कुट्टनीमत · श्लोक 981-1000
श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् ।
हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये
ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण ।
गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः
दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः ।
यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः
भूमण्डले ऽत्र सकले नातः परमपरमद्भुतं किं चित् ।
नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि
कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् ।
शक्त इति कृतं विधिना रोमावलिभूषणं सहजम्
साकम्पो ऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः ।
तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम्
वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् ।
तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम्
बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः ।
बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव
इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते ।
समुपागता प्रगल्भा मञ्जरिकाचोदिता दूती
सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।
व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम्
मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा ।
नक्षत्रराजमण्डलमिच्छति वियतः समादातुम्
निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् ।
अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे
विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् ।
दुर्व्यवसिता जिघृक्षति नारायणवक्षसो रत्नम्
अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः ।
क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः
दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि ।
अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने
या हसति सरोजवतीं रसान्विता सहजरागरक्तेति ।
ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम्
स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् ।
पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति
न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति ।
न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम्
विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति ।
शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु
नो बहु मनुते रम्भां नलकूबरमभिसृतेति कामार्ता ।
गर्हति च देवगणिकामनुरक्तामुर्वशीं पुरूरवसि
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0