भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 17

17.1

॥ इति श्रीललितविस्तरे बिम्बिसारोपसंक्रमणपरिवर्तो नाम षोडशमो ऽध्यायः ॥
स्तर्त् परिवर्त 17
दुष्करचर्यापरिवर्तः सप्तदशः ।
तेन खलु पुनर्भिक्षवः समयेन रुद्रको नाम रामपुत्रो राजगृहं नाम महानगरमुपनिसृत्य विहरति स्म महता शिष्यगणेन सार्धं सप्तभिः शिष्यशतैः । स तेभ्यो नैवसंज्ञानासंज्ञायतनसहव्रतायै धर्मं देशयति स्म । अद्राक्षीत् खल्वपि भिक्षवो बोधिसत्त्वो रुद्रकं रामपुत्रं संघेगणिनं गणाचार्यं ज्ञातमभीप्सितं बहुजनपूजितं पण्डितसंमतम् । दृष्ट्वा चास्यैतदभूत् - अयं खल्वपि रुद्रको रामपुत्रः संघेगणी गणाचार्यः ज्ञातो ऽभीप्सितो बहुजनपूजितः पण्डितसंमतः । सचेदहमस्यान्तिकमुपसंक्रम्य व्रततपमारभेयम्, नैष ममान्तिके विशिष्टसंज्ञो भवेन्नापि प्रत्यक्षज्ञानेन ज्ञातो भवेन्नापि संस्कृतानां साश्रवानां सोपादानानां ध्यानसमाधिसमापत्तीनां दोषो दत्तो भवेत् । यन्न्वहं तथारुपमुपायमुपसंदर्शयेयं येनैते च प्रत्यक्षा भवेयुः । ध्यानगोचराणां च समापत्त्यारम्बणानां लौकिकसमाधीनामनिःसरणता दर्शिता भवेत् । यन्न्वहं रुद्रकस्य रामपुत्रस्य सकाशमुपसंक्रम्य स्वसमाधिगुणविशेषोद्भावनार्थं शिष्यत्वमभ्युपगम्य संस्कृतसमाधीनामसारतामुपदर्शयेयमिति ॥
अथ खलु भिक्षवो बोधिसत्त्व इदमर्थवशमधिकृत्य येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेतदवोचत् - कस्ते मार्ष शास्ता, कस्य वा धर्मं देशितमाजानासि?
इत्येवमुक्ते रुद्रको रामपुत्रो बोधिसत्त्वमेवमाह - न मे मार्ष कश्चिच्छास्ता । अपि तु खलु पुनः स्वयमेव मयेदं सम्यगधिगतमिति । बोधिसत्त्व आह - किं भवताधिगतम्? आह - नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः । बोधिसत्त्व आह - लभेमहि वयं भवतः सकाशादववादानुशासनीयस्य समाधेर्मार्गम्? आह - वाढमस्त्विति । यावद्दत्तो ऽववादो ऽभूत् ॥
ततो बोधिसत्त्व एकान्तं गत्वा पर्यङ्कमाभुज्योपविशति स्म । समनन्तरोपविष्टस्य च बोधिसत्त्वस्य पुण्यविशेषेण च ज्ञानविशेषेण च पूर्वसुचरितचर्याफलविशेषेण च सर्वसमाधिपरिचयविशेषेण च ध्यानप्रमुखानि सर्वाणि लौकिकानि लोकोत्तराणि समापत्तिशतान्यामुखीभवन्ति स्म साकाराणि सोद्देशानि यथापि तच्चित्तवशवर्तित्वात् । अथ च बोधिसत्त्वः स्मृतः संप्रजानन् उत्थायासनाद्येन रुद्रको रामपुत्रस्तेनोपसंक्रामत् । उपसंक्रम्य रुद्रकं रामपुत्रमेवमाह अस्त्यन्यो ऽपि मार्ष कश्चिदुत्तरे नैवसंज्ञानासंज्ञायतनसमापत्तेर्मार्गः? सो ऽब्रवीत् - नास्तीति ॥
ततो बोधिसत्त्वस्यैतदभवत् - न खलु रुद्रकस्यैवास्ति श्रद्धा वीर्यं स्मृतिः प्रज्ञा । ममाप्यस्ति श्रद्धा वीर्यं स्मृतिः समाधिः प्रज्ञा ।
अथ बोधिसत्त्वो रुद्रकं रामपुत्रमेवमाह - मयाप्येष मार्ष धर्मो ऽधिगतो यत्र त्वं निर्यातः । सो ऽवोचत् - तेन ह्यागच्छ, त्वं चाहं चेमं गणं परिहराव इति । समानार्थे च बोधिसत्त्वं ( वैद्य 181 ) स्थापयति स्म आचार्यस्थाने च । बोधिसत्त्व आह - नैष मार्ष मार्गो निर्वृतये न विरागाय न निरोधाय नोपशमाय नाभिज्ञायै न संबोधये न श्रामणाय न ब्राह्मणाय न निर्वाणाय संवर्तते ॥
इति हि भिक्षवो बोधिसत्त्वो रुद्रकस्य रामपुत्रस्य सशिष्यस्यावर्जनीकृत्व यावदलमिति कृत्वा प्रक्रामत् - अलं ममानेनेति ॥
तेन खलु पुनः समयेन पञ्चका भद्रवर्गीया रुद्रके रामपुत्रे ब्रह्मचर्यं चरन्ति स्म । तेषामेतदभूत् - यस्य खलु वयमर्थाय दीर्घरात्रं घटामहे उद्युज्यामहे, न च शक्नुमो ऽन्तं वा पर्यन्तं चाधिगन्तुम्, तच्छ्रमणेन गौतमेनाल्पककृच्छणाधिगन्तुं साक्षात्कृतम् । तच्चास्य न रोचते । तथा चोत्तरि पर्येषते । निःसंशयमेष शास्ता लोके भविष्यति । यच्चैष साक्षात्करिष्यति, तदस्मभ्यं संविभक्ष्यतीति । एवं विमृष्य पञ्चका भद्रवर्गीया रुद्रकरामपुत्रसकाशादपक्रम्य बोधिसत्त्वमन्वबध्नन् ॥
इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं राजगृहे विहृत्य मगधेषु चारिकां प्रक्रामत् सार्धं पञ्चकैर्भद्रवर्गीयैः ॥
तेन खलु पुनः समयेनान्तराच्च राजगृहस्य अन्तराच्च गयाया यो ऽन्यतमो गण उत्सवं करोति स्म, तेन च गणेन बोधिसत्त्वो ऽभिनिमन्त्रितो ऽभूत् वासेन भक्तेन च सार्धं पञ्चकैर्भद्रवर्गीयैः ॥
अथ खलु भिक्षवो बोधिसत्त्वो मगधेषु चर्यां चरन् येन मागधकानां गया तामनुसृत्य तामनुप्राप्तो ऽभूत् । तत्र खल्वपि भिक्षवो बोधिसत्त्वः प्रहाणार्थी विहरति स्म गयाशीर्षे पर्वते । तत्रास्य विहरतस्तिस्र उपमाः प्रतिभान्ति स्म अश्रुतपूर्वा अनभिज्ञातपूर्वाः । कतमास्तिस्रः? ये केचित्ते खल्वपि श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया विहरन्ति स्म । कामेभ्यो ऽनवकृष्टचित्ताश्च विहरन्ति स्म । यापि चैषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानता, साप्यनुपशान्ता । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ते । अथ तर्हि अभव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिं पर्येषमाणः स आर्द्रं काष्ठमादाय आर्द्रां चोत्तरारणीमुदके प्रक्षिप्य मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे श्रमणब्राह्मणाः कामेभ्यो ऽनवकृष्टकाया अनवकृष्टचित्ताश्च विहरन्ति, याप्येषां कामेषु नन्दिः कामेषु रागः कामेषु छन्दः कामेषु तृष्णा कामेषु पिपासा कामेषु मूर्छा कामेषु परिदाहः कामेष्वध्यवसानं तदप्यनुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ तर्हि अभव्या एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं बोधिसत्त्वस्य प्रथमा उपमा प्रतिभाति स्म ॥
भूयश्चास्यैतदभूत् - य इमे श्रमणब्राह्मणाः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दीति सर्वं कर्तव्यं यावज्ज्योतिं पर्येषत इति । स आर्द्रं काष्ठमादाय स्थले स्थापयित्वा आर्द्रां चोत्तरारणिं मथ्नीयात्, अभव्यो ऽसावग्निमुत्पादयितुम् । एवमेव ये इमे श्रमणब्राह्मणा इति सर्वं पूर्ववत्कार्यं यावदभव्या उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं द्वितीया उपमा प्रतिभाति स्म पूर्वमश्रुता चाविज्ञाता च ॥

पुनरपरं य इमे श्रमणब्राह्मणा भवन्तः कामेभ्यो व्यपकृष्टकायचित्ता विहरन्ति, यापि तेषां कामेषु नन्दिः । इति सर्वं पेयालम् । तदप्येषामुपशान्तम् । किं चापि ते आत्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकां वेदनां वेदयन्ते । अथ खलु पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । तद्यथापि नाम इह स्यात्पुरुषो ऽग्न्यर्थी ज्योतिर्गवेषी ज्योतिः पर्येषमाणः, स शुष्कं काष्ठमादाय शुष्कां चोत्तरारणिं स्थले प्रतिष्ठाप्य मथ्नीयात्, स भव्यो ऽग्निमभिनिर्वर्तयितुं तेजः प्रादुष्कर्तुम् । एवमेव य इमे भवन्तः श्रमणब्राह्मणा इति सर्वं यावद्वेदनां वेदयन्त इति । अथ च पुनर्भव्या एव ते उत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् । इयं तृतीया उपमा प्रतिभाति स्म अश्रुतपूर्वा च अविज्ञातपूर्वा च ॥
अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - अहं खल्वेतर्हि कामेभ्यो व्यपकृष्टकायो विहरामि व्यपकृष्टचित्तश्च । यापि मे कामेषु नन्दीति सर्वं यावत्तदपि मे उपशान्तम् । किं चापि अहमात्मोपक्रमिकां शरीरोपतापिकां दुःखामिति पेयालं यावद्वेदनां वेद्मि । अथ खल्वहं भव्य एवोत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम् ॥
इति हि भिक्षवो बोधिसत्त्वो यथाभिप्रेतं गयायां विहृत्य गयाशीर्षे पर्वते जङ्गाविहारमनुचंक्रम्यमाणो येनोरुबिल्वा सेनापतिग्रामकस्तदनुसृतस्तदनुप्राप्तो ऽभूत् । तत्राद्राक्षीन्नदीं नैरञ्जनामच्छोदकां सूपतीर्थां प्रासादिकैश्च द्रुमगुल्मैरलंकृतां समन्ततश्च गोचरग्रामाम् । तत्र खल्वपि बोधिसत्त्वस्य मनो ऽतीव प्रसन्नमभूत् - समो बतायं भूमिप्रदेशो रमणीयः प्रतिसंलयनानुरूपः । पर्याप्तमिदं प्रहाणार्थिककुलपुत्रस्य । अहं च प्रहाणार्थी । यन्न्वहमिहैव तिष्ठेयम् ॥
इति हि भिक्षवो बोधिसत्त्वस्यैतदभूत् - पञ्चकषायकाले ऽहमिह जम्बुद्वीपे ऽवतीर्णो हीनाधिमुक्तिकेषु सत्त्वेष्वाकीर्णतीर्थ्यवर्गेषु नानादृष्टिप्रस्कन्नेषु कायपिण्डग्राहाभिनिविष्टेषु नानाविधैश्चातापनपरितापनैः कायशुद्धिं पर्येषन्ते, प्रज्ञापयन्ति च संमूढाः । तद्यथा - मन्त्रविचारकैर्हस्तप्रलेहकैर्नयाचनकैरनामन्त्रणकैरनेकमूलिकैरमत्स्यमांसकैरवार्षिकैः सुरातुषोदकर्वजनैरेकत्रिपञ्चसप्तकुलभिक्षाग्रहणैर्मूलफलशैवालककुशपत्रगोमयगोमूत्रपायसदधिसर्पिः फाणितामपिष्टकमभक्षणपानैः सारसिकापोतकसंदंशिकोत्सृष्टसंप्रक्षालकैः । ग्राम्यारण्याभिश्च वृत्तिभिः । गोव्रतमृगश्ववराहवानरहस्तिव्रतैश्च स्थानमौनवीरासनैश्च एकालापकैर्यावत्सप्तालापकैः । एकभक्ता एकाहोरात्रचातुर्थ्यपञ्चषट्कालान्तराश्च ( वैद्य 183 ) पक्षक्षपणमासक्षपणचान्द्रायणैश्च गृध्रोलूकपक्षधारणैश्च फलमुञ्जासनवल्कलदर्भबल्बजोष्ट्रकम्बलाजकम्बलकेशकम्बलचर्मनिवेशनैश्च आर्द्रपटास्तोपकजालशयनैश्च भस्मशर्करापाषाणफलककण्टकतृणमुसलशयनावाक्छिरोत्कुटुकस्थण्डिलशयनैश्च एकवासद्वित्रिचतुष्पञ्चषट्सप्तबहुवासोभिर्नग्नभावैश्च स्थानास्थानविधिभिश्च दीर्घकेशनखश्मश्रुजटामकुटधारणैश्च एककोलतिलतण्डुलाहारैश्च भस्ममसिनिर्माल्योद्धृततमोरजपांशुपङ्कपरिम्रक्षणैश्च लोममुञ्जकेशनखचीवरपञ्जरकरङ्कधारणैश्च उष्णोदकतण्डुलोदकपरिस्रावितकाम्बलिकस्थालीपानीयपानैश्च अङ्गारधातुकषायत्रिदण्डमुण्डिककुण्डिककपालखट्वाङ्गधारणैश्च शुद्धिं प्रत्यवगच्छन्ति संमूढाः । धूमपानाग्निपानादित्यनिरीक्षणपञ्चतपैकपादोर्ध्वबाहुस्थानैकचरणैश्च तपः संचिन्वन्ति । तुषाद्यङ्गारदाहनिकुम्भसाधनपक्वशिलापचनाग्निजलप्रवेशनमरुतीर्थगमनमरणैश्चेष्टां गतिं मृगयन्ते । ओंकारवषट्कारस्वधाकारस्वाहाकाराशीर्वचनस्तुतिचयनावाहनजप्यमन्त्राध्ययनधारणकरणैश्च शुद्धिं प्रत्यवगच्छन्ति । शुद्धं चात्मानं मन्यमाना इमानाश्रयन्ते । तद्यथा - ब्रह्मेन्द्ररुद्रविष्णुदेवीकुमारमातृकात्यायनीचन्द्रादित्यवैश्रवणवरुणवासवाश्विनौनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगराक्षसप्रेतभूतकुम्भाण्डपार्षदगणपतिपिशाचांश्च देवर्षिराजर्षिब्रह्मर्षीश्च नमस्यन्ति, तेषु च सारसंज्ञिनो भवन्ति । पृथिव्यप्तेजोवाय्वाकाशं चाश्रयन्ते । गिरीनदीनद्युत्ससरोह्रदतडागसागरसरःपल्वलपुष्करिणीकूपवृक्षगुल्मलतातृणस्थाणुगोष्ठश्मशान - चत्वरशृङ्गाटकान्तरापणमुखानि चाश्रयन्ते । गृहस्तम्भोपलमुसलासिधनुपरशुशरशक्तित्रिशूलांश्च नमस्यन्ति । दधिघृतसर्षपयवप्रतिसरादूर्वामणिकनकरजतादिभिश्च मङ्गलं प्रत्यवगच्छन्ति । एवंविधानि इमे तीर्थ्याः कुर्वन्ते, आश्रयन्ते च संसारभयभीताः ॥
इह च केचित्परत्र मन्यन्ते स्वर्गापवर्गावस्माकमेतेभ्यो निर्वर्त्स्येत इति मिथ्यामार्गप्रयाता अशरणे शरणसंज्ञिनो ऽमङ्गल्ये मङ्गलसंज्ञिनो ऽशुद्ध्या शुद्धिं मन्यतोयन्न्वहं तादृशं व्रततपोविशेषमालभेयं यथा सर्वपरप्रवादिनश्च निगृहीताः स्युः, कर्मक्रियाप्रणष्टानां च सत्त्वानां कर्मक्रियाविप्रणाशमादर्शयेयम् । ध्यानगोचराणां च रूपावचराणां च देवानां ध्यानविशेषोपदर्शनादावर्जनं कुर्यामिति ॥
इति हि भिक्षवो बोधिसत्त्व एवं चिन्तयित्वा षड्वर्षिकं महाघोरं व्रततपःसुदुष्करात्सुदुष्करां दुष्करचर्यामालभते स्म । केन कारणेनोच्यते दुष्करचर्येति? दुष्करकारिकैषा, तेनोच्यते दुष्करचर्येति । न स कश्चित्सत्त्वः सत्त्वनिकाये संविद्यते मनुष्यो वा अमनुष्यो वा, यः समर्थस्तथारूपं दुष्करं चरितुम्, अन्यत्र चरमभविकाद्बोधिसत्त्वात्, य आस्फानकध्यानं समापद्यते स्म । केन कारणेनोच्यते आस्फानकमिति? स चतुर्थध्यानमादित एव समापद्यमान आश्वासप्रश्वासानुपरोधयति संनिरोधयति । अकल्पं तद् ध्यानमविकल्पमनिञ्जनमपनीतमस्पन्दनं सर्वत्रानुगतं च सर्वत्र चानिश्रितम् । न च तद् ध्यानं जातु केनचित्समापन्नं पूर्वं शैष्येण वा अशैष्येण वा प्रत्येकबुद्धेन ( वैद्य 184 ) वा चर्याप्रतिपन्नेन वा बोधिसत्त्वेन । अतश्चास्फानकं नामोच्यते । आकाशमस्फरणमकरणमविकरणं तच्च सर्वं स्फरतीति ह्याकाशसमं तद् ध्यानम् । तेनोच्यते आस्फानकमिति ॥
अथ खलु भिक्षवो बोधिसत्त्वो लोकस्याश्चर्यसंदर्शनार्थं तीर्थिकानां च दर्पनिर्घातनार्थं परप्रवादिनां च निग्रहार्थं देवानां चावर्जनार्थमुच्छेदशाश्वतवादिनां च सत्त्वानां क्रर्मक्रियाप्रणष्टानां कर्मक्रियावतारणार्थं पुण्यफलोद्भावनार्थं ज्ञानफलसंदर्शनार्थं ध्यानाङ्गविभजनार्थ कायबलस्थामसंदर्शनार्थं चित्तशौर्यसंजननार्थं च असंस्कृतायां पृथिव्यां पर्यङ्कमाभुज्य निषीदति स्म । निषद्य च स्वकायं चेतसा निगृह्णीते स्म, निष्पीडयति स्म ॥

ततो मे भिक्षवो हैमन्तिकास्वष्टकरात्रिषु तथा कायं निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूमौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः । तद्यथापि नाम बलवान् पुरुषो दुर्बलतरं पुरुषं ग्रीवायां गृहीत्वा निष्पीडयेत्, एवमेव भिक्षव इमं कायं चेतसा निगृह्णतो निष्पीडयतः कक्षाभ्यामपि स्वेदाः प्रश्रवन्ति स्म । ललाटादपि स्वेदाः प्रश्रवन्ति स्म । भूभौ निपतन्ति स्म अवश्यायन्त ऊष्मायन्तो बाष्पायन्तः ॥
तस्य मे भिक्षव एतदभूत् - यन्न्वहमास्फानकं ध्यानं ध्यायेयम् । ततो मे भिक्षव आस्फानकं ध्यानं ध्यायतो मुखतो नासिकातश्चाश्वासप्रश्वासा उपनिरुद्धावभूताम् । कर्णछिद्राभ्यामुच्चशब्दा महाशब्दा निश्चरन्ति स्म । तद्यथापि नाम कर्मारगगया मथ्यमानायामुच्चशब्दो महाशब्दो निश्चरति, एवमेव मे भिक्षवो मुखनासिकाभ्यामाश्वासप्रश्वासावुपरुद्धावभूतां श्रोतछिद्राभ्यामुच्चशब्दो महाशब्दो निश्चरति स्म ॥
तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूय आस्फानकं ध्यानं ध्यायेयमिति । ततो मे भिक्षवो मुखनासिकाश्रोत्राण्युपरुद्धानि चाभूवन् । तेषूपरुद्धेषु वायुरुर्ध्वं शिरःकपालमुपनिहन्ति स्म । तद्यथापि नाम भिक्षवः पुरुषः कुण्डया शक्त्या शिरःकपालमुपहन्याद्, एवमेव मे भिक्षवो मुखनासिकाश्रोत्रेषूपरुद्धेषु आश्वासप्रश्वासा उर्ध्वं शिरःकपालमुपनिघ्नन्ति स्म ॥
तां चावस्थां दृष्ट्वा बोधिसत्त्वस्य तत्र केचिद्देवा एवमाहु - कष्टं भोः कालगतो बतायं सिद्धार्थः कुमारः । अपरे एवमाहुः - नायं कालगतः । अपि तुध्यानविहार एषो ऽर्हतामेवंविध इति । तस्यां च वेलायमिमां गाथामभाषन्त -
मा खल्वयं शाक्यनरेन्द्रगर्भो ह्यपूर्णसंकल्प इहैव रण्ये ।
कृत्वा त्रिलोकं दुखितं ह्यनाथं कालं करिष्यत्यकृतार्थ एव

17.2

हा सत्त्वसारा सदृढप्रतिज्ञा सद्धर्मयज्ञेन निमन्त्रिताभूत् ।
वयं पुरा ते तुषितेषु नाथा क्व सा प्रतिज्ञा तव शुद्धसत्त्व

17.3

अथ ते देवपुत्रास्त्रायत्रिंशेषु देवेषु गत्वा मायादेव्या एवमर्थं श्रावयन्ति - कालगतः कुमारः । अथ मायादेवी अप्सरागणपरिवृता अर्धरात्रसमये नैरञ्जनायास्तीरे येन बोधिसत्त्वस्तेनोपसंक्रान्ता । सा पश्यति स्म बोधिसत्त्वं शुष्कगात्रम् । कालगतमिव दृष्ट्वा बाष्पगद्गदकण्ठा रोदितुमारब्धा । तस्यां च वेलायामिमां गाथामभाषत -
यदा जातो ऽसि मे पुत्र वने लुम्बिनिसाह्वये ।
सिंहवच्चागृहीतस्त्वं प्रक्रान्तः सप्त पदा स्वयम्

17.4

दिशां चालोक्य चतुरे वाचा ते प्रव्याहृता शुभा ।
इयं मे पश्चिमा जातिः सा ते न परिपूरिता

17.5

असितेनाभिनिर्दिष्टो बुद्धो लोके भविष्यसि ।
क्षुण्णं व्याकरणं तस्य न दृष्टा तेन नित्यता

17.6

चक्रवर्तिश्रियं पुत्र नपि भुक्ता मनोरमा ।
न च बोधिमनुप्राप्तो यातो ऽसि निधनं वने

17.7

पुत्रार्थे कं प्रपद्यामि कं व क्रन्दामि दुःखिता ।
को मे दद्येकपुत्रस्य किंचित्प्राणस्य जीवितम्

17.8

बोधिसत्त्व आह -
कैषा अति त्वां करुणं रुदासि प्रकीर्णकेशा विनिवृत्तशोभा ।
पुत्रं ह्यतीवा परिदेवयन्ती विचेष्टमाना धरणीतलस्था

17.9

मायादेवी आह -
मया तु दशमासां वै कुक्षौ वज्र इवा धृतः ।
सा ते ऽहं पुत्रका माता विलपामि सुदुःखिता

17.10

अथ बोधिसत्त्व आश्वासयन्नुवाच - न भेतव्यं पुत्रलालसे, श्रमं ते सफलं करिष्यसि । अमोघं बुद्धपरित्यागम् । असितनिर्देशं च व्यक्तं करिष्यामि । दीपंकरस्य व्याकरणं व्यक्तीकरिष्यामि च ।
अपि शतधा वसुधा विकीर्येत मेरुः प्लवे चाम्भसि रत्नशृङ्गः ।
चन्द्रार्कतारागण भू पतेत पृथजनो नैव अहं म्रियेयम् ।
यस्मान्न शोको त्वयि अत्र कार्यो न वै चिराद् द्रक्ष्यसि बुद्धबोधिम्

17.11

सहश्रवणादेव देवी माया संप्रहर्षितरोमकूपजाता बोधिसत्त्वं मान्दारवपुष्पैरभ्यवकिर्य त्रिप्रदक्षिणीकृत्वा दिव्यतूर्यैः संप्रवाद्यमानैर्येन स्वभवनं तेनोपजगाम ॥
तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये अल्पाहारतया शुद्धिं मन्यन्ते । यन्न्वहमल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेवाद्वितीयं कोलमाहारमाहर्तुम् । स्यात्खलु पुनर्भिक्षवो युष्माकं एषा बुद्धिः - महत्तरं तत्र काले कोलमासीदिति । न खल्वेवं द्रष्टव्यम् । अथ खल्वियदेव तत्र काले कोलमभूत् । तस्य मे भिक्षव एकमेव कोलमाहारमाहरतो ऽद्वितीयं कायो ऽत्यर्थं कर्शितो ऽभूद्दुर्बलः । तद्यथापि नाम भिक्षव आसीतकीपर्वाणि वा कालापर्वाणि वा, एवमेव मे ऽङ्गप्रत्यङ्गान्यभूवन् । तद्यथापि नाम कर्कटपार्शुका, एवमेव मे पार्शुका अभूवन् । तद्यथापि नाम वाहनकारशालायां वा हस्तिशालायां वा जीर्णायामुभयतो विवृतायां गोपानस्यान्तरिकाश्च विराजन्ते व्यवभासन्ते, एवमेव मे पार्शुका अन्तःकाये उभयतो विराजन्ते स्म व्यवभासन्ते स्म । तद्यथापि नाम वर्तन्या वेणी उन्नतावनता भवति समविषमा, एवं मे पृष्ठीकण्टको ऽभूदुन्नतावनतः समविषमः । तद्यथा तिक्तकालाबुस्तरुणो लून आम्लानो भवति संम्लानः समुत्पुटकजातः एवमेव शिर आम्लानमभूत्संम्लानं समुत्पुटकजातम् । तद्यथापि नाम ग्रीष्माणां पश्चिमे मासे कूपतारका दूरगता भवन्ति, कृच्छ्रेण संप्रकाश्यन्ते, एवमेव मे ऽक्षितारकौ दुरगतावभूतां कृच्छ्रेण संप्रकाश्येते स्म । तद्यथापि नामाजपदं वोष्ट्रपदं वा, एवमेव मे कक्षाकुक्षिवक्षादीन्यभूवन् । ततो यदाहं भिक्षवः पाणिना कुक्षिं स्पृशामीति पृष्ठिकण्टकमेवास्प्राक्षम् । उत्तिष्ठामीति चाभिसंस्कुर्वंस्तथैवावकुब्जः प्रयामेण प्रापतम् । ततः कृच्छ्रेणोत्थितो ऽपि पांशुकृतानि गात्राणि पाणिना प्रमृजतो मे पूतिरोमाणि कायाच्छीर्यन्ते स्म । यापि मे ऽभूत्पौराणी शुभवर्णतनुः साप्यन्तरधाद्यथापीदं रूक्षप्रधानं प्रहितात्मनः । सामन्ताश्च मे गोचरग्रामवासिन एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्याभूत्पौराणी शुभवर्णा निभा, साप्यन्तर्हिता ॥
तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतया प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तण्डुलमद्वितीयमाहारमाहर्तुम् । स्याद्भिक्षवो युष्माकमेवं महत्तरं तण्डुलं तस्मिन् काले ऽभूदिति । न खल्वेवं द्रष्टव्यम् । अथैतावानेव तस्मिन् काले तण्डुलो ऽभूत् । तस्य मे भिक्षव एकं तण्डुलमाहरतः क्षिप्रं कायो ऽभूदिति पूर्ववद्यावन्मद्गुरच्छविर्बत भोः श्रमणो गौतम इति । याप्यस्य साभूत्पौराणी शुभवर्णतनुः साप्यन्तर्हितेति ॥
तस्य मे भिक्षव एतदभूत् - यन्न्वहं भूयस्या मात्रयाल्पाहारतायै प्रतिपद्येयमिति । अभिजानाम्यहं भिक्षव एकमेव तिलमद्वितीयमाहारमाहारयितुम् । पेयालं । यावत्साप्यस्य शुभवर्णतनुरन्तर्हितेति ॥
तस्य मे भिक्षव एतदभूत् - सन्त्येके श्रमणब्राह्मणा ये ऽनाहारतया शुद्धिं मन्यन्ते । यन्न्वहं सर्वेण सर्वमनाहारतायै प्रतिपद्येयमिति । ततो ऽहं भिक्षवो ऽनाहारस्थितो ऽभूवन् । तस्य मे भिक्षवो ऽनाहारस्य कायो ऽतीव शुष्को ऽभूत् कृशो दुर्बलः, तद्यथापि नाम आसितकीपर्वाणि वा कालापर्वाणि वा । ततो द्विगुणत्रिगुणचतुर्गुणपञ्चगुणदशगुणं मे कृशान्यङ्गप्रत्यङ्गान्यभूवन् । तद्यथा कर्कटकपार्शुका वाहनशालायां वा गोपानसी (पार्श्वे) द्विपरिवर्तना वेणीवत्पृष्ठीकण्टकः । तिक्तालाबुवच्छिरःकपालम्, कूपतारका इवाक्षितारके । सो ऽहं भिक्षवः साधुकमुत्तिष्ठामीति गात्राण्यभिसंस्कुर्वन्नवकुब्जः प्रापतम् । कृच्छ्रेणापि चोत्थितः पांशुकृतानि मे गात्राणि प्रमृजतः पूतिमूलानि रोमाण्यशीर्यन्त । यापि मे साभूच्छुभवर्णतनुनिभा, साप्यन्तरधात् । तद्यथापि तद्रूक्षप्रधानप्रहितात्मकत्वात् । सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म - कालको बत भोः श्रमणो गौतमः । श्यामको बत भोः श्रमणो गौतमः । मद्गुरच्छविर्बत भोः श्रमणो गौतमः । याप्यस्य साभूत्पौराणी शुभवर्णनिभा साप्यन्तर्हितेति ॥
राजापि तदा शुद्धोदनः प्रतिप्रतिदिवसं बोधिसत्त्वस्यान्तिके दूतं प्रेषयति स्म ॥
इति हि भिक्षवो बोधिसत्त्वो लोकस्याद्भुतक्रियासंदर्शनार्थं पूर्ववद्यावत्कर्मक्रियाप्रणष्टानां सत्त्वानां कर्मक्रियावतारणार्थं पुण्यसंचयानां चोद्भावनार्थं महाज्ञानस्य च गुणसंदर्शनार्थं ध्यानाङ्गानां च विभजनार्थमेकतिलकोलतण्डुलेन षड्वर्षाणि दुष्करचर्यामनुवर्तयन्तमुपदर्शयति स्म । अदीनमानसः षड्वर्षा बोधिसत्त्वो यथा निषण्ण एवास्थात् पर्यङ्केन । न च ईर्यापथाच्च्यवते स्म । नातपाच्छायामगमन्न छायाया आतपम् । न च वातातपवृष्टिपरित्राणमकरोन्न च दंशमशकसरीसृपानपनयति स्म । न चोच्चारप्रश्रावश्लेष्मसिंहाणकानुत्सृजति स्म । न च समिञ्जनप्रसारणमकरोत् । न च पार्श्वोदरपृष्ठस्थानेनास्थात् । ये ऽपि च ते महामेघा दुर्दिनवर्षाशनिशरद्ग्रीष्महैमन्तिकाः, ते ऽपि बोधिसत्त्वस्य काये निपतन्ति स्म । न चान्ततो बोधिसत्त्वः पाणिनापि प्रच्छादनमकरोत् । न चेन्द्रियाणि पिथयति स्म । न चेन्द्रियार्थान् गृह्णिते स्म । ये च तत्रागमन् ग्रामकुमारका वा ग्रामकुमारिका वा गोपालका वा पशुपालका वा तृणहारिका वा काष्ठहारिका वा गोमयहारिका वा, ते बोधिसत्त्वं पांशुपिशाचमिति मन्यन्ते स्म । तेन च क्रीडन्ति स्म । पांशुभिश्चैनं म्रक्षयन्ति स्म ॥
तत्र बोधिसत्त्वस्तैः षड्भिर्वर्षैस्तावल्लूहन्यूनदुर्बलकायः संवृत्तो ऽभूत्, यदस्य कर्णश्रोताभ्यां तृणतूलकं प्रक्षिप्य नासाश्रोताभ्यां निष्कास्यते स्म । नासाश्रोताभ्यां प्रक्षिप्य कर्णश्रोताभ्यां ( वैद्य 188 ) निष्कास्यते स्म । कर्णश्रोताभ्यां प्रक्षिप्य मुखद्वारेण निष्कास्यते स्म । मुखद्वारेण प्रक्षिप्य कर्णनासिकाश्रोताभ्यो निष्कास्यते स्म । नासायां प्रक्षिप्य कर्णनासिकामुखद्वारेण निष्कास्यते स्म ॥
ये च ते देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगा मनुष्यामनुष्या बोधिसत्त्वस्य गुणेषु प्रत्यक्षाः, ते रात्रिंदिवं समधिष्ठा बोधिसत्त्वस्य पूजां कुर्वन्ति स्म । प्रणिधानानि च कुर्वन्ति स्म ॥
तत्र बोधिसत्त्वेन तै षड्भिर्वर्षैर्दुष्करचर्यां संदर्शयता परिपूर्णानि द्वादशनयुतानि देवमनुष्याणां त्रिभिर्यानैः परिपाचितान्यभूवन् ॥
तत्रेदमुच्यते -
तस्य च गुणान्वितस्य पुराद्विनिष्क्रम्य बोधिसत्त्वस्य ।
चिन्ता उपाययुक्ता सत्त्वार्थहिताय उत्पन्ना

17.12

पञ्चसु कषायकाले हीने ऽधर्माधिमुक्तिके लोके ।
जातो ऽस्मि जम्बुद्विपे धर्मक्रियौद्धुरे लोके

17.13

आकीर्ण तीर्थिकगणैः कौतूहलमङ्गलैरिमे युक्ता ।
कायोपक्रमकरणैर्मन्यन्ते बालिशाः शुद्धिम्

17.14

अग्निप्रवेशमरुप्रपातपांशुभस्मादिमक्षिता नग्नाः ।
कायपरितापनार्थं पञ्चातपयोगमनुयुक्ताः

17.15

मन्त्राविचारकरणा केचिद्धस्तावलेहका अबुधाः ।
न च कुम्भमुखकरोटान्न धारकुशलान्तराच्च गृह्णन्ति

17.16

न च यत्र स्वानुभवती न चाहितं तेन तिष्ठवाक्यस्य ।
कुलभिक्ष एक गृह्या शुद्धं मन्यन्तिहात्मानम्

17.17

वर्जेन्ति सर्पितैलं फाणितदधिदुग्धमत्स्यमांसानि ।
श्यामाकशाकभक्षा मृणालगर्डुलकणाभक्षाः

17.18

मूलफलपत्रभक्षाः कुशचीवरचर्मकम्बलधराश्च ।
अपरे भ्रमन्ति नग्नाः सत्यमिदं मोहमन्यदिति मूढाः

17.19

धारेन्ति ऊर्ध्वहस्ता उर्ध्वंकेशा जटाश्च धारेन्ति ।
मार्गानतिप्रनष्टा अमार्गसंस्थाः सुगतिगमनकामाः

17.20

तृणमुसलभस्मशयनाः कण्टकशयनाश्च उत्कुटध्यायि ।
स्थित केचिदेकपादे ऊर्ध्वमुखाश्चन्द्रसूर्य पश्यन्तः

17.21

उत्सां सरसतडागां सागरसरितश्च चन्द्रसूर्यौ च ।
वृक्षगिरिशैलशिखरां कुम्भं धरणीं नमस्यन्ते

17.22

विविधैश्च कारणैस्ते कायं परिशोधयन्ति संमूढाः ।
मिथ्यादृष्टिपरीताः क्षिप्रं प्रपतन्त्यपायेषु

17.23

यन्नूनमहं व्रततप दुष्करचर्यां समारभे घोराम् ।
यं दुष्करं न शक्यं चरितुं देवैर्मनुष्यैर्वा

17.24

आस्फानकं च ध्यानं ध्यायेयं वज्रकल्पदृढस्थानम् ।
यं ध्यानं न समर्थाः प्रत्येकजिनापि दर्शयितुम्

17.25

सन्तीह देवमनुजाः तीर्थिक लूहव्रतेन हृष्यन्ते ।
तेष परिपाकहेतो दुष्करव्रततप रभेय सूतीव्रम्

17.26

पर्यङ्कमाभुजित्वा उपविष्टो ऽभूत्स्थले असंस्तीर्णे ।
कोलतिलतण्डुलेना आहारविधिं विदर्शयति

17.27

आश्वासविप्रहीनः प्रश्वासवर्जितु न चेञ्जते बालवान् ।
षड्वर्षाणि प्रवरं ध्यायत्यास्फानकं ध्यानम्

17.28

कल्पं नो न विकल्पं न चेञ्जनं नापिमन्येन प्रचारम् ।
आकाशधातुस्फरणं ध्यायत्यास्फानकं ध्यानम्

17.29

न च आतपातु छायां छायाया नातपं गतश्चासौ ।
मेरुरिव निष्प्रकम्प्यो ध्यायत्यास्फानकं ध्यानम्

17.30

न च वातवृष्टिछदनं न दंशमशकासरीसृपात्राणम् ।
अविकोपितया चर्या ध्यायत्यास्फानकं ध्यानम्

17.31

न च केवलमात्मार्थं ध्यायत्यास्फानकं ध्यानम् ।
अन्यत्र करुणचित्तो भावी लोकस्य विपुलार्थम्

17.32

ये ग्रामदारकाश्च गोपालाः काष्ठहारतृणहाराः ।
पांशुपिशाचकमिति तं मन्यन्ते पांशुना च म्रक्षन्ति

17.33

अशुचीना च किरन्ते विविधास्ते कारणाश्च कारेन्ति ।
न च इञ्जते भ्रमति वा ध्यायत्यास्फानकं ध्यानम्

17.34

न च नमति नो विनमते न कायपरिरक्षणा स्पृशति ।
किंचिन्नोच्चारप्रस्रवं शब्देषु न संत्रसी न परप्रेक्षी

17.35

संशुष्कमांसरुधिरं चर्मस्नाय्वस्थिकाश्च अवशिष्टा ।
उदराच्च पृष्ठिवंशो विदृश्यते वर्तिता यथा वेणी

17.36

ये ते कृताधिकारा देवाः सुरनागयक्षगन्धर्वाः ।
प्रत्यक्षगुणधरस्या करोन्ति पूजां दिवारात्रौ

17.37

प्रणिधिं च कुर्वते ते वयमपि तादृश भवामहे क्षिप्रम् ।
यथ एष गगनचित्तो ध्यायत्यास्फानकं ध्यानम्

17.38

न च केवलमात्मार्थं न ध्यानस्वादनान्न सुखबुद्ध्या ।
अन्यत्र करुणबुद्ध्या करिष्यत्यर्थं विपुल लोके

17.39

निहताः परप्रवादा ध्यामीकृत तीर्थिका मतिविहीनाः ।
कर्मक्रिया च दर्शित या प्रोक्ता काश्यपे वाचा

17.40

क्रकुच्छन्दकस्य बोधि बोधिरिह सुदुर्लभा बहुभि कल्पैः ।
जनताया इत्यर्थं ध्यायत्यास्फानकं ध्यानम्

17.41

द्वादशनयुता पूर्णा विनीत मरुमानुषास्त्रिभिर्यानैः ।
एतदधिकृत्य सुमति ध्यायत्यास्फानकं ध्यानम्

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc