लघुसिद्धान्तकौमुदी · श्लोक 563-582
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ, जघन्थ । जघ्नथुः । जघ्न । जघ्निव । जघ्निम । हन्ता । हनिष्यति । हन्तु, हतात् । हताम् । घ्नन्तु ॥
हन्तेर्जः
हौ परे ॥
असिद्धवदत्राभात्
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान्न हेर्लुक् । जहि, हतात् । हतम् । हत । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहन् । अहतम् । अहत । अहनम् । अहन्व । अहन्म । हन्यात् । हन्याताम् । हन्युः ॥
आर्धधातुके
इत्यधिकृत्य ॥
हनो वध लिङि
लुङि च
वधादेशो ऽदन्तः । अर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः । वध्यात् । वध्यास्ताम् । आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट् । ऽअतो हलादेःऽ; इति वृद्धौ प्राप्तायाम् ---- .
अचः परस्मिन् पूर्वविधौ
परनिमित्तो ऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये । इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । अवधीत् । अहनिष्यत् ॥ यु मिश्राणामिश्रणयोः ॥ 3 ॥
उतो वृद्धिर्लुकि हलि
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य । यौति । युतः । युवन्ति । यौषि । युथः । युथ । यौमि । युवः । युमः । युयाव । यविता । यविष्यति । यौतु, युतात् । अयौत् । अयुताम् । अयुवन् । युयात् । इह उतो वृद्धिर्न, भाष्ये - ऽपिच्च ङिन्न ङिच्च पिन्नऽ; इति व्याख्यानात् । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयासुः । अयावीत् । अयविष्यत् ॥ या प्रापणे ॥ 4 ॥ याति । यातः । यान्ति । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् ॥
लङः शाकटायनस्यैव
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः, अयान् । यायात् । यायाताम् । यायुः । यायात् । यायास्ताम् । यायासुः । अयासीत् । अयास्यत् । वा गतिगन्धनयोः ॥ 5 ॥ भा दीप्तौ ॥ 6 ॥ ष्णा शौचे ॥ 7 ॥ श्रा पाके ॥ 8 ॥ द्रा कुत्सायां गतौ ॥ 9 ॥ प्सा भक्षणे ॥ 10 ॥ रा दाने ॥ 11 ॥ ला आदाने ॥ 12 ॥ दाप् लवने ॥ 13 ॥ पा रक्षणे ॥ 14 ॥ ख्या प्रकथने ॥ 15 ॥ अयं सार्वधातुके एव प्रयोक्तव्यः ॥ विद ज्ञाने ॥ 16 ॥
विदो लटो वा
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे -- वेत्ति । वित्तः । विदन्ति ॥
उषविदजागृभ्यो ऽन्यतरस्याम्
एभ्यो लिटि आम्वा स्यात् । विदेरन्तत्वप्रतिज्ञानादामि न गुणः । विदाञ्चकार, विवेद । वेदिता । वेदिष्यति ॥
विदाङ्कुर्वन्त्वित्यन्यतरस्याम्
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते ॥
तनादिकृञ्भ्य उः
तनादेः कृञश्च उः प्रत्ययः स्यात् । शपो ऽपवादः । गुणौ । विदाङ्करोतु ॥
अत उत्सार्वधातुके
उत्प्रत्ययान्तस्य कृञो ऽत उत्सार्वधातुके क्ङिति । विदाङ्कुरुतात् । विदाङ्कुरुताम् । विदाङ्कुर्वन्तु । विदाङ्कुरु । विदाङ्करवाणि । अवेत् । अवित्ताम् । अविदुः ॥
दश्च
धातोर्दस्य पदान्तस्य सिपि रुर्वा । अवेः, अवेत् । विद्यात् । विद्याताम् । विद्युः । विद्यात् । विद्यास्ताम् । अवेदीत् । अवेदिष्यत् ॥ अस् भुवि ॥ 17 ॥ अस्ति ॥
श्नसोरल्लोपः
श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति । स्तः । सन्ति । असि । स्थः । स्थ । अस्मि । स्वः । स्मः ।
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारे ऽचि च परे । निष्यात् । प्रनिषन्ति, प्रादुः षन्ति । यच्परः किम् ? । अभिस्तः ॥
अस्तेर्भूः
आर्धधातुके । बभूव । भविता । भविष्यति । अस्तु, स्तात् । स्ताम् । सन्तु ॥
घ्वसोरेद्धावभ्यासलोपश्च
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च । एत्त्वस्यासिद्धत्वाद्धेर्धिः । श्नसोरित्यल्लोपः । तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात् । एधि, स्तात् । स्तम् । स्त । असानि । असाव । असाम । आसीत् । आस्ताम् । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभविष्यत् ॥ इण् गतौ ॥ 18 ॥ एति । इतः ॥
इणो यण्
अजादौ प्रत्यये परे । यन्ति ॥
अभ्यासस्यासवर्णे
मूल पाठ: Laghusiddhāntakaumudī (= Laghukaumudi) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0