कुट्टनीमत · श्लोक 821-840
दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् ।
तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम्
पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् ।
तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य
सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा ।
अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम्
प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः ।
तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात्
अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः
किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् ।
स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य
येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् ।
त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति
ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति ।
एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन्
उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् ।
कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम्
दृष्टो ऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया ।
संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम्
शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् ।
इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन
किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य ।
अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च
कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् ।
अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती
स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।
यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा
दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।
इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम्
सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः ।
विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या
नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा ।
पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद् ब्रूते
एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ।
त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि
इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या ।
दृष्टेति शङ्कमाना पदे पदे चलति पर्णे ऽपि
सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे ।
प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0