भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 901-920

901

चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् ।
अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम्

902

स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति ते ऽपेक्षा ।
इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः

903

वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा ।
कलयति तं तूललघुं जयति मनोजन्मनो महिमा

904

उदयनसमनुज्ञातो नर्नर्ति वसन्तको ऽपि मुदितात्मा ।
हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये

905

धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् ।
प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य

906

आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् ।
अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन

907

मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् ।
पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः

908

प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् ।
भावेन भवान् पूज्यो लोकस्थित्या तु कुसुमशरपाणिः

909

इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।
ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते

910

अपनीततिरस्करिणी ततो ऽभवन्नृपसुता समं चेट्या ।
अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता

911

अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।
काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा

912

प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि ।
यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य

913

उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता ।
मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व

914

विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ ।
विहगी सुसङ्गताया हस्ते निहिता मनोभवसपर्याम्

915

अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन ।
तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति

916

पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् ।
समुपेत्य वत्सराजं जगाद सा जयतु देव इति

917

परिभुक्तमपि नवत्वं शृङ्गारं मदनपर्वणा नीतम् ।
भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे

918

शर्वविलोचनपावकदाहाभ्यधिकां मनोभवो मन्ये ।
प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम्

919

अथ मन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् ।
परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम्

920

शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।
तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc