लघुभागवतामृत · अध्याय 2.1
इति श्री-रूप-गोस्वामि-पाद-कृते श्री-लघु-भागवतामृते
श्री-कृष्णामृत-नाम पूर्व-खण्डं समाप्तम् ॥
लघु-भागवतामृत
उत्तर-खण्डम्
ओं नमः श्री-कृष्ण-रस-रसिकेभ्यः
अथ श्री-भक्तामृतम्
आराधनं मुकुन्दस्य भवेद् आवश्यकं यथा ।
तथा तदीय-भक्तानां नो चेद् दोषोऽस्ति दुस्तरः
तथा हि पाद्मे -
मार्कण्डेयोऽम्बरीषस्य वसुर् व्यासो विभीषणः ।
पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥
दाल्भ्यः पराशरो भीष्मो नारदाद्याश् च वैष्णवैः ।
सेव्या हरिं निषेव्यामी नो चेद् आगः परं भवेत्
तथा च हरि-भक्ति-सुधोदये (16.76) -
अर्चयित्वा तु गोविन्दं तदीयान् नार्चयन्ति ये ।
न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः
पाद्मोत्तर-खण्डे -
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम्
तत्रैव च --
अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः ।
न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः
इति ।
आदि-पुराणे -
मम भक्ता हि ये पार्थ न मे भक्तास् तु ते मताः ।
मद्-भक्तस्य तु ये भक्तास् ते मे युक्ततमा मताः
श्रीमद्-भागवते च (11.19.21) --
मद्-भक्त-पूजाभ्यधिका । इति
एतेषाम् अपि सर्वेषां प्रह्लादः प्रवरो मतः ।
सर्वेषु हरि-भक्तेषु प्रह्लादो हि महत्तमः
यथा स्कान्दे श्री-रुद्र-वाक्यम् -
भक्त एव हि तत्त्वेन कृष्णं जानाति न त्व् अहम् ।
सर्वेषु हरि-भक्तेषु प्रह्लादोऽतिमहत्तमः
श्री-सप्तम-स्कन्धे श्री-प्रह्लादस्यैव वाक्यम् (7.9.26) -
क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन् मे ऽर्पितः शिरसि पद्म-करः प्रसादः
तत्रैव श्री-नृसिंह-वाक्यम् - (7.10.21)
भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक्
पाण्डवाः सर्वतः श्रेष्ठाः प्रह्लादाद् ईदृशाद् अपि ।
श्री-भागवतम् एवात्र प्रमाणं स्फुटम् ईक्ष्यते
तथा हि श्री-सप्तम-स्कन्धे श्री-नारद-वाक्यं (7.10.48-50, 7.15.75-77)
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम्
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च
न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः
इति ।
व्याख्यातं च श्री-स्वामि-पादैः -
अहो प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्याः इति
विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिः
न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद्-दर्शनार्थं मुनयस्
तद्-गृहान् अभियन्ति । न च तस्य ब्रह्म मातुलेयादि-रूपेआ वर्तते । न च स्वयम्
एव प्रसन्नं । अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागाः इति
भावः
सदातिसन्निकृष्टत्वात् ममताधिक्यतो हरेः ।
पाण्डवेभ्योऽपि यदवः केचित् श्रेष्ठतमा मताः
तथा हि श्री-दशमे (10.82.28,30) -
अहो भोज-पते यूयं जन्म-भाजो नॄणाम् इह ।
यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम्
तद्-दर्शन-स्पर्शनानुपथ-प्रजल्प-
शय्यासनाशन-सयौन-सपिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्मनि वर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्टुः
तथा - (10.90.46)
शय्यासनाटनालाप-क्रीडा-स्नानाशनादिषु ।
न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः
यदुभ्योऽपि वरिष्ठोऽसौ सर्वेभ्यः श्रीमद्-उद्धवः ।
श्रीमद्-भागवते यस्य श्रूयते महिमाद्भुतः
तथा हि एकादशे श्रीमद्-भगवद्-वाक्यम् ((स्ब् 11.14.15)
न तथा मे प्रियतम आत्म-योनिर् न शङ्करः
न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान्
तथा (11.16.29)
त्वं तु भागवतेष्व् अहम्
इति ।
आबाल्याद् एव गोविन्दे भक्तिर् अस्याखिलोत्तमा
तथा च श्री-तृतीये (3.2.2) --
यः पञ्च-हायनो मात्रा प्रातर्-आशाय याचितः ।
तन् नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया
अतएव तत्रैव श्रीभगवद्-वचनम् (3.4.31) -
नोद्धवो ऽण्व् अपि मन्-न्यूनो
यद् गुणैर् नार्दितः प्रभुः
इति ।
अस्यार्थः । यद्-गुणैः यस्य उद्धवस्य गुणैः, प्रभुर् अप्य् अहं न अर्दितः । न
याचितः । यद् वा यत् यस्मात् । उद्धवः गुणैः सत्त्वादिभिः । न अर्दितः न पीडितः
। गुणातीत इत्य् अर्थः । तत्र हेतुः प्रभुः भक्तिर् असांवादे
प्रभविष्णुः
व्रज-देव्यो वरीयस्य ईदृशाद् उद्धवाद् अपि ।
यद् आसां प्रेम-माधुर्यं स एषोऽप्य् अभियाचते
तथा हि श्री-दशमे (10.47.58)
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एवम् अखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य
श्री-बृहद्-वामने च भृग्व्-आदीन् प्रति श्री-ब्रह्म-वाक्यम् -
षष्ठि-वर्ष-सहस्राणि मया तप्तं तपः पुरा ।
नन्द-गोप-व्रज-स्त्रीणां पाद-रेणूपलब्धये ।
तथापि न मया प्राप्तास् तासां वै पाद-रेणवः
भृग्व्-आदि-वाक्यम् -
वैष्णवानां पाद-रजो गृह्यते त्वद्-विधैर् अपि ।
सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥
तेषां विहाय गोपीनां पाद-रेणुस् त्वयापि यत् ।
गृह्यते संशयो मेऽत्र को हेतुस् तद्वत् प्रभो
श्री-ब्रह्म-वाक्यम् -
न स्त्रियो व्रज-सुन्दर्यः पुत्र श्रेष्ठाः श्रियोऽपि ताः ।
नाहं शिवश् च शेषश् च श्रीश् च ताभिः समाः क्वचित्
आदि-पुराणे च श्रीमद्-अर्जुन-वाक्यं -
त्रैलोक्ये भगवद्-भक्ताः के त्वां जानन्ति मर्मणि ।
केषु वा त्वं सदा तुष्टः केषु प्रेम तवातुलम्
श्री-भगवद्-वाक्यम् -
न तथा मे प्रियतमो ब्रह्मा-रुद्रश् च पार्थिव ।
न च लक्ष्मीर् न चात्मा च यथा गोपीजनो मम्
भक्ता ममानुरक्ताश् च कति सन्ति न भूतले ।
किन्तु गोपीजनः प्राणा-धिक-प्रियतमो मम
न मां जानन्ति मुनयो योगिनश् च परन्तप ।
न च रुद्रादयो देवा यथा गोप्यो विदन्ति माम्
न तपोभिर् न वेदैश् च नाचारैर् न च विद्यया ।
वशोऽस्मि केवलं प्रेम्णा प्रेमाणं तत्र गोपिका
मन्-माहात्म्यं मत्-सपर्यां मच्-छ्रद्दां मन्-मनोगतम् ।
जानन्ति गोपिकाः पार्थ नान्ये जानन्ति मर्मणि
निजाङ्गम् अपि या गोप्यो ममेति समुपासते ।
ताभ्यः परं न मे पार्थ निगूढ-प्रेम-भाजनम्
इति ॥
न चित्रं प्रेम-माधुर्यम् आसां वाञ्छेद् यद् उद्धवः ।
पाद-रेणूक्षितं येन तृण-जन्मापि याचते
तथा हि श्री-दशमे (भ्प् 10.47.61) --
आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम्
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम्
इति कृष्णं निषेव्याग्रे कृष्णस्योपासकैर् जनैः ।
सेव्याः प्रसाद-पुष्पाद्यैर् अवश्यं व्रज-सुभ्रुवः
तत्रापि सर्व-गोपीनां राधिकाति-वरीयसी ।
सर्वाधिक्येन कथिता यत् पुराणागमादिषु
यथा पाद्मे --
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथा ।
सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा
आदि-पुराणे च --
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ तत्र राधाभिधा मम
मूल पाठ: Laghubhāgavatāmṛta · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0