भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 663-682

663

शिद्भाविनो ऽस्मात्तङानौ स्तः । शीयते । शीयताम् । अशीयत । शीयेत । शशाद । शत्ता । शत्स्यति । अशदत् । अशत्स्यत् ॥ कॄ विक्षेपे ॥ 39 ॥
ॠत इद्धातोः

664

ॠदन्तस्य धातोरङ्गस्य इत्स्यात् । किरति । चकार । चकरतुः । चकरुः । करीता, करिता । कीर्यात् ॥
किरतौ लवने

665

उपात्किरतेः सुट् छेदने। उपस्किरति । ( अडभ्यासव्यवाये ऽपि सुट्कात् पूर्व इति वक्तव्यम् ) । उपास्किरत् । उपचस्कार ॥
हिंसायां प्रतेश्च

666

उपात्प्रतेश्च किरतेः सुट् स्यात् हिंसायाम् । उपस्किरति । प्रतिस्किरति ॥ गॄ निगरणे ॥ 40 ॥
अचि विभाषा

667

गिरते रेफस्य लो वाजादौ प्रत्यये । गिरति, गिलति । जगार, जगाल । जगरिथ, जगलिथ । गरीता, गरिता, गलीता, गलिता ॥ प्रच्छ ज्ञीप्सायाम् ॥ 42 ॥ ग्रहिज्येति सम्प्रसारणम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् ॥ मृङ् प्राणत्यागे ॥ 42 ॥
म्रियतेर्लुङ्लिङोश्च

668

लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । रिङ् । इयङ् । म्रियते । ममार । मर्ता । मरिष्यति । मृषीष्ट । अमृत ॥ पृङ् व्यायामे ॥ 43 ॥ प्रायेणायं व्याङ्पूर्वः । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् ॥ जुषी प्रीतिसेवनयोः ॥ 44 ॥ जुषते । जुजुषे ॥ ओविजी भयचलनयोः ॥ 45 ॥ प्रायेणायमुत्पूर्वः । उद्विजते ॥
विज इट्

669

विजेः पर इडादिप्रत्ययो ङिद्वत् । उद्विजिता ॥
इति तुदादयः ॥ 6 ॥
अथ रुधादयः
रुधिर् आवरणे ॥ 1 ॥
रुधादिभ्यः श्नम्

670

शपो ऽपवादः । रुणद्धि । श्नसोरल्लोपः । रुन्धः । रुन्धन्ति । रुणत्सि । रुन्धः । रुन्ध । रुणध्मि । रुन्ध्वः । रुन्ध्मः । रुन्धे । रुन्धाते । रुन्धते । रुन्त्से । रुन्धाथे । रुन्ध्वे । रुन्धे । रुन्ध्वहे । रुन्ध्महे । रुरोध, रुरुधे । रोद्धासि, रोद्धासे । रोत्स्यसि, रोत्स्यसे । रोत्स्यति, रोत्स्यते । रुणद्धु, रुन्धात् । रुन्धाम् । रुन्धन्तु । रुन्धि । रुणधानि । रुणधाव । रुणधाम । रुन्धाम् । रुन्धाताम् । रुन्धताम् । रुन्त्स्व । रुणधै । रुणधावहै । रुणधामहै । अरुणत्, अरुणद् । अरुन्धताम् । अरुन्धन् । अरुणः, अरुणत्, अरुणद् । अरुन्ध । अरुन्धाताम् । अरुन्धत । अरुन्धाः । रुन्ध्यात् । रुन्धीत । रुध्यात्, रुत्सीष्ट । अरुधत्, अरौत्सीत् । अरुद्ध । अरुत्साताम् । अरुत्सत । अरोत्स्यत्, अरौत्सीत् । अरुद्ध । अरुत्साताम् । अरुत्सत । अरोत्स्यत्, अरोत्स्यत ॥ भिदिर् विदारणे ॥ 2 ॥ छिदिर् द्वैधीकरणे ॥ 3 ॥ युजिर् योगे ॥ 4 ॥ रिचिर् विरेचने ॥ 5 ॥ रिणक्ति, रिङ्क्ते । रिरेच । रेक्ता रेक्ष्यति अरिणक् । अरिचत्, अरैक्षीत्, अरिक्त ॥ विचिर् पृथग्भावे ॥ 6 ॥ विनक्ति विङ्क्ते ॥ क्षुदिर् संपेषणे ॥ 7 ॥ क्षुणत्ति, क्षुन्ते । क्षोत्ता ॥ अक्षुदत्, अक्षौत्सीत्, अक्षुत्त । उच्छृदिर् दीप्तिदेवनयोः ॥ 8 ॥ छृणत्ति छृन्ते । चच्छर्द । से ऽसिचीति वेट् । चच्छृदिषे, चच्छृत्से । छर्दिता । छर्दिष्यति, छर्त्स्यति । अच्छृदत्, अच्छर्दीत्, अच्छर्दिष्ट ॥ उत्तृदिर् हिंसानादरयोः ॥ 9 ॥ तृणत्ति, तृन्ते ॥ कृती वेष्टने ॥ 10 ॥ कृणत्ति ॥ तृह हिसि हिंसायाम् ॥ 11-12॥
तृणह इम्

671

तृहः श्नमि कृते इमागमो हलादौ पिति सार्वधातुके । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् ॥
श्नान्नलोपः

672

श्नमः परस्य नस्य लोपः स्यात् । हिनस्ति । जिहिंस । हिंसिता ॥
तिप्यनस्तेः

673

पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । ससजुषोरुरित्यस्यापवादः । अहिनत्, अहिनद् । अहिंस्ताम् । अहिंसन् ॥
सिपि धातो रुर्वा

674

पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः । अहिनः, अहिनत्, अहिनद् ॥ उन्दी क्लेदने ॥ 13 ॥ उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत्, औनद् । औन्ताम् । औन्दन् । औनः, औनत्, औनद् । औनदम् ॥ अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु ॥ 14 ॥ अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ, आनङ्क्थ । अञ्जिता, अङ्क्ता । अङ्ग्धि । अनजानि । आनक् ॥
अञ्जेः सिचि

675

अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् ॥ तञ्चू संकोचने ॥ 15 ॥ तनक्ति । तञ्चिता, तङ्क्ता । ओविजी भयचलनयोः ॥ 16 ॥ विनक्ति ॥ विङ्क्तः । विज इडिति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् ॥ शिषॢ विशेषणे ॥ 17 ॥ शिनष्टि । शिं शिंष्टः । शिंषन्ति । शिनक्षि । शिशेष । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । शिण्ड्ढि । शिनषाणि । अशिनट् । शिंष्यात् । शिष्यात् । अशिषत् ॥ एवं पिषॢ संचूर्णने ॥ 18 ॥ भञ्जो आमर्दने ॥ 19 ॥ श्नान्नलोपः । भनक्ति । बभञ्जिथ, बभङ्क्थ । भङ्क्ता । भङ्ग्धि । अभाङ्क्षीत् ॥ भुज पालनाभ्यवहारयोः ॥ 20 ॥ भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् ॥
भुजो ऽनवने

676

तङानौ स्तः । ओदनं भुङ्क्ते । अनवने किम्? महीं भुनक्ति ॥ ञिइन्धी दीप्तौ ॥ 21 ॥ इन्द्धे । इन्धाते । इन्धाताम् । इनधै । ऐन्ध । ऐन्धताम् । ऐन्धाः । विद विचारणे ॥ 22 ॥ विन्ते । वेत्ता ॥
इति रुधादयः ॥ 7 ॥
अथ तनादयः
तनु विस्तारे ॥ 1 ॥
तनादिकृञ्भ्य उः

677

शपो ऽपवादः । तनोति, तनुते । ततान, तेने । तनितासि, तनितासे । तनोतु । तनुताम् । अतनोत्, अतनुत । तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतानीत्, अतनीत् ॥
तनादिभ्यस्तथासोः

678

तनादेः सिचो वा लुक् स्यात्तथासोः । अतत, अतनिष्ट । अतथाः, अतनिष्टाः । अतनिष्यत्, अतनिष्यत ॥ षणु दाने ॥ 2 ॥ सनोति, सनुते ॥
ये विभाषा

679

जनसनखनामात्वं वा यादौ क्ङिति । सायात्, सन्यात् ॥
जनसनखनां सञ्झलोः

680

एषामाकारे ऽन्तादेशः स्यात् सनि झलादौ क्ङिति । असात, असनिष्ट ॥ क्षणु हिंसायाम् ॥ 3 ॥ क्षणोति, क्षणुते ॥ ह्म्यन्तेति न वृद्धिः । अक्षणीत्, अक्षत, अक्षणिष्ट । अक्षथाः, अक्षणिष्ठाः ॥ क्षिणु च ॥ 4 ॥ अप्रत्यये लघूपधस्य गुणो वा । क्षेणोति, क्षिणोति । क्षेणिता । अक्षेणीत्, अक्षित, अक्षेणिष्ट ॥ तृणु अदने ॥ 5 ॥ तृणोति, तर्णोति; तृणुते, तर्णुते ॥ डुकृञ् करणे ॥ 6 ॥ करोति ॥
अत उत्सार्वधातुके

681

उप्रत्ययान्तस्य कृञो ऽकारस्य उः स्यात् सार्वधातुके क्ङिति । कुरुतः ॥
न भकुर्छुराम्

682

भस्य कुर्छुरोरुपधाया न दीर्घः । कुर्वन्ति ॥
नित्यं करोतेः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc