भाषा

ENहिગુ
ग्रंथ पाठ

Lalitavistara · अध्याय 18

18.1

॥ इति श्रीललितविस्तरे दुष्करचर्यापरिवर्तो नाम सप्तदशमो ऽध्यायः ॥
स्तर्त् परिवर्त 18
नैरञ्जनापरिवर्तो ऽष्टादशः ।
मारश्च भिक्षवः पापीयान् बोधिसत्त्वस्य षड्वर्षाणि दुष्करचर्यां चरतः पृष्ठतः समनुबद्धो ऽभूत् अवतारप्रेक्षी अवतारगवेषी । न च कदाचित्किंचिदवतारमध्यगच्छत् । सो ऽवतारमनधिगच्छन्निर्विण्णो विप्रतिसारी प्राक्रामत् ॥
तत्रेदमुच्यते -
रमणीयान्यरण्यानि वनगुल्माश्च वीरुधाः ।
प्राचीनमुरुबिल्वायां यत्र नैरञ्जना नदी

18.2

प्रहाणायोद्यतं तत्र सततं दृढविक्रमम् ।
पराक्रमन्तं वीर्येण योगक्षेमस्य प्राप्तये

18.3

नमुचिर्मधुरां वाचं भाषमाणो उपागमत् ।
शाक्यपुत्रा समुत्तिष्ठ कायखेदेन किं तव

18.4

जीवतो जीवितं श्रेयो जीवन् धर्मं चरिष्यसि ।
जीवं हि तानि कुरुते यानि कृत्वा न शोचति

18.5

कृशो विवर्णो दीनस्त्वं अन्तिके मरणं तव ।
सहस्रभागे मरणं एकभागे च जीवितम्

18.6

ददतः सततं दानं अग्निहोत्रं च जुह्वतः ।
भविष्यति महत्पुण्यं किं प्रहाणे करिष्यसि

18.7

दुःखं मार्गं प्रहाणस्य दुष्करं चित्तनिग्रहम् ।
इमां वाचं तदा मारो बोधिसत्त्वमथाब्रवीत्

18.8

तं तथावादिनं मारं बोधिसत्त्वस्ततो ऽब्रवीत् ।
प्रमत्तबन्धो पापीय स्वेनार्थेन त्वमागतः

18.9

अणुमात्रं हि मे पुण्यैरर्थो मार न विद्यते ।
अर्थो येषां तु पुण्येन तानेवं वक्तुमर्हसि

18.10

नैवाहं मरणं मन्ये मरणान्तं हि जीवितम् ।
अनिवर्ती भविष्यामि ब्रह्मचर्यपरायणः

18.11

स्रोतांस्यपि नदीनां हि वायुरेष विशोषयेत् ।
किं पुनः शोषयेत्कायं शोणितं प्रहितात्मनाम्

18.12

शोणिते तु विशुष्के वै ततो मांसं विशुष्यति ।
मांसेषु क्षीयमाणेषु भूयश्चित्तं प्रसीदति ।
भूयश्छन्दश्च वीर्यं च समाधिश्चावतिष्ठते

18.13

तस्यैव मे विहरतः प्राप्तस्योत्तमचेतनाम् ।
चित्तं नावेक्षते कायं पश्य सत्त्वस्य शुद्धताम्

18.14

अस्ति छन्दं तथा वीर्यं प्रज्ञापि मम विद्यते ।
तं न पश्याम्यहं लोके वीर्याद्यो मां विचालयेत्

18.15

वरं मृत्युः प्राणहरो धिग्ग्राम्यं नोपजीवितम् ।
संग्रामे मरणं श्रेयो यच्च जीवेत्पराजितः

18.16

नाशूरो जयते सेनां जित्वा चैनां न मन्यते ।
शूरस्तु जयते सेनां लघु मार जयामि ते

18.17

कामास्ते प्रथमा सेना द्वितीया अरतिस्तथा ।
तृतीया क्षुत्पिपासा ते तृष्णा सेना चतुर्थिका

18.18

पञ्चमी स्त्यानमिद्धं ते भयं षष्टी निरुच्यते ।
सप्तमी विचिकित्सा ते क्रोधम्रक्षौ तथाष्टमी

18.19

लोभश्लोकौ च संस्कारौ मिथ्यालब्धं च यद्यशः ।
आत्मानं यश्च उत्कर्षेद्यश्च वै ध्वंसयेत्परां

18.20

एषा हि नमुचेः सेना कृष्णबन्धोः प्रतापिनः ।
अत्रावगाढा दृश्यन्ते एते श्रमणब्राह्मणाः

18.21

या ते सेना धर्षयति लोकमेनं सदेवकम् ।
भेत्स्यामि प्रज्ञया तां ते आमपात्रमिवाम्बुना

18.22

स्मृतिं सूपस्थितां कृत्वा प्रज्ञां चैव सुभाविताम् ।
संप्रजानं चरिष्यामि किं करिष्यसि दुर्मते

18.23

एवमुक्ते मारः पापीयान् दुःखी दुर्मना अनात्तमना विप्रतिसारी तत्रैवान्तरधात् ॥
अथ खलु भिक्षवो बोधिसत्त्वस्यैतदभूत् - ये केचिच्छ्रमणा ब्राह्मणा वा अतीतानागतप्रत्युत्पन्नेष्वध्वस्वात्मोपक्रमिकां शरीरोपतापिकां दुःखां तीव्रां खरां कटुकाममनापां वेदनां वेदयन्ति एतावत्परमं ते दुःखमनुभवन्ति ॥
तस्य मे भिक्षव एतदभूत् - अनयापि खलु मया चर्यया अनयापि प्रतिपदा न कश्चिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषः साक्षात्कृतः । नायं मार्गो बोधेः । नायं मार्ग आयत्यां जातिजरामरणसंभवानामस्तंगमाय । स्यात्तदन्यो मार्गो बोधेरायत्यां जातिजरामरणदुःखसमुदयानामस्तंगमायेति ॥
तस्य मे भिक्षव एतदभवत् - यदहं पितुरुद्याने जम्बुच्छायायां निषण्णो विविक्तं कामैर्विविक्तं पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसंपद्य व्याहार्षं यावच्चतुर्थध्यानमुपसंपद्य व्याहार्षम्, स्यात्स मार्गो बोधेर्जातिजरामरणदुःखसमुदायानामसंभवायास्तंगमायेति । तदनुसारि च मे विज्ञानमभूत् । स मार्गो बोधेरिति ॥
तस्य ममैतदभूत् - नासौ मार्गः शक्यः एवं दौर्बल्यप्राप्तेनाभिसंबोद्धुम् । सचेत्पुनरहमभिज्ञाज्ञानबलेनैव लूहं दुर्बलकाय एव बोधिमण्डमुपसंक्रमेयम्, न मे पश्चिमा जनता अनुकम्पिता स्यात् । न चैष मार्गो बोधेः । यन्न्वहमौदारिकमाहारमाहृत्य कायबलस्थामं संजनय्य पश्चाद्बोधिमण्डमुपसंक्रमेयम् ॥
तत्र भिक्षवो ये ते लूहाधिमुक्ता देवपुत्रास्ते मम चेतसश्चेतसैव परिवितर्कमाज्ञाय येनाहं तेनोपसंक्रम्य मामेवमाहुः - मा स्म त्वं सत्पुरुष औदारिकमाहारमाहरेः । वयं ते रोमकूपैरोजः प्रक्षेप्स्याम इति ॥
तस्य मे भिक्षव एतदभूत् - अहं खल्वनशन इत्यात्मानं प्रतिजाने, सामन्ताश्च मे गोचरग्रामवासिनो जना एवं संजानन्ते स्म यथानशनः श्रमणो गौतमः । इतीव मे खलु लूहाधिमुक्ता देवपुत्रा रोमकूपैरोजः प्रक्षिपन्ति । स मम परमो मृषावादः स्यात् । ततो बोधिसत्त्वो मृषावादपरिहारार्थं तान् देवपुत्रान् प्रतिक्षिप्यौदारिकमाहारमाहर्तु चित्तं नामयति स्म ॥
इति हि भिक्षवः षड्वर्षव्रततपःसमुत्तीर्णो बोधिसत्त्वो ऽस्मादासनादुत्थायौदारिकमाहारमाहरिष्यामीति वाचं निश्चारयति स्म । तद्यथा फाणीकृतं मुद्गयूषं हरेणुकयूषं मथ्योदनकुल्माषमिति ॥
अथ खलु भिक्षवः पञ्चानां भद्रवर्गीयानामेतदभूत् - तयापि तावच्चर्यया तयापि तावत्प्रतिपदा श्रमणेन गौतमेन न शकितं किंचिदुत्तरिमनुष्यधर्मादलमार्यज्ञानदर्शनविशेषं साक्षात्कर्तुम्, किं पुनरेतर्हि औदारिकमाहारमाहरन् सुखल्लिकानुयोगमनुयुक्तो विहरन् । अव्यक्तो बालो ऽयमिति च मन्यमाना बोधिसत्त्वस्यान्तिकात्प्रक्रामन् । ते वाराणसीं गत्वा ऋषिपतने मृगदावे व्याहार्षुः ॥
तत्र बोधिसत्त्वमादित एव दुष्करचर्यां चरन्तं दश ग्रामिकदुहितरः कुमार्य उपगच्छन् दर्शनाय वन्दनाय पर्युपासनाय च । तैरपि पञ्चकैर्भद्रवर्गीयैरुपस्थितो ऽभूत् । एककोलतिलतण्डुलप्रदानेन ( वैद्य 194 ) च प्रतिपादितो ऽभूत् । बला च नाम दारिका बलगुप्ता च सुप्रिया च विजयसेना च अतिमुक्तकमला च सुन्दरी च कुम्भकारी च उलुविल्लिका च जटिलिका च सुजाता च नाम ग्रामिकदुहिताः । आभिः कुमारिकाभिर्बोधिसत्त्वाय सर्वास्ता यूषविधाः कृत्वोपनामिता अभूवन् । ताश्चाभ्यवहृत्य बोधिसत्त्वः क्रमेण गोचरग्रामे पिण्डाय चरन् वर्णरूपबलवानभूत् । तदग्रेण बोधिसत्त्वः सुन्दरः श्रमणो महाश्रमण इत्याचक्षते ॥
तत्र च भिक्षवः सुजाता ग्रामिकदुहिता बोधिसत्त्वस्य दुष्करचर्यां चरतः आदित एव बोधिसत्त्वस्य व्रततपःसमुत्तारणार्थं शरीरस्याप्यायनहेतोश्च प्रतिदिवसमष्टशतं ब्राह्मणानां भोजयति स्म । एवं च प्रणिदधाति स्म - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येतेति ॥
तस्य मे भिक्षवः षड्वर्षव्यतिवृत्तस्य काषायाणि वस्त्राणि परिजीर्णान्यभूवन् । तस्य मे भिक्षव एतदभूत् - सचेदहं कौपीनप्रच्छादनं लभेयम्, शोभनं स्यात् ॥
तेन खलु पुनर्भिक्षवः समयेन सुजाताया ग्रामिकदुहितुर्दासी राधा नाम कालगताभूत् । सा शाणकैः परिवेष्ट्य श्मशानमपकृष्य परित्यक्ताभुत् । तदहमेवाद्राक्षीत् पांशुकूलम् । ततो ऽहं तत्पांशुकूलं वामेन पादेनाक्रम्य दक्षिणं हस्तं प्रसार्यावनतो ऽभूत्तद्रहीतुम् ।
अथ भौमा देवा अन्तरीक्षाणां देवानां घोषमनुश्रावयन्ति स्म - आश्चर्यं मार्षा अद्भुतमिदं मार्षाः । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति । अन्तरीक्षा देवा भौमानां देवानां शब्दं श्रत्वा चातुर्महाराजिकानां देवानां घोषमुदीरयन्ति स्म । चातुर्महाराजिका देवास्त्रायत्रिंशतः । त्रायत्रिंशा यामानाम् । यामास्तुषितानाम् । तुषिता निर्माणरतीनाम् । निर्माणरतयः परनिर्मितवशवर्तिनाम् । परनिर्मितवशवर्तिनो यावद् ब्रह्मकायिकानाम् । इति हि भिक्षवस्तत्क्षणं तल्लवं तन्मुहूर्तं यावदकनिष्ठभुवनादेकघोष एकसंनिर्नादो ऽभ्युद्गतो ऽभूत् आश्चर्यमिदं मार्षा अद्भुतमिदम् । यत्र हि नामैवं महाराजकुलप्रसूतस्य चक्रवर्तिराज्यपरित्यागिनः पांशुकूले चित्तं नतमिति ॥
अथ बोधिसत्त्वस्य पुनरप्येतदभवत् - लब्धं मया पांशुकूलम् । सचेदुदकं लभेयम्, शोभनं स्यादिति । ततस्तत्रैव देवता पाणिना महीं पराहन्ति स्म । तत्र पुष्करिणी प्रादुरभूत् । अद्यापि सा पाणिहतेति पुष्करिणी संज्ञायते ॥
पुनरपि बोधिसत्त्वस्यैतदभवत् - लब्धं मया पानीयम् । सचेच्छिलां लभेयम्, यत्रेदं पांशुकूलं प्रक्षालयेयम्, शोभनं स्यात् । अथ तत्रैव शक्रेण शिला तत्क्षणमेवोपनिक्षिप्ताभूत् । ततो बोधिसत्त्वस्तत्पांशुकूलं प्रक्षालयति स्म ॥
अथ शक्रो देवराजो बोधिसत्त्वमेवमाह - ददस्वेदं सत्पुरुष मह्यम् । अहं प्रक्षालयिष्यामीति । ततो बोधिसत्त्वः स्वयंकारितां प्रव्रज्यायाः संदर्शयितुं तत्पांशुकूलं शक्रस्यादत्वा स्वयमेव प्रक्षालयति स्म । स श्रान्तः क्लान्तकायो ऽवतीर्य पुष्करिणीमुत्तरिष्यामीति । मारेण च पापीयसा ( वैद्य 195 ) ईर्ष्याधर्मपरीतेन पुष्करिण्या अत्युच्छ्रितानि तटानि निर्मितान्यभूवन् । तस्याश्च पुष्करिण्यास्तीरे महान् कुकुभपादपः । तत्र देवतां बोधिसत्त्वो लोकानुवृत्त्या देवतानुग्रहार्थं चाब्रवीत् - आहर देवते वृक्षशाखामिति । तया वृक्षशाखावनामिताभूत् । तां बोधिसत्त्वो ऽबलम्ब्योत्तरति स्म । उत्तीर्य च तस्य ककुभपादपस्याधस्तात्तत्पांशुकूलं संघाटीकृत्य आसीव्यति स्म । अद्यापि तत् पांशुकूलं सीवनमित्येवं संज्ञायते स्म ॥

अथ विमलप्रभो नाम शुद्धावासकायिको देवपुत्रः, स दिव्यानि चीवराणि काषायरङ्गरक्तानि कल्पिकानि श्रमणसारूप्याणि बोधिसत्त्वायोपनामयति स्म । बोधिसत्त्वश्च तानि गृहीत्वा पूर्वाह्णे निवास्य संघाटीप्रावृत्य गोचरग्रामाभिमुखो ऽभुत् ॥
तत्र देवताभिरुरुबिल्वासेनापतिग्रामके नन्दिकग्रामिकदुहितुः सुजाताया आरोचितमभूदर्धरात्रसमये - यदर्थं त्वं महायज्ञं यजसे तस्माद्व्रतादुत्तीर्णः सः । सुभगमौदारिकमाहारमाहरिष्यति । त्वया च पूर्वे प्रणिधानं कृतम् - मम भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिमभिसंबुध्येत इति । यत्ते करणीयं तत्कुरुष्वेति ॥
अथ खलु भिक्षवः सुजाता नन्दिकग्रामदुहिता तेषां देवतानां तद्वचनं श्रुत्वा शीघ्रं गोसहस्रस्य क्षीरात्सप्तकृत्सारोद्धृतादग्र्यमोजोमण्डं गृह्णीते स्म । गृहीत्वा च सा तत्क्षीर(मभिनवम)भिनवैस्तण्डुलैरभिनवायां स्थाल्यामभिनवां चुल्लीमुपलिप्य तद्भोजनं साधयति स्म । तस्मिंश्च साध्यमाने इमानि पूर्वनिमित्तानि संदृश्यन्ते स्म - तस्मिन् खल्वपि क्षीरे श्रीवत्सस्वस्तिकनन्द्यावर्तपद्मवर्धमानादीनि मङ्गल्यानि संदृश्यन्ते स्म । ततस्तस्या एतदभूत् - यादृशानीमानि पूर्वनिमित्तानि संदृश्यन्ते, निःसंशयमिदं भोजनं भुक्त्वा बोधिसत्त्वो ऽनुत्तरां सम्यक्संबोधिं प्राप्स्यति । सामुद्रज्ञानविधिज्ञश्च नैमित्तिकस्तं प्रदेशं प्राप्तो ऽभूत् । सो ऽपि तथैवामृताधिगमनमेव व्याकृतवान् । ततः सुजाता तं पायसं पक्वं स्थण्डिलमुपलिप्य पुष्पैरवकीर्य गन्धोदकेनाभ्युक्ष्य आसनं प्रज्ञाप्य सत्कृत्योत्तरां नाम चेटीमामन्त्रयते स्म - गच्छोत्तरे ब्राह्मणमानय । अहमिदं मधुपायसमवलोकयामि । साध्वार्य इति प्रतिश्रुत्य उत्तरा पूर्वां दिशमगमत् । सा तत्र बोधिसत्त्वं पश्यति स्म । तथैव दक्षिणाम् । बोधिसत्त्वमेव पश्यति स्म । एवं पश्चिमामुत्तरामेव दिशं गच्छति स्म, तत्र तत्र बोधिसत्त्वमेवाद्राक्षीत् । तेन खलु पुनः समयेन शुद्धावासकायिकैर्देवपुत्रैः सर्वे ऽन्यतीर्थिका निगृहीता अभूवन् । न कश्चित् संदृश्यते स्म । ततः सा आगत्वा स्वामिनीमेवमाह - न खल्वार्ये अन्यः कश्चिद् दृश्यते श्रमणो वा ब्राह्मणो वा, अन्यत्र यतो यत एव गच्छामि, तत्र तत्र श्रमणमेव सुन्दरं पश्यामि । सुजाता आह - गच्छोत्तरे स एव ब्राह्मणः, स एव श्रमणः । तस्यैवार्थे ऽयमारम्भः । तमेवानयेति । साध्वार्ये इत्युत्तरा गत्वा बोधिसत्त्वस्य चरणयोः प्रणिपत्य सुजाताया ( वैद्य 196 ) नाम्नोपनिमन्त्रयते स्म । ततो भिक्षवो बोधिसत्त्वः सुजाताया ग्रामिकदुहितुर्निवेशनं गत्वा प्रज्ञप्त एवासने न्यषीदत् । अथ खलु भिक्षवः सुजाता ग्रामिकदुहिता सुवर्णमयीं पात्रीं मधुपायसपूर्णां बोधिसत्त्वस्योपनामयति स्म ॥
अथ बोधिसत्त्वस्यैतदभवत् - यादृशमिदं सुजातया भोजनमुपनामितम्, निःसंशयमहमद्यैनं भोजनं भुक्त्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते ॥
अथ बोधिसत्त्वस्तद्भोजनं प्रतिगृह्य सुजातां ग्रामिकदुहितरमेतदवोचत् - इयं भगिनि सुवर्णपात्री । किं क्रियताम्? सा आह - तवैव भवत्विति । बोधिसत्त्व आह - न ममेदृशेन भाजनेन प्रयोजनम् । सुजाता आह - यथेष्टं क्रियताम् । नाहं विना भाजनेन कस्यचिद्भोजनं प्रयच्छामि ॥
अथ बोधिसत्त्वस्तं पिण्डपात्रमादायोरुबिल्वाया निष्क्रम्य नागनदीं पूर्वाह्णकालसमये नदीं नैरञ्जनामुपसंक्रम्य तं पिण्डपात्रं चीवराणि चैकान्ते निक्षिप्य नदीं नैरञ्जनामवतरति स्म गात्राणि शीतलीकर्तुम् ॥
बोधिसत्त्वस्य खलु पुनर्भिक्षवः स्नायतो ऽनेकानि देवपुत्रशतसहस्राणि दिव्यागुरुचन्दनचूर्णविलेपनैर्नदीमालोडयन्ति स्म । दिव्यानि च नानावर्णानि कुसुमानि जले क्षिपन्ति स्म यदुत बोधिसत्त्वस्य पूजाकर्मणे ॥
तेन खलु पुनः समयेन नैरञ्जना नदी दिव्यैर्गन्धैः पुष्पैश्च समाकुला वहति स्म । येन च गन्धोदकेन बोधिसत्त्वः स्नातो ऽभूत्, तं देवपुत्रकोटीनियुतशतसहस्राण्यभ्युत्क्षिप्य स्वकस्वकानि भवनानि नयन्ति स्म चैत्यार्थं पूजार्थं च ॥
यानि च बोधिसत्त्वस्य केशश्मश्रूण्यभूवन्, तानि सर्वाणि सुजाता ग्रामिकदुहिता मङ्गल्यानीति कृत्वा चैत्यार्थं पूजार्थं च परिगृह्णीते स्म ॥
नद्युत्तीर्णश्च बोधिसत्त्वः पुलिनं निरीक्षते स्म उपवेष्टुकामः । अथ या नैरञ्जनायां नद्यां नागकन्या सा धरणितलादभ्युद्गभ्य मणिमयं (मनोरमं) भद्रासनं बोधिसत्त्वायोपनामयति स्म । तत्र बोधिसत्त्वो निषद्य यावदर्थं तं मधुपायसं परिभुङ्क्ते स्म सुजाताया ग्रामिकदुहितुरनुकम्पामुपादाय । परिभुज्य च तां सुवर्णपात्रीमनपेक्षो वारिणि प्राक्षिपति स्म । क्षिप्तमात्रां च तां सागरो नागराजश्चित्तिकारबहुमानजातो गृहीत्वा स्वभवनाभिमुखः प्रस्थितो ऽभुत् पूजार्हेति कृत्वा । अथ दशशतनयनः पुरंदरो गरुडरूपमभिनिर्माय वज्रतुण्डो भूत्वा सागरस्य नागराजस्यान्तिकात्तां सुवर्णपात्रीं हर्तुमारब्धः । यदा न शक्नोति स्म, तदा स्वरूपेणादरेण याचित्वा त्रायत्रिंशद्भवनं नीतवान् पूजार्थं चैत्यार्थं च । नीत्वा पात्रीयात्रां नाम पर्वणि प्रवर्तितवान् । अद्यापि च त्रायत्रिंशेषु देवेषु प्रतिसंवत्सरं पात्रीमहो वर्तते । तच्च भद्रासनं तयैव नागकन्यया परिगृहीतं चैत्यार्थं पूजार्थं च ॥
समन्तपरिभुक्तश्च भिक्षवो बोधिसत्त्वेनौदारिक आहारः । अथ तत्क्षणमेव बोधिसत्त्वस्य पुण्यबलेन प्रज्ञाबलेन पूर्विका काये शुभवर्णपुष्करता प्रादुरभूत् । द्वात्रिंशच्च महापुरुषलक्षणानि अशीतिश्चानुव्यञ्जनानि व्यामप्रभता च । तत्रेदमुच्यते -
षड्वर्ष व्रत उत्तरित्व भगवान् एवं मतिं चिन्तयन् सो ऽहं ध्यानअभिज्ञज्ञानबलवानेवं कृशाङ्गो ऽपि सन् । गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुद्धितुं नो मे स्यादनुकम्पिता हि जनता एवं भवेत् पश्चिमा

18.24

यत्त्वौदारिक भुक्त्व भोजनवरं काये बलं कृत्वना गच्छेयं द्रुमराजमूलविटपं सर्वज्ञतां बुध्यितुम् । मा हैवेत्वरपुण्य देवमनुजा लूहेन ज्ञानेक्षिणो नो शक्ता सिय बुध्यनाय अमृतं कायेन ते दुर्बलाः

18.25

सा च ग्रामिकधीत पूर्वचरिता नाम्ना सुजाता इति
यज्ञा नित्यु यजाति एवमनसा सिद्धे व्रतं नायके ।
सा देवान निशाम्य चोदन तदा गृह्या मधूपायसं
उपगम्या नदितीरि हृष्टमनसा नैरञ्जनायाः स्थिता

18.26

सो चाकल्पसहस्रचीर्णचरितो शान्तप्रशान्तेन्द्रियो
देवैर्नागगणैरृषी परिवृतो आगत्य नैरञ्जनाम् ।
तीर्णस्तारकु पारसत्त्व मतिमां स्नाने मतिं चिन्तयन्
ओरुह्या नदि स्नापि शुद्धविमलो लोकानुकम्पी मुनिः

18.27

देवा कोटिसहस्र हृष्टमनसा गन्धाम्बु चूर्णानि च
ओरुह्या नदि लोडयन्ति सलिलं स्नानार्थ सत्त्वोत्तमे ।
स्नाना स्नात्वन बोधिसत्त्व विमलस्तीरे स्थितः सूरतः
हर्षुर्देवसहस्र स्नानसलिलं पूजार्थ सत्त्वोत्तमे

18.28

काषायानि च वस्त्र निर्मल शुभा ता देवपुत्रो ददे
कल्पीयानि च संनिवास्य भगवांस्तीरे हि नद्याः स्थितः ।
नागाकन्य उदग्र हृष्टमनसा भद्रासनं सा न्यषीत्
यत्रासौ निषसाद शान्तमनसो लोकस्य चक्षुष्करः

18.29

दत्त्वा भोजनु सा सुजात मतिमां स्वर्णामये भाजने
वन्दित्वा चरणानि सा प्रमुदिता परिभुङ्क्ष्व मे सारथे ।
भुक्त्वा भोजनु यावदर्थ मतिमान् पात्रीं जले प्राक्षिपत्
तां जग्राह पुरंदरः सुरगुरुः पूजां करिष्याम्यहम्

18.30

यद भुक्तं च जिनेन भोजनवरं ओदारिकं तत्क्षणे
तस्या कायबलं च तेजशिरिया पूर्वं यथा संस्थितम् ।
धर्मा कृत्व कथा सुजात मरुणां कृत्वा च अर्थं बहुं
सिंहो हंसगतिर्गजेन्द्रगमनो बोधिद्रुमं संस्थितः

मूल पाठ: Lalitavistara · Edition: P.L. Vaidya, Darbhanga: The Mithila Institute, 1958 (Buddhist Sanskrit Texts, 1) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc