भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 623-642

623

अनयोरातो लोपः क्ङिति सार्वधातुके । जहति । जहौ । हाता । हास्यति । जहातु, जहितात्, जहीतात् ॥
आ च हौ

624

जहातेर्है परे आ स्याच्चादिदीतौ । जहाहि, जहिहि, जहीहि । अजहात् । अजहुः ॥
लोपो यि

625

जहातेरालोपो यादौ सार्वधातुके । जह्यात् । एर्लिङि । हेयात् । अहासीत् । अहास्यत् ॥ माङ् माने शब्दे च ॥ 6 ॥
भृञामित्

626

भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । मिमीते । मिमाते । मिमते । ममे । माता । मास्यते । मिमीताम् । अमिमीत । मिमीत । मासीष्ट । अमास्त । अमास्यत ॥ ओहाङ् गतौ ॥ 7 ॥ जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत ॥ डु भृञ् धारणपोषणयोः ॥ 8 ॥ बिभर्ति । बिभृतः । बिभ्रति । बिभृते । बिभ्राते । बिभ्रते । विभराञ्चकार, बभार । बभर्थ । बभृव । बिभराञ्चक्रे, बभ्रे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अबिभः । अबिभृताम् । अबिभरुः । अबिभृत । बिभृयात्, बिभ्रीत । भ्रियात्, भृषीष्ट । अभार्षीत्, अभृत । अभरिष्यत्, अभरिष्यत ॥ डु दाञ् दाने ॥ 9 ॥ ददाति । दत्तः । ददति । दत्ते । ददाते । ददते । ददौ, ददे । दातासि, दातासे । दास्यति, दास्यते । ददातु ॥
दाधा घ्वदाप्

627

दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना । घ्वसोरित्येत्त्वम् । देहि । दत्तम् । अददात्, अदत्त । दद्यात्, ददीत । देयात्, दासीष्ट । अदात् । अदाताम् । अदुः ॥
स्थाघ्वोरिच्च

628

अनयोरिदन्तादेशः सिच्च कित्स्यादात्मनेपदे । अदित । अदास्यत्, अदास्यत ॥ डु धाञ् धारणपोषणयोः ॥ 10 ॥ दधाति ॥
दधस्तथोश्च

629

द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तयोः स्ध्वोश्च परतः । धत्तः । दधति । दधासि । धत्थः । धत्थ । धत्ते । दधाते । दधते । धत्से । धद्ध्वे । घ्वसोरेद्धावभ्यास लोपश्च । धेहि । अदधात्, अधत्त । दध्यात्, दधीत । धेयात्, धासीष्ट । अधात्, अधित । अधास्यत् । अधास्यत ॥ णिजिर् शौचपोषणयोः ॥ 11 ॥ (इर इत्संज्ञा वाच्या ) ॥
णिजां त्रयाणां गुणः श्लौ

630

णिज्विज्विषामभ्यासस्य गुणः स्यात् श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । नेनिक्ते । निनेज, निनिजे । नेक्ता । नेक्ष्यति, नेक्ष्यते । नेनेक्तु । नेनिग्धि ॥
नाभ्यस्तस्याचि पिति सार्वधातुके

631

लघूपधगुणो न स्यात् । नेनिजानि । नेनिक्ताम् । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात् । नेनिजीत । निज्यात्, निक्षीष्ट ॥
इरितो वा

632

इरितो धातोश्च्लेरङ् वा परस्मै पदेषु । अनिजत्, अनैक्षीत्, अनिक्त । अनेक्ष्यत्, अनेक्ष्यत ॥
इति जुहोत्यादयः ॥ 3 ॥
अथ दिवादयः
दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु ॥ 1 ॥
दिवादिभ्यः श्यन्

633

शपो ऽपवादः । हलि चेति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् ॥ एवं षिवु तन्तुसन्ताने ॥ 2 ॥ नृती गात्रविक्षेपे ॥ 3 ॥ नृत्यति । ननर्त । नर्तिता ॥
से ऽसिचि कृतचृतच्छृदतृदनृतः

634

एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा । नर्तिष्यति, नर्त्स्यति । नृत्यतु । अनृत्यत् । नृत्येत् । नृत्यात् । अनर्तीत् । अनर्तिष्यत्, अनर्त्स्यत् ॥ त्रसी उद्वेगे ॥ 4 ॥ वा भ्राशेति श्यन्वा । त्रस्यति, त्रसति । तत्रास ॥
वा जॄभ्रमुत्रसाम्

635

एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा । त्रेसतुः, तत्रसतुः । त्रेसिथ, तत्रसिथ । त्रसिता ॥ शो तनूकरणे ॥ 5 ॥
ओतः श्यनि

636

लोपः स्यात् । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति ॥
विभाषा घ्राधेट्शाच्छासः

637

एभ्यस्सिचो लुग्वा स्यात्परस्मैपदे परे । अशात् । अशाताम् । अशुः । इट्सकौ । अशासीत् । अशासिष्टाम् ॥ छो छेदने ॥ 6 ॥ छ्यति ॥ षो ऽन्तकर्मणि ॥ 7 ॥ स्यति । ससौ ॥ दो ऽवखण्डने ॥ 8 ॥ द्यति । ददौ । देयात् । अदात् ॥ व्यध ताडने ॥ 9 ॥
ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृञ्जतीनां ङिति च

638

एषां सम्प्रसारणं स्यात्किति ङिति च । विध्यति । विव्याध । विविधतुः । विविधुः । विव्यधिथ, विव्यद्ध । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् ॥ पुष पुष्टौ ॥ 10 ॥ पुष्यति । पुपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादीत्यङ् । अपुषत् ॥ शुष शोषणे ॥ 11 ॥ शुष्यति । शुशोष । अशुषत् ॥ णश अदर्शने ॥ 12 ॥ नश्यति । ननाश । नेशतुः ॥
रधादिभ्यश्च

639

रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । नेशिथ ॥
मस्जिनशोर्झलि

640

नुम् स्यात् । ननंष्ठ । नेशिव, नेश्व । नेशिम, नेश्म । नशिता, नंष्टा । नशिष्यति, नङ्क्ष्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । अनशत् ॥ षूङ् प्राणिप्रसवे ॥ 13 ॥ सूयते । सुषुवे । क्रादिनियमादिट् । सुषुविषे । सुषुविवहे । सुषुविमहे । सविता सोता ॥ दूङ् परितापे ॥ 14 ॥ दूयते ॥ दीङ् क्षये ॥ 15 ॥ दीयते ॥
दीङो युडचि क्ङिति

641

दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् । ( वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ ) । दिदीये ॥
मीनातिमिनोतिदीङां ल्यपि च

642

एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते । दाता । दास्यति । (स्थाघ्वोरित्त्वे दीङः प्रतिषेधः) । अदास्त ॥ डीङ् विहायसा गतौ ॥ 16 ॥ डीयते । डिड्ये । डयिता ॥ पीङ् पाने ॥ 17 ॥ पीयते । पेता । अपेष्ट ॥ माङ् माने ॥ 18 ॥ मायते । ममे ॥ जनी प्रादुर्भावे ॥ 19 ॥
ज्ञाजनोर्जा

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc