कुट्टनीमत · श्लोक 961-980
गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः ।
मञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम्
भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।
कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः
सुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः ।
जनमृतये तां सृजता किं दृष्टं सुरहितं तेन
सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः ।
कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी
कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः ।
सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम्
यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।
स्पृहयति सो ऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः
त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् ।
जनयति तदपि मृगाक्षी सहस्रकरतो ऽधिकं तापम्
सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।
न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव
अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः ।
येन जरत्स्वप्यटनी धनुषः स्पृष्टा दशार्धबाणेन
रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।
शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः
दग्धे ऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् ।
तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी
यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।
उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम्
चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या ।
तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः
आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् ।
क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान् पतितम्
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।
शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य
स्मरणाद्यस्योत्पत्तिः सुमनस इषवो ऽबलाश्रया शक्तिः ।
सो ऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम्
तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् ।
नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः
यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः ।
निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च
केशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना ।
तद्वक्षश्च्यवनभुवं कथमुज्झति सैन्धवीशङ्काम्
उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः ।
यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0