधर्मपरिपूर्त्यै संवर्तते । वीर्यसंबोध्यङ्गं धर्मालोकमुखं सुविचित्रबुद्धितायै संवर्तते । प्रीतिसंबोध्यङ्गं धर्मालोकमुखं समाध्यायिकतायै संवर्तते । प्रश्रब्धिसंबोध्यङ्गं धर्मालोकमुखं कृतकरणीयतायै संवर्तते । समाधिसंबोध्यङ्गं धर्मालोकमुखं समतानुबोधाय संवर्तते । उपेक्षासंबोध्यङ्गं धर्मालोकमुखं सर्वोपपत्तिजुगुप्सनतायै संवर्तते । सम्यग्दृष्टि धर्मालोकमुखं न्यायाक्रमणतायै संवर्तते । सम्यक्संकल्पो धर्मालोकमुखं सर्वकल्पविकल्पपरिकल्पप्रहाणाय संवर्तते । सम्यग्वाग् धर्मालोकमुखं सर्वाक्षररुतघोषवाक्यपथप्रतिश्रुत्कासमतानुबोधनतायै संवर्तते । सम्यक्कर्मान्तो धर्मालोकमुखमकर्माविपाकतायै संवर्तते । सम्यगाजीवो धर्मालोकमुखं सर्वेषणप्रतिप्रश्रब्ध्यै संवर्तते । सम्यग्व्यायामो धर्मालोकमुखं परतीरगमनाय संवर्तते । सम्यक्स्मृति धर्मालोकमुखमस्मृत्यमनसिकारतायै संवर्तते । सम्यक्समाधि धर्मालोकमुखमकोप्यचेतःसमाधिप्रतिलम्भाय संवर्तते । बोधिचित्तं धर्मालोकमुखं त्रिरत्नवंशानुपच्छेदाय संवर्तते । आशयो धर्मालोकमुखं हीनयानास्पृहणतायै संवर्तते । अध्याशयो धर्मालोकमुखमुदारबुद्धधर्माद्यालम्बनतायै (
वैद्य 25 ) संवर्तते । प्रयोगो धर्मालोकमुखं सर्वकुशलधर्मपरिपूर्त्यै संवर्तते । दानपारमिता धर्मालोकमुखं लक्षणानुव्यञ्जनबुद्धक्षत्रपरिशुद्ध्यै मत्सरिसत्त्वपरिपाचनतायै संवर्तते । शीलपारमिता धर्मालोकमुखं सर्वाक्षणापायसमतिक्रमाय दुःशीलसत्त्वपरिपाचनतायै संवर्तते । क्षान्तिपारमिता धर्मालोकमुखं सर्वव्यापादखिलदोषमानमददर्पप्रहाणाय व्यापन्नचित्तसत्त्वपरिपाचनतायै संवर्तते । वीर्यपारमिता धर्मालोकमुखं सर्वकुशलमूलधर्मारङ्गोत्तारणाय कुशीदसत्त्वपरिपाचनतायै संवर्तते । ध्यानपारमिता धर्मालोकमुखं सर्वज्ञानाभिज्ञोत्पादाय विक्षिप्तचित्तसत्त्वपरिपाचनतायै संवर्तते । प्रज्ञापारमिता धर्मालोकमुखमविद्यामोहतमोन्धकारोपलम्भदृष्टिप्रहाणाय दुष्प्रज्ञसत्त्वपरिपाचनतायै संवर्तते । उपायकौशलं धर्मालोकमुखं यथाधिमुक्तसत्त्वेर्यापथसंदर्शनाय सर्वबुद्धधर्माविधमनतायै संवर्तते । चत्वारि संग्रहवस्तूनि धर्मालोकमुखं सत्त्वसंग्रहाय संबोधिप्राप्तस्य च धर्मसंप्रत्यवेक्षणतायै संवर्तते । सत्त्वपरिपाको धर्मालोकमुखमात्मसुखानध्यवसानायापरिखेदतायै संवर्तते । सद्धर्मपरिग्रहो धर्मालोकमुखं सर्वसत्त्वसंक्लेशप्रहाणाय संवर्तते । पुण्यसंभारो धर्मालोकमुखं सर्वसत्त्वोपजीव्यतायै संवर्तते । ज्ञानसंभारो धर्मालोकमुखं दशबलप्रतिपूर्त्यै संवर्तते । शमथसंभारो धर्मालोकमुखं तथागतसमाधिप्रतिलम्भाय संवर्तते । विदर्शनासंभारो धर्मालोकमुखं प्रज्ञाचक्षुःप्रतिलम्भाय संवर्तते । प्रतिसंविदवतारो धर्मालोकमुखं धर्मचक्षुःप्रतिलम्भाय संवर्तते । प्रतिशरणावतारो धर्मालोकमुखं बुद्धचक्षुःपरिशुद्ध्यै संवर्तते । धारणीप्रतिलम्भो धर्मालोकमुखं सर्वबुद्धभाषिताधारणतायै संवर्तते । प्रतिभानप्रतिलम्भो धर्मालोकमुखं सर्वसत्त्वसुभाषितसंतोषणायै संवर्तते । आनुलोमिकधर्मक्षान्ति धर्मालोकमुखं सर्वबुद्धधर्मानुलोमनतायै संवर्तते । अनुत्पत्तिकधर्मक्षान्ति धर्मालोकमुखं व्याकरणप्रतिलम्भाय संवर्तते । अवैवर्तिकभूमि धर्मालोकमुखं सर्वबुद्धधर्मप्रतिपूर्त्यै संवर्तते । भूमेर्भूमिसंक्रान्तिज्ञानं धर्मालोकमुखं सर्वज्ञज्ञानाभिषेकतायै संवर्तते । अभिषेकभूमि धर्मालोकमुखमवक्रमणजन्माभिनिष्क्रमणदुष्करचर्याबोधिमण्डोपसंक्रमणमार - ध्वंसनबोधिविबोधनधर्मचक्रप्रवर्तनमहापरिनिर्वाणसंदर्शनतायै संवर्तते । इदं तन्मार्षा अष्टोत्तरं धर्मालोकमुखशतं यदवश्यं बोधिसत्त्वेन च्यवनकालसमये देवपर्षदि संप्रकाशयितव्यम् ॥
अस्मिन् खलु पुनर्भिक्षवो धर्मालोकमुखपरिवर्ते बोधिसत्त्वेन निर्दिश्यमाने तस्यां देवपर्षदि चतुरशीतेर्देवपुत्रसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पद्यन्ते । द्वात्रिंशतेश्च देवपुत्रसहस्राणां पूर्वपरिकर्मकृतानामनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भो ऽभूत् । षट्त्रिंशतेश्च देवपुत्रनयुतानां विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । सर्वावच्च तुषितवरभवनं जानुमात्रं दिव्यैः पुष्पैः संछादितमभूत् ॥
इति हि भिक्षवो बोधिसत्त्वस्तस्या देवपर्षदो भूयस्या मात्रया संहर्षणार्थं तस्यां वेलायामिमां गाथामभाषत -
तुषितवरभवननिलयाद्यदा च्यवति नायकः पुरुषसिंहः ।
आमन्त्रयते देवान् प्रमादमखिलं विसर्जयत
या काचि रतिवियूहा दिव्या महसा विचिन्तिता श्रीमान् ।
सर्वशुभकर्महेतोः फलमिदं शृणुरस्य कर्मस्य
तस्माद्भवत कृतज्ञा अपूर्वशुभसंचयं क्षपित्वेह ।
मा गच्छत पुनरपायानसाध्वसुखवेदना यत्र
धर्मश्च यः श्रुतो ऽयं ममान्तिके गौरवमुपजनित्वा ।
तत्र प्रतिपद्यथा प्राप्स्यथ नियतं सुखमनन्तम्
सर्वमनित्य कामा अध्रुवं न च शाश्वता अपि न कल्पाः ।
मायामरीचिसदृशा विद्युत्फेनोपमा चपलाः
न च कामगुणरतीभिः तृप्तिर्लवणोदकं यथा पीत्वा ।
ते तृप्त येष प्रज्ञा आर्या लोकोत्तरा विरजा
न तरङ्गतुल्यकल्पाः संगीति च अप्सरोभि संवासः ।
अन्योन्यगमयुक्ता यथैव सामायि कामं च
न च संस्कृते सहाया न मित्र ज्ञातीजनो च परिवाराः ।
अन्यत्र कर्म सुकृतादनुबन्धति पृष्ठतो याति
तस्मात्सहितसमग्रा अन्योन्यं मैत्रचित्त हितचित्ताः ।
धर्मचरणं चरेथाः सुचरितचरणा न तप्यन्ते
बुद्धमनुस्मरेथा धर्मं संघं तथाप्रमादं च ।
श्रुतशीलदाननिरता क्षान्त्या सौरभ्यसंपन्नाः
दुःखमनित्यमनात्मा निरीक्षथा योनिशो इमा धर्मा ।
हेतुप्रत्यययुक्ता वर्तन्ते ऽस्वामिका जडाबुद्ध्या
या काचि ऋद्धि मह्यं पश्यत प्रतिभां च ज्ञानगुणतां च ।
सर्वशुभकर्महेतोः शीलेन श्रुतेन चाप्रमादेन
अनुशिष्यध्वं मह्यं शीलेन श्रुतेन चाप्रमादेन ।
दानदमसंयमेना सत्त्वार्थ हितार्थ मित्रार्थः
न च वाक्यरुतरवेणा शक्याः संपादितुं कुशलधर्मान् ।
प्रतिपत्तिमारभेथा यथा च वदथा तथ करोथा
मा खलु परावकाशं स्वयं यतध्वं सदा प्रयत्नेन ।
न च कश्चि कृत्व ददते न चाप्यकृत्वा भवति सिद्धिः
समनुस्मरथा पूर्वे यद्दुःखं संसारे चिरमनुभूतम् ।
न च निर्वृती विरागो समनुगतो मिथ्य नियतैव
तस्मात्क्षणं लभित्वा मित्रं प्रतिरूप देशवासं च ।
श्रेष्ठं च धर्मश्रवणं शमेथ रागादिकान् क्लेशान्
मानमददर्पविगताः सदार्जवामन्दवाश्च अशठाश्च ।
निर्वाणगतिपरायण युज्यत मार्गाभिसमयाय
मोहकलुषान्धकारं प्रज्ञाप्रदीपेन विधमथा सर्वम् ।
सानुशयदोषजालं विदारयत ज्ञानवज्रेण
किमपि सुबहु वदेयं धर्मं युष्माकमर्थसंयुक्तम् ।
न च तत्रवतिष्ठेथा न तत्र धर्मस्य अपराधः
बोधिर्यथा मि प्राप्ता (स्याद्) धर्मं च प्रवर्षयेदमृतगामिम् ।
पुनरपि विशुद्धचित्ता उपेथ वरधर्मश्रवणाय
मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0