कुट्टनीमत · श्लोक 81-100
इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या ।
अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति
कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा ।
षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया
कीदृक् त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् ।
प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात्
सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै ।
अपनीय सताम्बूलकमनवसरे साधुवादं च
भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि ।
अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च
प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः ।
रम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम्
इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः ।
वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम्
प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो वत्से ।
तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः
चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता ।
योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन
स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् ।
अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः
जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् ।
यत्त्वं नयनानन्दन नयनावसरं समेतो ऽसि
चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् ।
प्रकटयति वाररमणी नटीव शिक्षाभियोगेन
प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च ।
रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च
उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रे ऽपि
इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः ।
वेशविलासवतीनामशरीरशरव्यथाकथनम्
केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा ।
मुखरयति मां दुराशादग्धसखी तेन कथयामि
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता
क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था ।
क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति
मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः ।
रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति
पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ ।
किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता
मूल पाठ: Kuṭṭanīmata · Edition: Dāmodaraguptaviracitaṃ Kuṭṭanīmatam : The Bawd's Counsel, Being an eighth-century verse novel in Sanskrit by Dāmodaragupta Newly edited and translated into English by Csaba Dezso & Dominic Goodall. Groningen: Egbert Forsten, 2012. ISBN 978 90 6980 158 2 · Data entry Csaba Dezso Dominic Goodall · GRETIL (Göttingen) · CC BY-NC-SA 4.0