Lalitavistara · अध्याय 16
इति ॥
॥ इति श्रीललितविस्तरे ऽभिनिष्क्रमणपरिवर्तो नाम पञ्चदशमो ऽध्यायः ॥
स्तर्त् परिवर्त 16
बिम्बिसारोपसंक्रमणपरिवर्तः षोडशः ।
एवं खलु भिक्षवश्छन्दको बोधिसत्त्वाधिस्थानेन राज्ञः शुद्धोदनस्य गोपायाः शाक्यकन्यायाश्च सर्वस्य चान्तःपुरस्य सर्वस्य च शाक्यगणस्य शोकविनोदकथामकार्षीत् ॥
इति हि भिक्षवो बोधिसत्त्वो लुब्धकरूपाय देवपुत्राय काशिकानि वस्त्राणि दत्त्वा तस्य सकाशात्काषायानि वस्त्राणि गृहीत्वा स्वयमेव प्रवज्यां लोकानुवर्तनामुपादाय सत्त्वानुकम्पायै सत्त्वपरिपाचनार्थम् ॥
अथ बोधिसत्त्वो येनैव शाक्या ब्राह्मण्या आश्रमस्तेनोपसंक्रामत् । सा बोधिसत्त्वं वासेन भक्तेन चोपनिमन्त्रयते स्म । ततो बोधिसत्त्वः पद्माया ब्राह्मण्या आश्रमं गच्छति स्म । तयापि बोधिसत्त्वो वासेन भक्तेन चोपनिमन्त्रितो ऽभूत् ॥
ततो रैवतस्य ब्रह्मर्षेराश्रममगमत् । असावपि बोधिसत्त्वं तथैवोपनिमन्त्रयते स्म । तथैव राजको ऽपि दतृमदण्डिकपुत्रो बोधिसत्त्वमुपनिमन्त्रयते स्म ॥
इति हि भिक्षवो बोधिसत्त्वो ऽनुपूर्वेण वैशालीं महानगरीमनुप्राप्तो ऽभुत् ॥
तेन खलु पुनः समयेनाराडः कालापो वैशालीमुपनिसृत्य प्रतिवसति स्म महता श्रावकसंघेन सार्धं त्रिभिः शिष्यशतैः । स शिष्येभ्य आकिंचन्यायतनसहव्रतायै धर्मं देशयति स्म । स बोधिसत्त्वं दूरत एवागच्छन्तं दृष्ट्वा आश्चर्यप्राप्तः शिष्यानामन्त्रयते स्म - पश्यत पश्यत भो रूपमस्येति । ते ऽब्रुवन् - एवं ह्येतत्पश्यामः । एनमतिविस्मयनीयम् ॥
ततो ऽहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्याराड कालापमेतदवोचत् - चरेयमहं भो आराडे कालापे ब्रह्मचर्यम् । सो ऽवोचत् - चर भो गौतम तथारूपेण धर्माख्याने यस्मिन् श्राद्धः कुलपुत्रो ऽल्पकृच्छ्रेणाज्ञामाराधयति ॥
तस्य मे भिक्षव एतदभूत् - अस्ति मे छन्दो ऽस्ति वीर्यमस्ति स्मृतिरस्ति समाधिरस्ति प्रज्ञा, यन्न्वहमेको ऽप्रमत्त आतापी व्यपकृष्टो विहरेयं तस्यैव धर्मस्य प्राप्तये साक्षात्क्रियायै ॥
अथ खल्वहं भिक्षवो एको ऽप्रमत्त आतापी व्यपकृष्टो विहरन्नल्पकृच्छ्रेणैवं तं धर्ममध्यवगच्छन् साक्षादकार्षम् ॥
अथ खल्वहं भिक्षवो येनाराडः कालापस्तेनोपसंक्रम्यैतदवोचत् - एतावद्भो त्वया आराड धर्मो ऽधिगतः साक्षात्कृतः? सो ऽवोचत् - एवमेतद्भो गौतम । तमहमवोचत् - मयापि भो एष धर्मः साक्षात्कृतो ऽधिगतः । सो ऽवोचत् - तेन हि भो गौतम यदहं धर्म जानामि, भवानपि तं जानाति, यं भवान् जानाति, अहमपि तं जानामि । तेन ह्यावामुभावपीमं शिष्यगणं परिहरावः ॥
इति हि भिक्षव आराडः कालापः परमया पूजया मां पूजयति स्म । अन्तेवासिषु च मां समानार्थतया स्थापयति स्म ॥
तस्य मे भिक्षव एतदभूत् - अयं खल्वाराडस्य धर्मो न नैर्याणिको न निर्याति, तत्कतरस्य सम्यग्दुःखक्षयाय? यन्न्वहमत उत्तरि पर्येषमाणश्चरेयम् ॥
अथ खल्वहं भिक्षवो यथाभिरामं वैशाल्यां विहृत्य मगधेषु च प्रक्रान्तो ऽभूत् । सो ऽहं मगधेषु चर्यां चरन् येन मागधकानां राजगृहं नगरं तदनुसृतो येन च पाण्डवः पर्वतराजस्तेनोपसंक्रान्तो ऽभूवम् । तत्राहं पाण्डवे पर्वतराजपार्श्वे व्याहार्षमेकाक्यद्वितीयो ऽसहायो ऽनेकैर्देवकोटिनयुतशतसहस्रैः संरक्षितः ॥
ततो ऽहं कल्यमेव संनिवास्य पात्रचीवरमादाय तपोदद्वारेण राजगृहं महानगरं पिण्डाय प्राविक्षत् प्रासादिकेनाभिक्रान्तेन प्रतिक्रान्तेन व्यवलोकितेन संमिञ्जितेन प्रसारितेन प्रासादिकेन संघाटीपटपात्रचीवरधारणेनाविक्षिप्तैरिन्द्रियैरबहिर्गतेन मानसेन निर्मितवत्तैलपात्रधरवद्युगमात्रं पश्यन् । तत्र मां राजगृहका मनुष्या दृष्ट्वा विस्मिता अभूवन् - किं स्विदयं ब्रह्मा भविष्यति शक्रो देवानामिन्द्र आहोस्विद्वैश्रवणो आहोस्वित्किंचिद्गिरिदैवतम् ॥
तत्रेदमुच्यते -
अथ विमलधरो ह्यनन्ततेजो स्वयमिह प्रव्रजियान बोधिसत्त्वः ।
शान्तमनु दान्त ईर्यवन्तो विहरति पाण्डवशैलराजपार्श्वे
रजनि विगतु ज्ञात्व बोधिसत्त्वः परमसुदर्शनियं निवासयित्वा ।
पात्र प्रतिगृहीय नीचमानो प्रविशति राजगृहं सपिण्डपात्रम्
कनकमिव सुधातुजातरूपं कवचितु लक्षणत्रिंशता द्विभिश्च ।
नरगण तथ नारि प्रेक्षमाणो न च भवते क्वचि तृप्ति दर्शनेन
वीथि रचित रत्नवस्त्रधार्यै अवशिरिया जनु याति पृष्ठतो ऽस्य ।
को नु अयु अदृष्टपूर्वसत्त्वो यस्य प्रभाय पुरं विभाति सर्वम्
उपरि स्थिहिय नारिणां सहस्रा तथरिव द्वारि तथैव वातयाने ।
रथ्य भरित गेहि शून्य कृत्वा नरवरु प्रेक्षिषु ते अनन्यकर्माः
न च भुयु क्रयविक्रयं करोन्ती न च पुन सौण्ड पिबन्ति मद्यपानम् ।
न च गृहि न च वीथिये रमन्ते पुरुषवरस्य निरीक्षमाण रूपम्
पुरुष त्वरितु गच्छि राजगेहं अवचिषु राज स बिम्बिसार तुष्टो ।
देव परम तुभ्य लब्ध लाभा स्वयमिह ब्रह्म पुरे चराति पिण्डम्
केचि अवचि शक्र देवराजो अपरि भणन्ति सुयाम देवपुत्रः ।
तथ अपि संतुषितं व निर्मितश्च अपरि भणन्ति सुनिर्मितेषु देवः
केचि पुन भणन्ति चन्द्रसूर्यौ तथपि च राहु बलिश्च वेमचित्री ।
केचि पुन भणन्ति वाचमेवं अयु सो पाण्डवशैलराजवासी
वचनमिमु श्रुणित्व पार्थिवो ऽसौ परमौदग्रमना स्थितो गवाक्षे ।
प्रेक्षति वरसत्त्व बोधिसत्त्वं ज्वलतु शिरीय सुधातुकाञ्चनं वा
पिण्ड ददिय राज बिम्बिसारः पुरुषमवोचन्निरीक्ष क्व प्रयाती ।
दृष्ट्व गिरिवरं स गच्छमानो अवचिषु देव गतः स शैलपार्श्वम्
रजनि विगतु ज्ञात्व बिम्बिसारो महत जनैः परिवारितो नरेन्द्रः ।
उपगमि पाण्डवशैलराजमूले शिरिय ज्वलन्तु तमदृशाति शैलम्
धरणि व्रजितु यानि ओरुहित्वा परमसुगौरव प्रेक्षि बोधिसत्त्वम् ।
मेरुरिव यथा ह्यकम्पमानो न्यसिय तृणानि निषण्ण सोस्तिकेन
शिरसि चरणि वन्दयित्व राजा विविधकथां समुदाहरित्व वोचत् ।
ददमि तव उपार्धु सर्वराज्याद् रम इह कामगुणैरहं च पिण्डम्
प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं धरणिपते चिरमायु पालयस्व ।
अहमपि प्रविजह्य राज्यमिष्टं प्रव्रजितो निरपेक्षि शान्तिहेतोः
दहरु तरुणयौवनैरुपेतः शुभतनुवर्णनिभो ऽसि वेगप्राप्तः ।
विपुल धन प्रतीच्छ नारिसंघं इह मम राज्यि वसाहि भुङ्क्ष्व कामां
परमप्रमुदितो ऽस्मि दशनात्ते अवचिषु स मागधराज बोधिसत्त्वम् ।
भवहि मम सहायु सर्वराज्यं अहु तव दास्यि प्रभूत भुङ्क्ष्व कामां
मा च पुन वने वसाहि शून्ये म भुयु तृणेषु वसाहि भूमिवासम् ।
परमसुकुमारु तुभ्य कायो इह मम राज्यि वसाहि भुङ्क्ष्व कामां
प्रभणति गिरि बोधिसत्त्व श्लक्ष्णं अकुटिल प्रेमणिया हितानुकम्पी ।
स्वस्ति धरणिपाल ते ऽस्तु नित्यं न च अहु कामगुणेभिरर्थिको ऽस्मि
काम विषसमा अनन्तदोषा नरकप्रपातन प्रेततिर्यग्योनौ ।
विदुभि विगर्हित चाप्यनार्य कामा जहित मया यथा पक्वखेटपिण्डम्
काम द्रुमफला यथा पतन्ती यथमिव अभ्रबलाहका व्रजन्ति ।
अध्रुव चपलगामि मारुतं वा विकिरण सर्वशुभस्य वञ्चनीया
काम अलभमान दह्ययन्ते तथ अपि लब्ध न तृप्ति विन्दयन्ती ।
यद पुन अवशस्य भक्षयन्ते तद महदुःख जनेन्ति घोर कामाः
काम धरणिपाल ये च दिव्या तथ अपि मानुष काम ये प्रणीता ।
एकु नरु लभेत सर्वकामां न च सो तृप्ति लभेत भूयु एषन्
ये तु धरणिपाल शान्तदान्ता आर्य अनाश्रव धर्मपूर्णसंज्ञा ।
प्रज्ञविदुष तृप्त ते सुतृप्ता न च पुन कामगुणेषु काचि तृप्तिः
काम धरणिपाल सेवमाना पुरिम न विद्यति कोटि संस्कृतस्य ।
लवणजल यथा हि नारू पीत्वा भुयु तृष वर्धति काम सेवमाने
अपि च धरणिपाल पश्य कायं अध्रुवमसारकु दुःखयन्त्रमेतत् ।
नवभि व्रणमुखैः सदा स्रवन्तं न मम नराधिप कामछन्दरागः
अहमपि विपुलां विजह्य कामां तथपि च इस्त्रिसहस्र दर्शनीयां ।
अनभिरतु भवेषु निर्गतो ऽहं परमशिवां वरबोधि प्राप्तुकामः
राजा आह -
कतम दिशि कुतो गतो ऽसि भिक्षो क्व च तव जन्म क्व ते पिता क्व माता ।
क्षत्रिय अथ ब्राह्मणो ऽथ राजा परिकथ भिक्षु यदी न भारसंज्ञा
बोधिसत्त्व आह -
श्रतु ति धरणिपाल शाकियानां कपिलपुरं परमं सुऋद्धिस्फीतम् ।
पितु मम शुद्धोदनेति नाम्ना तनु अहु प्रव्रजितो गुणाभिलाषी
राजा आह -
साधु तव सुदृष्टदर्शनं ते यनु तव जन्म वयं पि तस्य शिष्याः ।
अपि च मम क्षमस्व आशयेना यमपि निमन्त्रितु कामवीतरागो
यदि त्वय अनुप्राप्तु भोति बोधिः तद मम सेति भोति धर्मस्वामिम् ।
अपि च मम पुरा सुलब्ध लाभा मम विजिते वससीह यत्स्वयंभो
पुनरपि चरणानि वन्दयित्वा कृत्व प्रदक्षिणु गौरवेण राजा ।
स्वकजनपरिवारितो नरेन्द्रः पुनरपि राजगृहं अनुप्रविष्टः
मगधपुरि प्रवेशि लोकनाथो विहरिय शान्तमना यथाभिप्रायम् ।
अर्थु करिय देवमानुषाणां उपगमि तीरु निरञ्जना नरेन्द्रः
मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0