लघुसिद्धान्तकौमुदी · श्लोक 583-602
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तो ऽसवर्णे ऽचि । इयाय ॥
दीर्घ इणः किति
इणो ऽभ्यासस्य दीर्घः स्यात् किति लिटि । ईयतुः । ईयुः । इययिथ, इयेथ । एता । एष्यति । एतु । ऐत् । ऐताम् । आयन् । इयात् ॥
एतेर्लिङि
उपसर्गात्परस्य इणो ऽणो ह्रस्व आर्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् ? समेयात् ॥
इणो गा लुङि
गातिस्थेति सिचो लुक् । अगात् । ऐष्यत् ॥ शीङ् स्वप्ने ॥ 19 ॥
शीडः सार्वधातुके गुणः
क्क्ङिति चेत्यस्यापवादः । शेते । शयाते ॥
शीङो रुट्
शीडः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शयाथे । शेध्वे । शये । शेवहे । शेमहे । शिश्ये । शिश्याते । शिश्यिरे । शयिता । शयिष्यते । शेताम् । शयाताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । शयिषीष्ट । अशयिष्ट । अशयिष्यत ॥ इङ् अध्ययने ॥ 20 ॥ इङिकावध्युपसर्गतो न व्यभिचारतः । अधीते । अधीयाते । अधीयते ॥
गाङ् लिटि
इङो गाङ् स्याल्लिटि । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अधीताम् । अधीयाताम् । अधीयताम् । अधीष्व । अधीयाथाम् । अधीध्वम् । अध्ययै । अध्ययावहै । अध्ययामहै । अध्यैत । अध्यैयाताम् । अध्यैयत । अध्यैथाः । अध्यैयाथाम् । अध्यैध्वम् । अध्यैयि । अध्यैवहि । अध्यैमहि । अधीयीत । अधीयीयाताम् । अधीयीरन् । अध्येषीष्ट ॥
विभाषा लुङॢङोः
इङो गाङ् वा स्यात् ॥
गाङ्कुटादिभ्यो ऽञ्णिन्ङित्
गाङादेशात्कृटादिभ्यश्च परे ऽञ्णितः प्रत्यया ङितः स्युः ॥
धुमास्थागापाजहातिसां हलि
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट, अध्यैष्ट । अध्यगीष्यत, अध्यैष्यत ॥ दुह प्रपूरणे ॥ 21 ॥ दोग्धि । दुग्धः । दुहन्ति । धोक्षि । दुग्धे । दुहाते । दुहते । धुक्षे । दुहाथे । धुग्ध्वे । दुहे । दुह्वहे । दुह्महे । दुदोह, दुदुहे । दोग्धासि, दोग्धासे । धोक्ष्यति, धोक्ष्यते । दोग्धु, दुग्धात् । दुग्धाम् । दुहन्तु । दुग्धि, दुग्धात् । दुग्धम् । दुग्ध । दोहानि । दोहाव । दोहाम । दुग्धाम् । दुहाताम् । दुहताम् । धुक्ष्व । दुहाथाम् । धुग्घ्वम् । दोहै । दोहावहै । दोहामहै । अधोक् । अदुग्धाम् । अदुहन् । अदोहम् । अदुग्ध । अदुहाताम् । अदुहत । अधुग्ध्वम् । दुह्यात्, दुहीत ॥
लिङ्सिचावात्मनेपदेषु
इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि । धुक्षीष्ट ॥
शल इगुपधादनिटः क्सः
इगुपधो यः शलन्तस्तस्मादनिटश्च्लेः क्सादेशः स्यात् । अधुक्षत् ॥
लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये
एषां क्सस्य लुग्वा स्याद्दन्त्ये तङि । अदुग्ध, अधुक्षत ॥
क्सस्याचि
अजादौ तङि क्सस्य लोपः । अधुक्षाताम् । अधुक्षन्त । अदुग्धाः, अधुक्षथाः । अधुक्षाथाम् । अधुग्ध्वम्, अधुक्षध्वम् । अधुक्षि । अदुह्वहि, अधुक्षावहि । अधुक्षामहि । अधोक्ष्यत ॥ एवं दिह उपचये ॥ 22 ॥ लिह आस्वादने ॥ 23 ॥ लेढि । लीढः । लिहन्ति । लेक्षि । लीढे । लिहाते । लिहते । लिक्षे । लिहाथे । लीढ्वे । लिलेह, लिलिहे । लेढासि, लेढासे । लेक्ष्यति, लेक्ष्यते । लेढु । लीढाम् । लिहन्तु । लीढि । लेहानि । लीढाम् । अलेट्, अलेड् । अलिक्षत्, अलीढ, अलिक्षत । अलेक्ष्यत्, अलेक्ष्यत ॥ ब्रूञ् व्यक्तायां वाचि ॥ 24 ॥
ब्रुवः पञ्चानामादित आहो ब्रुवः
ब्रुवो लटस्तिबादीनां पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आह । आहतुः । आहुः ॥
आहस्थः
झलि परे । चर्त्वम् । आत्थ । आहथुः ॥
ब्रुव ईट्
ब्रुवः परस्य हलादेः पित ईट् स्यात् । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । ब्रुवाते । ब्रुवते ॥
ब्रुवो वचिः
आर्धधातुके । उवाच । ऊचतुः । ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्तासि, वक्तासे । वक्ष्यति, वक्ष्यते । ब्रवीतु, ब्रूतात् । ब्रुवन्तु । ब्रूहि । ब्रवाणि । ब्रूताम् । ब्रवै । अब्रवीत्, अब्रूत । ब्रूयात्, ब्रुवीत । उच्यात्, वक्षीष्ट ॥
अस्यतिवक्तिख्यातिभ्यो ऽङ्
एभ्यश्चलेरङ् स्यात् ॥
वच उम्
अङि परे । अवोचत्, अवोचत । अवक्ष्यत्, अवक्ष्यत । (ग. सू.) चर्करीतं च । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम् ॥ ऊर्णुञ् आच्छादने ॥ 25 ॥
ऊर्णोतेर्विभाषा
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0