भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 881-900

881

वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् ।
प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरे ऽविशत्सूत्री

882

उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् ।
कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या

883

अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् ।
आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम्

884

सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि ।
निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन

885

आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयो ऽमात्यः ।
दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च

886

प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् ।
निर्दिश्य वत्सनाथं समनन्तरकार्यसिद्धये निरगात्

887

अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन ।
अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या

888

विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् ।
नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति

889

तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् ।
अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा

890

पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् ।
गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम्

891

तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् ।
मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम्

892

अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः ।
इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी

893

क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः ।
सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम्

894

भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् ।
अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः

895

तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् ।
आर्यानार्यावगमं वदनावृतिजालिका कुरुते

896

अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् ।
वासवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ

897

दर्शितसरोजवर्तनमात्राभिनये शरे ऽभिनेतव्ये ।
विदधाने वीरदृशावायुधमात्रं समाश्रित्य

898

तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः ।
निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः

899

करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानो ऽपि ।
स्तनमण्डले स्थितो ऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः

900

अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् ।
बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc