भाषा

ENहिગુ
ग्रंथ पाठ

लघुसिद्धान्तकौमुदी · श्लोक 603-622

603

वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति, ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । ऊर्णुवाते । ऊर्णुवते । ( ऊर्णोतेराम्नेति वाच्यम् ) ॥
न न्द्राः संयोगादयः

604

अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥
विभाषोर्णोः

605

इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुविता, ऊर्णविता । ऊर्णुविष्यति, ऊर्णविष्यति । ऊर्णौतु, ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥
गुणो ऽपृक्ते

606

ऊर्णोतेर्गुणो ऽपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोतु । और्णोः । ऊर्णुयात् । ऊर्णुयाः । ऊर्णुवीत । ऊर्णूयात् । ऊर्णुविषीष्ट, ऊर्णविषीष्ट ॥
ऊर्णोतेर्विभाषा

607

इडादौ सिचि वा वृद्धिः परस्मैपदे परे । पक्षे गुणः । और्णावीत्, और्णुवीत्, और्णवीत् । और्णाविष्टाम्, और्णुविष्टाम्, और्णविष्टाम् । और्णुविष्ट, और्णविष्ट । और्णुविष्यत्, और्णविष्यत् । और्णुविष्यत, और्णविष्यत ॥
इत्यदादयः ॥ 2 ॥
अथ जुहोत्यादयः
हु दानादनयोः ॥ 1 ॥
जुहोत्यादिभ्यः श्लुः

608

शपः श्लुः स्यात् ॥
श्लौ

609

धातोर्द्वे स्तः । जुहोति । जुहुतः ।
अदभ्यस्तात्

610

झस्यात्स्यात् । हुश्नुवोरिति यण् । जुह्वति ॥
भीह्रीभृहुवां श्लुवच्च

611

एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्यं च । जुहवाञ्चकार, जुहाव । होता । होष्यति । जुहोतु, जुहुतात् । जुहुताम् । जुह्वतु । जुहुधि । जुहवानि । अजुहोत् । अजुहुताम् ॥
जुसि च

612

इगन्ताङ्गस्य गुणो ऽजादौ जुसि । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । अहोष्यत् ॥ ञिभी भये ॥ 2 ॥ बिभेति ॥
भियो ऽन्यतरस्याम्

613

इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः, बिभीतः । बिभ्यति । बिभयाञ्चकार, बिभाय । भेता । भेष्यति । बिभेतु, बिभितात्, बिभीतात् । अबिभेत् । बिभीयात् । भीयात् । अभैषीत् । अभेष्यत् ॥ ह्री लज्जायाम् ॥ 3 ॥ जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयाञ्चकार, जिह्राय । ह्रेता । ह्रेष्यति । जिह्रेतु । अजिह्रेत् । जिह्रियात् । ह्रीयात् । अह्रैषीत् । अह्रेष्यत् ॥ पॄ पालन पूरणयोः ॥ 4 ॥
अर्तिपिपर्त्योश्च

614

अभ्यासस्य इकारो ऽन्तादेशः स्यात् श्लौ । पिपर्ति ॥
उदोष्ठ्यपूर्वस्य

615

अङ्गावयवौष्ठ्यपूर्वो य ॠत् तदन्तस्याङ्गस्य उत् स्यात् ॥
हलि च

616

रेफवान्तस्य धातेरुपधाया इको दीर्घो हलि । पिपूर्तः । पिपुरति । पपार ॥
शॄदॄप्रां ह्रस्वो वा

617

एषां लिटि ह्रस्वो वा स्यात् । पप्रतुः ॥
ऋच्छत्यॄताम्

618

तौदादिक ऋच्छेर् ऋधातोर् ॠतां च गुणो लिटि । पपरतुः । पपरुः ॥
वॄतो वा

619

वृङ्वृञ्भ्यामॄदन्ताच्चेटो दीर्घो वा स्यान्न तु लिटि । परिता, परीता । परीष्यति, परिष्यति । पिपर्तु । अपिपः । अपिपूर्ताम् । अपिपरुः । पिपूर्यात् । पूर्यात् । अपारीत् ॥
सिचि च परस्मैपदेषु

620

अत्र इटो न दीर्घः । अपारिष्टाम् । अपरिष्यत्, अपरीष्यत् ॥ ओहाक् त्यागे ॥ 5 ॥ जहाति ॥
जहातेश्च

621

इद्वा स्याद्धलादौ क्ङिति सार्वधातुके । जहितः ॥
ई हल्यघोः

622

श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलादौ न तु घोः । जहीतः ॥
श्नाभ्यस्तयोरातः

मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc