भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 1001-1020

1001

हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि ।
गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः

1002

प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति ।
कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु

1003

कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् ।
अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति

1004

बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव ।
हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः

1005

नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धो ऽपि ।
दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः

1006

त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन ।
चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः

1007

अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन ।
जातः स एव तस्या अनन्यभवमार्गणः प्रथमः

1008

विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः ।
त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे

1009

अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् ।
विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या

1010

भग्ने ऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः ।
गृह एव निरवसानं वितनोति न नाट्यधर्मेण

1011

ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा ।
ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम्

1012

गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।
इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम्

1013

नलकूबरो वराको रतिरमणो रमण एव किं तेन ।
अनिरुद्धो ऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु

1014

न जयन्तो ऽनन्तगुणो न कुमारः मारकर्मणो ऽबाह्यः ।
केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम्

1015

आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् ।
पश्यति भवन्तमेकं संकल्पनिवेशितं बाला

1016

रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः ।
इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति

1017

मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन ।
जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम्

1018

तामेव गच्छ यस्यामासज्य विलम्बितो ऽसि गतलज्ज ।
वेलामियतीमलमलमेतैरधुना शठानुनयैः

1019

वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् ।
इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम्

1020

उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् ।
का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc