कुट्टनीमत · श्लोक 941-960
सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः ।
आदेयहेयमध्यैर्भावैः संपादितः प्रयोगो ऽयम्
गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् ।
दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः
अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् ।
अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु
नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् ।
रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम्
प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।
अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम्
भरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् ।
मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः
सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् ।
निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम्
एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये ।
पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन
संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः ।
आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम्
एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः ।
आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे
चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् ।
भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन
वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः ।
तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन्
यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या ।
गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः
मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे ।
पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि
गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् ।
उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति
दावानलसंतापान्निर्यान्तं गहनवीरुधो ऽभिमुखम् ।
यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण
घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।
व्याधवर एव कुरुते निर्जीवं हेलया शशकम्
इति विदधति सैंहभटावाखेटकशक्तिलाघवश्लाघाम् ।
हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः
आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां ।
अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम्
अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय ।
उत्तस्थौ समरभटः मञ्जरिकां समवलोकयन्प्रेम्णा
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0