लघुसिद्धान्तकौमुदी · श्लोक 643-662
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जनिता । जनिष्यते ॥
दीपजनबुधपूरितायिप्यायिभ्यो ऽन्यरतस्याम्
एभ्यश्च्लेश्चिण् वा स्यादेकवचने तशब्दे परे ॥
चिणो लुक्
चिणः परस्य लुक् स्यात् ॥
जनिवध्योश्च
अनयोरुपधाया वृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि, अजनिष्ट ॥ दीपी दीप्तौ ॥ 20॥ दीप्यते । दिदीपे । अदीपि, अदीपिष्ट ॥ पद गतौ ॥ 21 ॥ पद्यते । पेदे । पत्ता । पत्सीष्ट ॥
चिण् ते पदः
पदश्च्लेश्चिण् स्यात्तशब्दे परे । अपादि । अपत्साताम् । अपत्सत ॥ विद सत्तायाम् ॥ 22 ॥ विद्यते । वेत्ता । अवित्त ॥ बुध अवगमने ॥ 23 ॥ बुध्यते । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि, अबुद्ध । अभुत्साताम् ॥ युध संप्रहारे ॥ 24 ॥ युध्यते । युयुधे । योद्धा । अयुद्ध ॥ सृज विसर्गे ॥ 25 ॥ सृज्यते । ससृजे । ससृजिषे ॥
सृजिदृशोर्झल्यमकिति
अनयोरमागमः स्याज्झलादावकिति । स्रष्टा । स्रक्ष्यति । सृक्षीष्ट । असृष्ट । असृक्षाताम् ॥ मृष तितिक्षायाम् ॥ 26 ॥ मृष्यति, मृष्यते ॥ ममर्ष । ममर्षिथ । ममृषिषे । मर्षितासि । मर्षिष्यति, मर्षिष्यते ॥ णह बन्धने ॥ 27 ॥ नह्यति, नह्यते । ननाह । नेहिथ, ननद्ध । नेहे । नद्धा । नत्स्यति । अनात्सीत्, अनद्ध ॥
इति दिवादयः ॥ 4 ॥
अथ स्वादयः
षुञ् अभिषवे ॥ 1 ॥
स्वादिभ्यः श्नुः
शपो ऽपवादः । सुनोति । सुनुतः । हुश्नुवोरिति यण् । सुन्वन्ति । सुन्वः, सुनुवः । सुनुते । सुन्वाते । सुन्वते । सुन्वहे, सुनुवहे । सुषाव, सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् ॥
स्तुसुधूञ्भ्यः परस्मैपदेषु
एभ्यस्सिच इट् स्यात्परस्मैपदेषु । असावीत्, असोष्ट ॥ चिञ् चयने ॥ 2 ॥ चिनोति, चिनुते ॥
विभाषा चेः
अभ्यासात्परस्य कुत्वं वा स्यात्सनि लिटि च । चिकाय, चिचाय; चिक्ये, चिच्ये । अचैषीत्, अचेष्ट ॥ स्तृञ् आच्छादने ॥ 3 ॥ स्तृणोति, स्तृणुते ॥
शर्पूर्वाः खयः
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते ऽन्ये हलो लुप्यन्ते । तस्तार । तस्तरतुः । तस्तरे । गुणोर्ऽतीति गुणः । स्तर्यात् ॥
ऋतश्च संयोगादेः
ऋदन्तात्संयोगादेः परयोः लिङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट, स्तृषीष्ट । अस्तरिष्ट, अस्तृत ॥ धूञ् कम्पने ॥ 4 ॥ धूनोति, धूनुते । दुधाव । स्वरतीति वेट् । दुधविथ, दुधोथ ॥
श्र्युकः किति
श्रिञ एकाच उगन्ताच्च गित्कितोरिण् न । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेध काण्डारम्भ सामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । दुधुविव । दुधुवे । अधावीत्, अधविष्ट, अधोष्ट । अधविष्यत्, अधोष्यत् । अधविष्यताम्, अधोष्यताम् । अधविष्यत, अधोष्यत ॥
इति स्वादयः ॥ 5 ॥
अथ तुदादयः
तुद व्यथने ॥ 1 ॥
तुदादिभ्यः शः
शपो ऽपवादः । तुदति, तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत्, अतुत ॥ णुद प्रेरणे ॥ 2 ॥ नुदति, नुदते । नुनोद । नोत्ता । भ्रस्ज पाके ॥ 3 ॥ ग्रहिज्येति सम्प्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति, भृज्जते ॥
भ्रस्जो रोपधयो रमन्यतरस्याम्
भ्रस्जो रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्वादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ, बभर्ष्ठ । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोरिति सलोपः । व्रश्चेति षः । बभ्रष्ठ । बभर्जे, बभ्रज्जे । भर्ष्टा, भ्रष्टा । भर्क्ष्यति, भ्रक्ष्यति । क्ङिति रमागमं बाधित्वा सम्प्रसारणं पूर्वविप्रतिषेधेन । भृज्ज्यात् । भृज्ज्यास्ताम् । भृज्ज्यासुः । भर्क्षीष्ट, भ्रक्षीष्ट । अभार्क्षीत्, अभ्राक्षीत् । अभर्ष्ट, अभ्रष्ट ॥ कृष विलेखने ॥ 4 ॥ कृषति कृषते । चकर्ष, चकृषे ॥
अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्
उपदेशे ऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । (स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वक्तव्यः) । अक्राक्षीत्, अकार्क्षीत्, अकृक्षत् । अकृष्ट । अकृक्षाताम् । अकृक्षत । क्सपक्षे अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥ मिल संगमे ॥ 5 ॥ मिलति, मिलते, मिमेल । मेलिता । अमेलीत् ॥ मुचॢ मोचने ॥ 6 ॥
शे मुचादीनाम्
मुच् लिप् विद् लुप् सिच् कृत् खिद् पिशां नुम् स्यात् शे परे । मुञ्चति, मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत्, अमुक्त । अमुक्षाताम् । लुपॢ छेदने ॥ 7 ॥ लुम्पति, लुम्पते । लोप्ता । अलुपत् । अलुप्त । विदॢ लाभे ॥ 8 ॥ विन्दति, विन्दते । विवेद, विवेदे । व्याघ्रभूतिमते सेट् । वेदिता । भाष्यमते ऽनिट् । परिवेत्ता ॥ षिच क्षरणे ॥ 9 ॥ सिञ्चति, सिञ्चते ॥
लिपिसिचिह्वश्च
एभ्यश्च्लेरङ् स्यात् । असिचत् ॥
आत्मनेपदेष्वन्यतरस्याम्
लिपिसिचिह्वः परस्य च्लेरङ् वा । असिचत, असिक्त ॥ लिप उपदेहे ॥ 10 ॥ उपदेहो वृद्धिः । लिम्पति, लिम्पते । लेप्ता । अलिपत्, अलिपत, अलिप्त॥
इत्युभयपदिनः ।
कृती छेदने ॥ 11 ॥ कृन्तति । चकर्त । कर्तिता । कर्तिष्यति, कर्त्स्यति । अकर्तीत् ॥ खिद परिघाते ॥ 12 ॥ खिन्दति । चिखेद । खेत्ता ॥ पिश अवयवे ॥ 13 ॥ पिंशति । पेशिता ॥ ओव्रश्चू छेदने ॥ 14 ॥ वृश्चति । वव्रश्च । वव्रश्चिथ, वव्रष्ठ । व्रश्चिता, व्रष्टा । व्रश्चिष्यति, व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत्, अव्राक्षीत् ॥ व्यच व्याजीकरणे ॥ 15 ॥ विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्, अव्यचीत् । व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते, अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ॥ उछि उञ्छे ॥ 16 ॥ उञ्छति । ऽउञ्छः कणश आदानं कणिशाद्यर्जनं शिलम् ।ऽ; इति यादवः ॥ ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु ॥ 17 ॥ ऋच्छति । ऋच्छत्यॄतामिति गुणः । द्विहल् ग्रहणस्य अनेक हलुपसक्षणत्वान्नुट् । आनर्च्छ । आनर्च्छतुः । ऋच्छिता ॥ उज्झ उत्सर्गे ॥ 18 ॥ उज्झति ॥ लुभ विमोहने ॥ 19 ॥ लुभति ॥
तीषसहलुभरुषरिषः
इच्छत्यादेः परस्य तादेरार्धधातुकस्येड्वा स्यात् । लोभिता, लोब्धा । लोभिष्यति ॥ तृप तृम्फ तृप्तौ ॥ 20-21 ॥ तृपति । ततर्प । तर्पिता । अतर्पीत् । तृम्फति । ( शे तृम्फादीनां नुम् वाच्यः) । आदिशब्दः प्रकारे, तेन ये ऽत्र नकारानुषक्तास्ते तृम्फादयः । ततृम्फ । तृफ्यात् ॥ मृड पृड सुखने ॥ 22-23 ॥ मृडति । पृडति । शुन गतौ ॥ 24 ॥ शुनति ॥ इषु इच्छायाम् ॥ 25 ॥ इच्छति । एषिता, एष्टा । एषिष्यति । इष्यात् । ऐषीत् ॥ कुट कौटिल्ये ॥ 26 ॥ गाङ्कुटादीति ङित्त्वम् ॥ चुकुटिथ । चुकोट, चुकुट । कुटिता ॥ पुट संश्लेषणे ॥ 27 ॥ पुटति । पुटिता । स्फुट विकसने ॥ 28 ॥ स्पुटति । स्पुटिता ॥ स्फुर स्फुल संचलने ॥ 29-30 ॥ स्फुरति । स्फुलति ॥
स्फुरतिस्फुलत्योर्निर्निविभ्यः
षत्वं वा स्यात् । निःष्फुरति, निःस्फुरति । णू स्तवने ॥ 31 ॥ परिणूतगुणोदयः । नुवति । नुनाव । नुविता ॥ टुमस्जो शुद्धौ ॥ 32 ॥ मज्जति । ममज्ज । ममज्जिथ । मस्जिनशोरिति नुम् । ( मस्जेरन्त्यात्पूर्वो नुम्वाच्यः) । संयेगादिलोपः । ममङ्क्थ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः ॥ रुजो भङ्गे ॥ 33 ॥ रुजति । रोक्ता । रोक्ष्यति । अरौक्षीत् ॥ भुजो कौटिल्ये ॥ 34 ॥ रुजिवत् ॥ विश प्रवेशने ॥ 35 ॥ विशति ॥ मृश आमर्शने ॥ 36 ॥ आमर्शनं स्पर्शः ॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् ॥ षदॢ विशरणगत्यवसादनेषु ॥ 37 ॥ सीदतीत्यादि ॥ शदॢ शातने ॥ 38 ॥
शदेः शितः
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0