कुट्टनीमत · श्लोक 841-860
भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् ।
जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः
नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति ।
निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम्
नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि ।
यं श्लिष्यते ऽन्ययोषा तिक्तं तस्यामृतं पुरतः
न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा ।
गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम्
उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् ।
संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम्
आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने ।
स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता
न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् ।
दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता
अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् ।
सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः
यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् ।
ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः
धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना ।
तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात्
सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् ।
हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती
आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः ।
अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः
प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् ।
अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता
परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।
कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव
अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् ।
सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः
परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य ।
वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः
उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् ।
वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम्
का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया ।
व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम्
शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः ।
परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम्
अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः ।
येन चकारासक्तिं गोविन्दो गोपदारेषु
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0