भाषा

ENहिગુ
ग्रंथ पाठ

कुट्टनीमत · श्लोक 861-880

861

त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य ।
तदपि जहार कलत्रं दशरथतनयस्य रामस्य

862

अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा ।
आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम्

863

घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः ।
ग्रामोषितो ऽविदग्धो निन्दति गणिकां भवद्विधो ऽवश्यम्

864

नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् ।
नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम्

865

स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् ।
सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम्

866

बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः ।
पामरनार्या दृष्टः स्मरो ऽहमिति मन्यते विटो ग्राम्यः

867

गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् ।
उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य

868

कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः ।
वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः

869

लग्नो ऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् ।
अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः

870

उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् ।
खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः

871

आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः ।
आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः

872

त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् ।
गृहकर्तव्यं त्यक्त्वा सापश्यद् द्वाररन्ध्रेण

873

त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग ।
प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः

874

इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य ।
ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य

875

विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन ।
श्रीसिंहभटस्य सुतं समुवाच वचो ऽथ नर्तकाचार्यः

876

नायकभूमौ भरतः कुशीलवाः कोहलादयो मुनयः ।
अप्सरसः स्त्रीनाट्ये गान्धर्वः कमलजन्मनस्तनयः

877

सुषिरस्वरप्रयोगप्रतिपादनपण्डितः मतङ्गमुनिः ।
यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः

878

अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति ।
आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य

879

विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् ।
अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः

880

इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया ।
रचिते सकलातोद्ये नियोजयामास सूत्रधृतम्

मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc