कुट्टनीमत · श्लोक 921-940
नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव ।
सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम्
उच्चारिते ऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् ।
उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये
अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै ।
हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम्
यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि ।
इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम्
कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितो ऽस्माभिः ।
संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी
देवि त्वन्मुखपद्मः पद्मान् विदधाति पश्य विच्छायान् ।
अलयो ऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते
एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा ।
नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायको ऽपि सह सर्वैः
अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते ।
प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम्
नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः ।
वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम्
आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् ।
वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः
कृतजीवनसंस्थो ऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् ।
अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन
न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः ।
लभमानो ऽपि स दायं चिरन्तनत्वाभिमानेन
विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः ।
तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात्
यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् ।
आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम्
अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः ।
तत्रापि ते ऽनुबन्धो नो जाने किं करोमीति
प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् ।
अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम्
एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः ।
फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम्
एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य ।
मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित्
सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः ।
सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0